विभूतिपादः · ३.१८

 संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥ १८ ॥

व्यासभाष्यम्

 द्वये खल्वमी संस्काराः—स्मृतिक्लेशहेतवो वासनाऽभिधानाः, विपाकहेतवो धर्माधर्मरूपाः । ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मा अपरिदृष्टाः चित्तधर्माः । तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः ।

विवरणम्

प्रत्ययाभावेऽपि भावात् । एवं प्रत्ययः न शब्दसहगतो नाप्यर्थसहगतः । इतराभावेऽपि भावात् । तथा शब्दः अपि, अर्थप्रत्ययव्यभिचारात्, इति एवं अन्यथा अर्थः अन्यथा शब्दः अन्यथा प्रत्ययः इति प्रविभागः । एवं च [तत्] प्रविभागसंयमात् इदं वर्णैः सङ्केतितैः वाक्यात्मकम् अभिव्यज्यमानम् ‘अयमर्थः, प्रत्ययश्चायं’ इति प्रविभागेन संयमात् प्रविभक्तपदपदार्थप्रत्ययानां स्वेन रूपेण साक्षात्करणात् योगिनः सर्वभूतरुतज्ञानं सम्पद्यते ॥ १७ ॥

 संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् । द्वये खल्वमी संस्काराः वासनाऽभिधानाः परिदृष्टाः अपरिदृष्टाश्च स्मृतिक्लेशहेतवः । परिदृष्टाः (उभयेऽपि) क्लेशकर्मविपाकानुभवनिर्वर्तिताः चित्तधर्माः धर्माधर्मरूपाः धर्माधर्मनिमित्ताः पूर्वभवाभिसंस्कृताः (ता)अतिक्रान्तानन्तजन्मनिष्पादिताः परिणामचेष्टानिरोधशक्तिजीवनधर्माः पूर्वव्याख्याताः अपरिदृष्टाः । तेषु द्वयेषु संस्कारेषु संयमः क्रियमाणः संस्कारसाक्षात्क्रियायै समर्थः भवति ॥

व्यासभाष्यम्

 न च देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम् । तदित्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्राप्येवमेव संस्कारसाक्षात्करणात् परजातिसंवेदनम् ॥

 अत्रेदमाख्यानं श्रूयते—भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणाम मनुपश्यतः विवेकजं ज्ञानं प्रादुरभूत् । अथ भगवान् आवट्यः तनु [तन्त्र] धरः तमुवाच—दशसु महासर्गेषु भव्यत्वात् अनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्ग- मनदुःखं अनुपश्यता देवमनुष्येषु पुनः पुनः उत्पद्यमानेन सुखदुःखयोः किमधिकमुपलब्धम् इति ।

विवरणम्

 ते च देशकालनिमित्तानुभवविशिष्टतया निर्वर्तितत्वात् साक्षात्करणकालेऽपि देशादिविशेषणविशिष्टा एव प्रत्यक्षीभवन्ति । तस्मात् न च (ते) देशकालनिमित्तानुभवैर्विना तेषामस्ति साक्षात्करणम् ॥  तदित्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानमुत्पद्यते योगिनः । परत्रापि प्राणिषु एवमेव येषां जातिं बुभुत्सते तदीयसंस्कारेषु संयमात् [संस्कारसाक्षात्करणात्] तत्पूर्वजातिज्ञानमुत्पद्यते ॥

 तत्र संस्कारसाक्षात्करणफलव्यञ्जनार्थम् इदमाख्यानमुपक्षिप्यते— भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणात् दशसु महासर्गेषु जन्मपरिणामं अनुपश्यतो विवेकजं वैराग्यनिमित्तं ज्ञानं प्रादुरभूत् ॥

 अथ भगवान् आवट्यः तन्त्रधरः तमुवाच—दशसु महासर्गेषु [ भव्यत्वात्] अनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गमनदुःखमनुपश्यता देवमनुष्येषु पुनःपुनः उत्पद्यमानेन सुखदुःखयोः किमुपलब्धमधिकमिति ॥

 भगवन्तमावट्यं जैगीषव्य उवाच—दशसु महासर्गेषु भव्यत्वात् अनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्गमनमनुपश्यता देवमनुष्येषु पुनः पुनः उत्पद्यमानेन यत् किञ्चित् अनुभूतं तत् सर्वं दुःखमिति [दुःखमेव] प्रत्येमि ॥

 
व्यासभाष्यम्

  भगवन्तमावट्यं जैगीषव्य उवाच—दशसु महासर्गेषु भव्यत्वात् अनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्गमनं अनुपश्यता देवमनुष्येषु पुनः पुनः उत्पद्यमानेन यत्किञ्चिदनुभूतं तत् सर्वं दुःखमेव प्रत्यवैमि ॥  भगवान् आवट्य उवाच—यदिदमायुष्मतः प्रधानवशित्वम् अनुत्तमं च सन्तोषसुखं किमिदमपि दुःखपक्षे निक्षिप्तमिति ॥

 भगवान् जैगीषव्य उवाच—विषयसुखापेक्षयैवेदमनुत्तमं सन्तोषसुखं [प्रधानवशित्वसुखं च] उक्तम् । कैवल्यसुखापेक्षया दुःखमेव । बुद्धिसत्त्वस्यायं धर्मः त्रिगुणः । त्रिगुणश्च प्रत्ययो हेयपक्षे न्यस्त इति । दुःखरूपः तृष्णातन्तुः । तृष्णासन्तानदुःखोपशमरूपं तु प्रसन्नम् अनाबाधं सर्वानुकूलं सुखमिदमुक्तम् इति ॥ १८ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →