साधनपादः · २.७

 सुखानुजन्मा रागः ॥ ७ ॥

व्यासभाष्यम्

 सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखे तत्साधने वा यो गर्धः, तृष्णा, लोभः, स राग इति ॥ ७ ॥

विवरणम्

 तथा बुद्धेरपि आकारेण सुखदुःखमोहात्मकत्वेन, शीलेन प्रख्याप्रवृत्तिस्थित्यात्मना, विद्यया सर्वार्थाध्यवसायात्मकत्वेन पुरुषात् विभागः । इत्थमन्योन्यमाकारशीलविद्याभिर्विभक्तं पुरुषं अपश्यन् कुर्यात्तत्र तस्यां बुद्धौ आत्मबुद्धिं आत्मप्रत्ययं मोहेन लोक इति । विद्याशीलाकारैरत्यन्तविभक्तयोर्बुद्धिपुरुषयोरविभाग इव तद्दर्शनमित्यनेनांशेनोदाहरणम् ॥

 यत्तु विभक्तमपश्यन् कुर्यात्तत्रात्मबुद्धिम् इति । सा पूर्वोक्तैवाविद्या । यद्वा अस्मिताया अविद्याभेदत्वात् सर्वमुदाहरणमिति । अपश्यन् कुर्यादिति पुरुषस्वरूपादर्शनमविद्यायाः, अस्मितायाश्च हेतुः कारणं चित्तस्य द्रष्टृदृश्योपरक्तता । पुरुषस्य त्वदर्शनं द्रष्टृत्वादेव ॥ ६ ॥

 सुखानुजन्मा सुखानुशयी रागः । अनु जन्म, अनु उत्पत्तिर्यस्य सः । सुखानुशयी तथा दुःखानुशयीति अन्येषां पाठः । सुखानुशयी रागः दुःखानुशयी द्वेष इति ते व्याचक्षते, सुखमनुभवितुं शीलमस्य स सुखानुशयी, तथा दुःखानुशयीति । उभयधाऽप्यनुजन्मतैव । तदेव ताच्छील्यम् । तथा च वक्ष्यति—‘धर्मात्सुखं सुखाद्रागः’ इति ॥

 कथं सुखानुशयित्वमिति तदाह—सुखाभिज्ञस्य सुखे आभिज्ञानमभिज्ञा यस्य स सुखाभिज्ञः सुखं य उपलब्धवांस्तस्य, सुखाभिज्ञस्य सुखानुस्मृतिपूर्वः सुखं पूर्वानुभूतमनुस्मरन् सुखे ह्लादे तत्साधने वा अगरुचन्दनादावनुरज्यते । तत्र योऽसौ गर्धः स उच्यते तृष्णा लोभो राग इति ॥ ७ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →