निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥
अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम् । यदा निर्विचारस्य समाधेः वैशारद्यमिदं जायते, तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमानुरोधी स्फुटः प्रज्ञाऽऽलोकः ।
ता एव सबीजः समाधिः । चतस्रः समापत्तयो बहिर्वस्तुविषया इति बहिर्वस्तुविषयत्वं हेतुः सबीजत्वे । समाधिरपि सबीजः सम्प्रज्ञातो ‘वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः’ इत्युपव्याख्यातः । स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचार इति चोपव्याख्यातः वितर्कादिलक्षणसूत्रेण ॥ ४६ ॥
निर्विचारवैशारद्येऽध्यात्मप्रसादः । अशुद्ध्यावरणमलापेतस्य अशुद्धिरेवावरणं तदेव मलं क्लेशादिकं तस्मादपेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम् । यदा निर्विचारस्य समाधेर्वैशारद्यमिदं जायते, तदा योगिनो भवत्यध्यात्मप्रसादः आत्मादिज्ञानविवेकः । अस्यैव व्याख्यानं भूतार्थविषयः क्रमानुरोधी परिपाठिकया यावत्क्लेशक्षयमनुरुद्ध्यत इति क्रमानुरोधी स्फुटं विविक्ततरं शुद्धतरात्मकः प्रज्ञालोकः प्रज्ञैवालोकः तया हि यथावस्तु जानाति ॥
तथा चोक्तम्—
“प्रज्ञाप्रासादमारुह्य अशोच्यः शोचतो जनान् ।
भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ॥” इति ४७ ॥