श्रीः
॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥
॥ चतुर्थः कैवल्यपादः ॥
जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १ ॥
देहान्तरिता जन्मसिद्धिः । ओषधिभिरसुरभवनेषु रसायनेनेत्येवमादिः।
प्रथमे पादे समाधिः प्राधान्येन निर्दिष्टः । द्वितीये तत्साधनानि व्याख्यातानि । तृतीये तु सम्यग्दर्शनार्थयोगाङ्गानुष्ठानानुषङ्गजज्ञानैश्वर्यानुक्रमणं कृतम् । तच्च सर्वं दुःखस्येति जैगीषव्याख्यानेन प्रतिपादितम् । दुःखहानं चात्यान्तिकगुणोपरम इत्युक्तम् । तथैव “तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्” प्राप्तविवेकज्ञानस्याप्राप्तविवेकज्ञानस्य वा “सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम्” इत्यनन्तरमुक्तम् । तच्च कैवल्यं प्रतिपक्षनिवर्तनेन प्रतिपादनीयमितीदं कैवल्यपादानुक्रमणं क्रियते ॥
तथा अनेकजन्मान्तरोपार्जितवासनोच्छेदप्रकाराश्च कैवल्यार्थमेव प्रदर्शनीयाः । तथा कैवल्योपयोगिसमाधिसिद्धिस्तुत्यर्थं पूर्वत्रानुक्तं सिद्ध्यन्तरं प्रक्रियते । तुल्यजातीयानामन्यतमनिन्दनेनान्यतमस्तुतिर्भवति । “तत्र ‘ध्यानजमनाशयम्’ ‘कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम्’” इति वक्ष्यमाणेन स्तुत्यर्थता आविष्करिष्यते ॥
जन्मौषधिमन्त्रतपस्समाधिजाः सिद्धयः । देहान्तरिता यथा योगादिना देहान्तरेषु स्वर्गादिषु जन्मसिद्धिः । ओषधिभिरसुरभवनेषु रसायनेन
मन्त्रैराकाशगमनाणिमादिलाभः । तपसा संकल्पसिद्धिः, कामरूपी यत्र कामगमन इत्येवमादिः ! समाधिजाः सिद्धयो व्याख्याताः ॥ १ ॥
तत्र कायेन्द्रियाणामन्यजातिपरिणतानाम्—