कैवल्यपादः · ४.१८

सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८ ॥

विवरणम्

 येन वस्तुना चित्तमुपरज्यते तत् ज्ञातं, येन च नोपरज्यते तत् अज्ञातम् । स चोपरागश्चित्तपरिणामापेक्षः । इन्द्रियमार्गेण चित्तं बाह्याकारेण परिणममानं हि सम्बध्यते ॥

 किं पुनश्चित्तपरिणामनिमित्तमित्याह—अयस्कान्तमणिकल्पा अयस्कान्तसमानाः विषयाः, अयस्सधर्मकं चित्तम्—अयस्सधर्मकत्वं च विषयसन्निधाने विक्रियत इति । विषयाणामप्ययस्कान्तमणिकल्पत्वं सन्निधिमात्रेण चित्तविक्रियापादनसामर्थ्यात् । अतो विषया आत्माकारेण परिणतं चित्तम् अभिसंबध्योरञ्जयन्ति ॥

येन च विषयेणोपरक्तं चित्तं स विषयो ज्ञातः । ततोऽन्यः(ऽन्ये) पुनः अनुपरञ्जको (का) विषयः (या) अज्ञातः (ताः) । तस्मात् वस्तुनो ज्ञाताज्ञातस्वरूप(विषय)त्वात् परिणामि चित्तम् । अथ पुनश्चित्ततन्त्र एव विषयश्चित्तमेव वा विषयः, तस्य वादिनः सर्वविषयज्ञत्वमविषयज्ञत्वं वा भवेत् । अज्ञातस्य चित्तस्याभावात् । न चेदं दृश्यते । किं तर्हि ? ज्ञाताज्ञातविषयत्वमेव चित्तस्य प्रतिपद्यामहे । तच्चैतत् स्थिरावस्थानानां विषयाणां प्राप्त्यभावादन्यथा च संबन्धानवकल्पनाचित्तपरिणामापेक्षमेवेति परिणामित्वम् ॥ १७ ॥

 यस्य तु स्वामिनो भोक्तुः तदेव ज्ञाताज्ञातविषयं चित्तं वृत्तिरूपेण विषयः न हि निरुद्धवृत्तिनश्चेतसो विषयत्वमिति, तस्य पुरुषस्य सदा ज्ञाताश्चित्तवृत्तयः[तत्प्रभोः पुरुषस्यापरिणामित्वात्] । तासां प्रत्यक्षत्वात् सदा ज्ञातविषयत्वमप्रसाध्यम् ॥

 यद्वा प्रत्यक्षगम्याश्चित्तवृत्तयः, उपलब्धत्वेन शब्दलिङ्गानपेक्षं स्मर्यमाणत्वात्, प्रत्यक्षोपलब्धघटवत् । निश्चितरूपत्वाच्च तथैव । संशयाविषयत्वाच्च । यदि हि सदैवाप्रत्यक्षाश्चित्तवृत्तयः, ता बाह्यविषयवत् संशयिता अपि कदाचित् काश्चन भवेयुः । न हि काश्चन कदाचन संशयमार्गसंपातिन्यो दृष्टाः ॥
व्यासभाष्यम्

 यदि चित्तवत्प्रभुरपि पुरुषः परिणमेत् ततस्तद्विषयाश्चित्तवृत्तयः शब्दादिविषयवज्ज्ञाताज्ञाताः स्युः । सदाज्ञातत्वं तु मनसस्तत्प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥ १८ ॥

विवरणम्

 अपि च, भवति हि कदाचिज्ज्ञातः सन्नर्थो ज्ञात इति [प्रतीयमानः] । चित्तवृत्तिप्रत्यक्षाग्राह्यत्वे [तत्] नोपपद्यते । न च फलद्वारेणानुमातुं तत्र शक्यते फलस्यानवधारणात् ॥

 तस्मात् संशयस्य चाविषयत्वात्, पृथक् च विषयाचित्तवृत्तीनां स्वरूपमात्रेणैव स्मर्यमाणत्वात्, सर्वदा सर्वैः प्रत्यक्षाश्चित्तवृत्तयः । तथा प्रतिपत्तुरवभासकत्वात्, करणत्वात्, अभिव्यञ्जकत्वाच्च, प्रदीपादिवत् । न तु चक्षुरादिभिरनैकान्तिकत्वम् । तत्रापि प्रत्यक्षग्राह्यत्वात् । यथा प्रदीपाद्यालोकविशिष्टा घटादयो गृह्यन्ते, तथा श्रोत्रादिस्वालोकविशिष्टा एव शब्दादयो गृह्यन्ते ॥

 न च विविच्याग्रहणादप्रत्यक्षत्वमिति शक्यं वक्तुम् । यथा प्रदीपयोः परस्परव्यतिभिन्ना रश्मयः, न चास्यायं रश्मिरस्य चायमिति विविच्यते, न च तावता तेषामप्रत्यक्षत्वम्, [एवं] इहापि चक्षुरादीनां तुल्यजातीयबाह्यालोकादिव्यतिषङ्गाद्विविच्याग्रहणम् । न च तावन्मात्रेण तेषामप्रत्यक्षत्वम् । यो हि प्रत्यक्षावसीयमानचित्तवृत्त्यपलापं करोति, नूनमसावात्मानमप्यपलपेदिति सर्वोपलब्धेश्चित्तवृत्त्यधीनत्वात् रूपोपलब्धेरिवालोक(प्रत्यायकं तत्त्वम्) प्रत्ययाधीनत्वम् । तस्मादाह—सदा ज्ञाताश्चित्तवृत्तयः पुरुषस्येति ॥

 यच्चैतत् सदा ज्ञातविषयत्वम्, तत्प्रभोः पुरुषस्यापरिणामित्वात् । नित्योपलब्धृस्वरूपप्रयुक्तं हि तदिति । यदि चित्तवत् प्रभुरपि पुरुषः परिणमेत्, ततस्तद्विषयाश्चित्तवृत्तयः चित्तस्यैव शब्दादिविषयाः, ज्ञाता अज्ञाता अपि स्युः ॥

 यत्तु ज्ञाताज्ञातं शब्दादिविषयजातं, तत् परिणामिनश्चित्तस्य परिणामापेक्षं द्रष्टव्यम् । तथैवेन्द्रियाणामपि परिणामापेक्षमेव ज्ञाताज्ञातविषयत्वं दृश्यते । न च तथा चित्तवृत्तीनामन्यतमासामपि ज्ञातत्वमज्ञातत्वं च । नित्यतस्तज्ज्ञाता एव चित्तवृत्तयः । तस्माद्यद्वृत्तिरूपेण सदा ज्ञातत्वं मनसः तत् प्रभोः पुरुषस्यापरिणामित्वमनुमापयति ॥
व्यासभाष्यम्

स्यादाशङ्का—चित्तमेव स्वाभासं विषयाभासं च भविष्यतीत्यग्निवत्—


पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →