साधनपादः · २.२०

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २० ॥

विवरणम्

प्रधाने तत् लिङ्गं संसृष्टं संलीनं प्रथमं विविच्यते आविर्भवति नोतरे विशेषा विप्रकृष्टत्वादेव । तदेवाह—क्रमानतिवृत्तेः क्रमानतिक्रमात् । न हि लोके कस्यचिदुत्पद्यमानस्य क्रमातिलङ्घनमस्ति ॥

 तथा षडविशेषाः पूर्वोक्ता लिङ्गमात्रे प्रत्यासन्नत्वात् संसृष्टत्वाद्विविच्यन्ते । कस्मादित्याह—परिणामक्रमनियमात् । तथा तेष्वविशेषेषु भूतेन्द्रियाणि । तन्मात्रेषु भूतानि संसृष्टानि विविच्यन्ते । अस्मितामात्रे इन्द्रियाणि मनस्सहितानि ॥

 तथा चोक्तं पुरस्तात् । न विशेषेभ्यः प्रागुक्तेभ्यः आकाशादिभ्यः परं तत्त्वान्तरमस्ति । न विशेषाणामन्यस्तत्त्वान्तरपरिणाम इत्यर्थः । एतदेवाह—विशेषाणां नास्ति तत्त्वान्तरमिति । तत्त्वं हि नाम साधारणं सर्वप्राणधारिणामामहाप्रलयस्थायि । नैवंलक्षणं पृथिव्यादिभ्य उत्पद्यमानमन्यदस्ति । धर्मलक्षणावस्थापरिणामास्तु भवन्त्येवेति । तेषां तु विशेषाणां धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते तृतीयपादे ॥ १९ ॥

 व्याख्यातं दृश्यम् अवधृतं दृश्यम् । यदर्थे च दृश्यते तस्येदानीं द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते—द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः द्रष्टा दृश्यस्य यथाव्याख्यातरूपस्योपलब्धा पुरुषः । तस्येदं लक्षणं दृशिमात्रः
व्यासभाष्यम्

 दृशिमात्र इति दृक्छक्तिरेव विशेषणापरामृष्टेत्यर्थः । स पुरुषो बुद्धेः प्रतिसंवेदी । स बुद्धेर्न सरूपो नात्यन्तं विरूप इति ॥

विवरणम्

 शुद्धोऽपि प्रत्ययानुपश्यश्चेति । पुरस्तादाख्यातम्—‘तदा द्रष्टुः स्वरूपेऽवस्थानम्’ ‘वृत्तिसारूप्यमितरत्र’ इति च, तदेव द्वयमिह प्रतिपाद्यते ॥

 यच्चोक्तं प्रतिसंवेदी बुद्धेः पुरुष इत्युपपादयिष्याम इति, तच्चात्रोपपाद्यते । दृशिर्दर्शनमुपलब्धिस्तावन्मात्रो दृशिमात्रः । यत एवं तस्माच्छुद्धः । शुद्धोऽपि सन्नसौ बौद्धस्य प्रत्ययस्यानुपश्यः, दृशिमात्रत्वादेव तस्मात्तमनुपश्यन् तत्स्वरूपो भवति । दृशिसन्निधौ वृत्तेर्दृशिस्वरूपावभासता द्रष्टुर्वृत्तिसारूप्यम् ॥

 दृशिमात्रस्यैवाविक्रियात्मकस्य सतोऽस्य बौद्धप्रत्ययानुदर्शनं यस्मात्तस्माच्च स्वरूपप्रतिष्ठता च सिद्धा । प्रत्ययानुपश्य इति । एतत्तु तदस्तित्वानुमानम् । कथम् ? घटादीनां दृश्यानां स्वरूपव्यतिरिक्तेनान्येन दृश्यत्वदर्शनात्, तत्प्रकाशकानां च आलोकादीनां व्यतिरिक्तदृश्यत्वात्, सर्वार्थावभासकानामपि प्रत्ययानां स्वरूपव्यतिरिक्तदृश्यत्वं दृश्यत्वादवगम्यते घटादितदालोकादिवदिति ॥

 यस्माच्च बौद्धमेव प्रत्ययमनुपश्यति, तं च पश्यत्येव, न कदाचित् स्वविषयं प्रत्ययं न पश्यति, तस्माद्दृशिमात्रः । मात्रग्रहणं धर्मान्तरनिवर्तनार्थम् । एतेन द्रष्टुर्दृशिरित्येतन्निवर्तितमिच्छादिसमानाश्रयत्वं च निवर्तितं, दृशेरेव द्रष्टृत्वात् । तदेतदुच्यते—दृशिमात्र इति । दृक्छक्तिरेव दृग्दर्शनं तदेव शक्तिर्दृक्छक्तिः । नाप्यन्यो दृक्छक्तिमानस्ति । सैव शक्तिर्दृगिति । तत्र मात्रशब्दार्थं व्याचष्टे—विशेषेणापरामृष्टेत्यर्थः । विशेषेण केनचिदिच्छादिना गुणैर्गुणधर्मैश्चापरामृष्टः ॥

 स पुरुषो बुद्धेः प्रतिसंवेदितुं शीलमस्येति प्रतिसंवेदी । बौद्धप्रत्ययोपलब्धिस्वभाव इत्यर्थः । पुरुषो बुद्धेः प्रतिसंवेदी दृशिमात्रः शुद्धश्चेति कथं गम्यत इत्याह—स बुद्धेर्न सरूपो नात्यन्तं विरूप इति । न समानलक्षणो नाप्यत्यन्तविधर्मेत्येतत् । असरूपतया दृशिमात्रत्वं शुद्धत्वं चाह । नात्यन्तविरूप इति वृत्तिसारूप्यतामाह ॥

 3. यो. सू. पा. 1. सू. 7.
व्यासभाष्यम्

 न तावत् सरूपः । कस्मात् ? ज्ञाताज्ञातविषयत्वात् परिणामिनी हि बुद्धिः । तस्याश्च विषयो गवादिर्घटादिर्वा ज्ञातश्चाज्ञातश्चेति परिणामित्वं दर्शयति ॥

विवरणम्

 कथं पुनः न सरूपतेति ? उच्यते—न तावत् सरूपः । कस्मात् ? को हेतुः ? । बुद्धेस्तावत् स्वरूपं वैधर्म्यदर्शनार्थमाह— ज्ञाताज्ञातविषयत्वात् परिणामिनी बुद्धिरिति । कः पुनरसौ बुद्धेर्विषयो यो ज्ञातश्चाज्ञातश्चेत्याह—तस्यास्तु विषयो गवादिर्घटादिश्च ज्ञातश्चाज्ञातश्च । येन बाह्याकारेण परिणता बुद्धिः स ज्ञातः । येनाकारेण न परिणता सोऽज्ञातः ॥  यदि न परिणमेतापरिणममाना चेद्विषयं विख्यापयेत् सदैव विषयित्वं बुद्धेः स्यात् । तस्मात् ज्ञाताज्ञातविषयता परिणामित्वं ख्यापयति । परिणामिनी बुद्धिः, ज्ञाताज्ञातविषयत्वात् । दीपचक्षुरादि(विषय)वत् ॥

 तद्विलक्षणः पुरुषः सदा ज्ञातविषयः । सर्वदा हि ज्ञात एव पुरुषस्य स्वो विषयः । तस्मात् सदा ज्ञातविषयत्वं पुरुषस्यापरिणामित्वं परिदीपयति । सदा ज्ञातविषयत्वमसिद्धं पुरुषस्येत्याशङ्क्याह—कस्मात् ? को हेतुः ? न हीति हिशब्दः प्रसिद्धावद्योतनार्थः । बुद्धिश्च नाम बुद्धिरिति बौद्धप्रत्ययः, पुरुषस्य विषयः स्यादगृहीता गृहीता चेति । सर्वदा च गृहीत एव बौद्धः प्रत्ययः । तदव्यभिचारेणैव पुरुषस्य व्यतिरिक्तत्वसिद्धिः । तस्मात् पुरुषस्य सदा ज्ञातविषयत्वम् । ततश्चापरिणामित्वं सिद्धम् । अपरिणामी पुरुष इति प्रतिज्ञा । सदा ज्ञातविषयत्वादिति हेतुः । वैधर्म्यदृष्टान्तो बुद्ध्यादिः ॥

 ननु च बुद्ध्या व्यवसितमर्थं पुरुषश्चेतयति, बुद्धेश्च सर्वो विषयो ज्ञातश्चाज्ञातश्च पुरुषस्यापि समानः । ज्ञाताज्ञातविषयत्वं बुद्ध्या व्यवसितार्थोपलम्भात् । तस्मात् पुरुषस्यापि परिणामित्वं ज्ञाताज्ञातविषयत्वाद्बुद्धिवदेव ॥

 नैष दोषः । बुद्धेरेव पुरुषविषयत्वात् । बुद्धिरेव हि बाह्यार्थाकारा पुरुषस्य विषयो नार्थः केवलः स्वरूपेण । तस्मान्न ज्ञाताज्ञातविषयः पुरुषः । बुद्धिस्तु सदैव ज्ञातैवेति न परिणामित्वं पुरुषस्य ॥

 ननु च बुद्ध्या व्यवसितमर्थं पुरुषश्चेतयतीति कश्चिदाह । तत् कथम् ? उच्यते—न—तैरप्यपरिणामित्वस्याभ्युपगमात् पुरुषस्य । बुद्ध्या व्यवसितमर्थमित्येत-

व्यासभाष्यम्

 सदा ज्ञातविषयत्वं तु पुरुषस्यापरिणामित्वं परिदीपयति । कस्मात् ? । न हि बुद्धिश्च नाम पुरुषविषयश्च स्यादगृहीता गृहीता चेति सिद्धं पुरुषस्य सदा ज्ञातविषयत्वं, ततश्चापरिणामित्वमिति ।

 किञ्च—परार्था बुद्धिः संहत्यकारित्वात्, स्वार्थः पुरुष इति ।

विवरणम्

दुक्तं भवति—बुद्ध्याकारं चेतयति बुद्धिव्यवसायाकारापन्नमर्थं चेतयतीति । अन्यथा हि तेषां परिणामित्वपरार्थत्वसंहत्यकारित्वादयो बुद्धिधर्माः सर्व एव प्रसजेयुः ॥

 अथापरिणामित्वे दर्शनानुपपत्तिरिति चेत्—न—दर्शनस्यैव पुरुषस्वरूपत्वात् । यो हि पुरुषपरिणामित्वमभिमन्यते, स इदं प्रष्टव्यः—किं परिणामेन क्रियत इति ॥

 स चेदभिदधीत—दर्शनमिति । स प्रत्यभिधानीयः—पुरुषस्य दर्शनमेव रूपं, अतः परिणामानर्थक्यमिति ॥

 स चेत् प्रतिब्रूयात्—न पुरुषस्योपलब्धिर्भोगः, कस्तर्हि ? विक्रियैव भोग इति । स पुनर्वक्तव्यः—तथापि विक्रियावत्त्वादनित्यत्वमुपनतं शरीरादिवदेव ॥

 अथापि प्रतिभाषेत—स्वात्मनि विक्रिया नानित्यत्वकारणं स्यात्, किं त्ववस्थान्तरभाविविक्रिया हि कारणमनित्यत्वस्येति । स पुनः प्रतिभाषितव्यः—विक्रियावस्थाया एवावस्थान्तरत्वात् । पूर्वमविकृतस्य वस्तुनः पुनर्विक्रिया अवस्थान्तरम् ॥  किं च—विषयाभ्युपगमे च विक्रियैव, तावता नियमः पार्यते न कर्तुम् । न चापि स्वात्मनि विक्रियमाणानां वज्रवैदूर्यादीनामनित्यत्वं नास्ति । न च विक्रियाजनितस्यैव दर्शनस्य दृश्यविषयत्वं न नित्यस्य दर्शनस्येति नियमहेतुरस्ति । विक्रियैवोपलब्धिर्न विक्रियाजनितेति चेत्—न—शरीरादीनां विक्रियावतामुपलब्धिप्रसङ्गात् ॥

 तस्माद्दृशिमात्र एवापरिणामी च, सदा ज्ञातविषयत्वात् पुरुष इति सिद्धम् । तस्य च नित्योपलब्धिस्वरूपत्वेऽपि दृश्यबौद्धप्रत्ययभावाभावकृतोऽयं व्यपदेशः पश्यति दर्शयिष्यति ददर्शेति च । सवित्रादिप्रकाशनव्यपदेशवत् ।
व्यासभाष्यम्

तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणा बुद्धिः, त्रिगुणत्वादचेतनेति । गुणानां तूपद्रष्टा पुरुष इत्यतो न सरूपः ॥

 अस्तु तर्हि विरूप इति । नात्यन्तं विरूपः । कस्मात् ? । शुद्धोऽप्यसौ प्रत्ययानुपश्यो यतः । प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रत्यवभासते । तथा चोक्तम्—“अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनु पतति । तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते ॥ २० ॥

विवरणम्

यथा प्रकाशयति सविता प्रकाशयिष्यति प्राचीकशदिति च प्रकाश्यभावाभावकृतो व्यपदेशः । शुद्धत्वादयो हेतवो वैधर्म्येण बुद्ध्यादयो दृष्टान्ताः ॥

 इतश्चासरूपः । सर्वार्थाध्यवसायित्वाद्धोरशान्तादिसमस्तार्थावसायित्वात् त्रिगुणा बुद्धिः श्रोत्रादिवत् । गुणानां तूपद्रष्टेत्युपद्रष्टृत्वं हेतुः । अत्रिगुणः पुरुष इति प्रतिज्ञा । वैधर्म्येण बुद्ध्यादिरेव दृष्टान्तोऽत्रिगुणत्वाच्चासरूपः ॥

 अस्तु तर्हि विरूप एव । ततश्चात्यन्तविरूपत्वाद्भोगानुपपत्तिरिति । अत्रोच्यते—नात्यन्तं विरूपः । कस्मात् ? कोऽत्र हेतुः ? न हि शुद्धस्य बुद्धिस्वरूपविरूपस्याशुद्धबौद्धप्रत्ययादत्यन्तावैरूप्यसिद्धये हेतुरित्यभिप्रायः ॥

 न—बुद्धिप्रत्ययसाक्षित्वस्य सिद्धत्वात् । यतः शुद्धोऽप्यसौ बौद्धं प्रत्ययमनुपश्यति तच्च बौद्धप्रत्ययानुदर्शनं साधितम् । अनुपश्यतीति विषयाकारपरिणामे सति बौद्धं प्रत्ययं पश्यतीत्यर्थः । तमनुपश्यन्नपि न तदात्मा न त्रिगुणः । तदात्मक इव शान्तघोरमूढव्यवसायरूप इव प्रत्यवभासते । तस्मान्नात्यन्तविरूपः प्रवृत्तिसारूप्यात् । तत्र यदुक्तं बुद्धेः प्रतिसंवेदी पुरुष इत्युपपादयिष्यामः इति, तदुपपादितम् । तथा च तत्सारूप्यमादर्शितम् । तथोक्तं तन्त्रे—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →