साधनपादः · २.२२

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२ ॥

व्यासभाष्यम्

 कृतार्थमेकं पुरुषं प्रति दृश्यं नष्टमपि, नाशं प्राप्तमपि, अनष्टं, तदन्यपुरुषसाधारणत्वात् । कुशलं पुरुषं प्रति नाशं प्राप्तमप्यकुशलान् पुरुषान् प्रति न कृतार्थमिति, तेषां दृशेः कर्म, विषयतामापन्नं लभत एव पररूपेणात्मरूपमिति ।

विवरणम्

 सूत्रप्रयोजनमाचष्ट इदानीम्—ततश्च तादर्थ्यस्य नियतत्वात् कारणात् पुरुषरूपेण प्रतिलब्धात्मकं प्राप्तचैतन्योपग्रहरूपं सद्भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यते । भोगापवर्गव्यतिरेकेण कर्तव्याभावात् ॥ २१ ॥

 सूत्रसम्बन्धं करोति—यं पुरुषं प्रति चरितार्थं दृश्यं, तं प्रति दृशिकर्मतां नापत्स्यत इति स्वरूपहानम्, अतश्च स्वरूपहानादस्य विनाशः प्राप्तः । न तु विनश्यति सर्वात्मना । कस्मात् ? को हेतुः ? प्रधानानां प्रतिपुरुषं बहुत्वात् कृतार्थं प्रति नष्टमेवेति मन्यते ॥

 कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् । कृतार्थं यं पुरुषं प्रति भोगापवर्गनिर्वर्तनेन कृतप्रयोजनं तमेकं पुरुषं प्रति पुनः कार्यकरणरूपेणाप्रवर्तनाद्भावाभावयोरविशेषान्नष्टमपि । अस्य व्याख्यानं नाशप्राप्तमपीति । अनष्टं तदन्यपुरुषसाधारणत्वात् । यान् प्रत्यकृतार्थं तान् प्रत्यनष्टम् ॥

 कथमनष्टमित्याह—कुशलपुरुषान् प्रति नाशप्राप्तं भोगापवर्गप्रदानेन कुशलपुरुषान् प्रति कृतप्रयोजनम् । अकुशलपुरुषान् प्रति अकृतार्थं भोगापवर्गयोः कर्तव्ययोरकृतत्वात्तेषामकुशलानां दृशेः त एव दृशिस्तस्याः कर्मतां दृश्यतामापन्नं लभत एव पुरुषरूपेण पुरुषनिर्भासतया आत्मरूपमिति । अतश्च साधारणत्वादेकमेव प्रधानं पृथिव्यादिवत् । कार्यकरणानां च भिन्नत्वात् पुरुषाणां नानात्वं सिद्धम् । सुखदुःखनानात्वाच्च पुरुषभेदसिद्धिः ॥
व्यासभाष्यम्

 अतश्च दृग्दर्शनशक्त्योर्नित्यत्वादनादिः संयोगो व्याख्यात इति । तथा चोक्तम्—“धर्मिणामनादिसंयोगाद्धर्ममात्राणामप्यनादिः संयोगः” इति ॥ २२ ॥  संयोगस्वरूपाभिधित्सयेदं सूत्रं प्रववृते—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →