साधनपादः · २.११

ध्यानहेयास्तद्वृत्तयः ॥ ११ ॥

व्यासभाष्यम्

 क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तनूकृताः सत्यः प्रसंख्यानेन ध्यानेन हातव्याः यावत्सूक्ष्मीकृता यावद्दग्धबीजकल्पाः इति ।

विवरणम्

हेयास्तद्वृत्तयः' इति । तत्र न ज्ञायते किंविषयो ध्यानप्रयोगः, किं दग्धबीजकर्मक्लेशविषयः ? किं सर्वविषयः ? इति । तद्विषयविभजनार्थमिदं सूत्रमारभ्यते— ते प्रतिप्रसवहेयाः सूक्ष्मा इति ॥

 ते पञ्च क्लेशाः दग्धबीजकल्पाः योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनास्तं गच्छन्ति । एतदुक्तं भवति—सम्यग्दर्शनाभ्यासानलदग्धबीजसामर्थ्यानां क्लेशानां कृताशेषपुरुषप्रयोजनस्य चेतसः प्रतिप्रसवेनैव प्रलयेनैव प्रलयोत्पत्तेर्न ध्यानसाधनापेक्षा । न हि दग्धं दाहमपेक्षते, पिष्टं वा पेषणमिति । चेतस्तु साधितपुरुषार्थत्वात् स्थितिप्रयोजनाभावाच्च स्वयमेव निवर्तते ॥ १० ॥

 कीदृशानां पुनर्ध्यानादिसाधनापेक्षेत्यत उच्यते—स्थितानां तु बीजभावोपगतानामिति ॥

ध्यानहेयास्तद्वृत्तयः । क्लेशानां या वृत्तयः स्थूलास्ताः क्रियायोगेन तपस्स्वाध्यायेश्वरप्रणिधानाख्येन स्थूलप्रतिपक्षेण तनूकृताः पूर्वम् । तत इदानीं तनूकरणाद्बीजशक्त्यवस्थाः प्रसंख्यानेन सम्यग्दर्शनशीलनतो नैपुणविशेषेण ध्यानेन महता बलीयसा प्रतिपक्षेण हातव्याः, ततोऽपि यावत्सूक्ष्मीकृताः । किमुक्तम् भवति । यावद्दग्धबीजकल्पाः यावन्निर्बीजीकृता इति ॥

व्यासभाष्यम्

 यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते, पश्चात्सूक्ष्मो यत्नेनोपायेन चापनीयते, तथा स्वल्पप्रतिपक्षाः स्थूला वृत्तयः क्लेशानां, सूक्ष्मास्तु महाप्रतिपक्षा इति ॥ ११ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →