कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगे अन्तर्धानम् ॥ २१ ॥
कायस्य रूपे संयमात् रूपस्य या ग्राह्या शक्तिः तां प्रतिबध्नाति ।
तत्र परप्रत्ययसाक्षात्करणात् तद्दुःखे दुःखित्वं, तत्सुखे सुखित्वं च प्राप्नोतीत्याशङ्क्याह—न च सालम्बनं तस्य अविषयीभूतत्वात् । रक्तं प्रत्ययं जानाति योगी । परस्य अमुष्मिन् आलम्बने रक्तः प्रत्यय इति न जानाति । परप्रत्ययस्य यदालम्बनं सुखरूपं दुःखरूपं वा, येन सुखी दुःखी वा भवेत् ॥
ननु चालम्बनमसञ्जानानः कथममुष्मिन् रक्त इति सञ्जानीत इति ? उच्यते—रक्तममुष्मिन्निति सामान्यं विजानाति । न पुनः सुखविशेषं सुखिनः प्रत्ययस्यालम्बनीभूतमालम्बते । परप्रत्ययमात्रं तु योगिचित्तस्यालम्बनीभूतम् ॥ २० ॥
कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासम्प्रयोगे अन्तर्धानम् । योगिन आत्मीयस्य कायस्य रूपं कायरूपम् । तस्मिन् रूपे संयमात् तस्य रूपस्य या परचक्षुर्ग्राह्या शक्तिः तां प्रतिबध्नाति
ग्राह्यशक्तिस्तम्भे सति चक्षुःप्रकाशासम्प्रयोगे अन्तर्धानमुत्पद्यते योगिनः । एतेन शब्दाद्यन्तर्धानम् उक्तं वेदितव्यम् ॥ २१ ॥