तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥
दृष्टश्चासौ विषयश्च तस्मिन् ॥ कः पुनरसौ ? स्त्रियोऽन्नं पानमैश्वर्यमिति व्यक्त्यपेक्षया । शब्दादीनामानन्त्येऽपि रागप्रबलत्वमेतेष्वतितरामिति स्त्र्यादिग्रहणं प्राधान्यात् । अत्र हि प्रबलतरो रागः । स प्रयत्नतरेण निषेद्धव्यः । एवम् आनुश्रविकविषयः । आनुश्रविको नाम आगमिक इह । स च स्वर्गादिप्राप्त्यानुभवनीयः प्रकृतिलयगतभोग्यो वैदेह्यप्राप्तौ उपभोग्यश्च ॥
ननु च वैतृष्ण्यमेव वैराग्यम् , तथा १रागस्तृष्णा गर्द्धः इति हि वक्ष्यति२ । न-अवस्थाविशेषस्य विवक्षितत्वात् । तथा च यतमानसंज्ञा, व्यतिक्रान्तसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञेति चतसृणामासां सामान्यसंज्ञा वैराग्यमिति । एवं सति दृष्टानुश्रविकविषयवितृष्णस्येत्येतदुक्तं भवति- अधिगतपूर्वावस्थात्रयस्य चतुर्थी या अवस्था सा त्विह वैराग्यमिति विवक्षितम् । तस्मादिह वैतृष्ण्यादन्यवैराग्यमभिप्रेतम् । तथा च दर्शयति--विषयदोषदर्शिनः दोषदर्शनस्य विषयनिवृत्तिहेतुत्वात् तद्गुणदर्शनं हि रागकारणम् । प्रसंख्यानबलात्-तदोषदर्शनाभ्यासबलात् । अनाभोगात्मिका विषयाव्यतिकरात्मिका । दिव्यादिव्ययोः सम्प्रयोगेऽपि हेयोपादेयशून्या रञ्जनावमुक्तस्येव स्फटिकस्य विषयरागविमुक्तस्य चित्तस्यावस्थानम्। वशीकारसंज्ञा-वशीकर्तुं शक्यन्तेऽस्यामवस्थायां सर्वे गौणाः पदार्थाः वशीकर्तव्यत्वेन संज्ञायन्ते, वशीकृतानि च तस्यामवस्थायामिन्द्रियाणि संज्ञायन्ते, वशीकरणं वा संज्ञायतेऽस्यामिति ॥ १५ ॥
तच्च द्विविधम्-परं चापरं च विषयनिमित्तभेदेन । अपरं व्याख्यातम् । अधुना परमुच्यते--तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । तदिति वैराग्यं परामृश्यते ।
दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात् तच्छुद्धिप्रविवेकाप्यायितबुद्धिः गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम् । यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते---प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसङ्क्रमो यस्याविच्छेदाञ्जनित्वा म्रियते मृत्वा च जायत इति । ज्ञानस्यैव परा काष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यम् इति ॥ १६ ॥
परमिति पूर्वोक्तवैराग्यादुत्तरकालभावीति । यदि वा-तस्य विषयनिमित्ताभ्यामुत्कृष्टनिमित्तविषयत्वात् , कैवल्यस्य वा प्रत्यासन्नतरत्वात् परमुत्कृष्टम् ॥
किं निमित्तमस्येत्याह—पुरुषख्यातेर्निमित्तात् । किंविषयमित्याह— गुणवैतृष्ण्यमिति। गुणेषु सत्त्वादिषु वैतृष्ण्यम्। दृष्टानुश्रविकविषयदोषदर्शीति। पूर्ववैराग्यनिमित्तविषयपरामर्शनमस्य विषयनिमित्तभेदविवेकार्थम् । पुरुषदर्शनाभ्यासात् निमित्तात् । तच्छुद्धिप्रविवेकाप्यायितबुद्धिः । तदिति पुरुषदर्शनं परामृश्यते । तस्य शुद्धिः तच्छुद्धिः निर्णिक्तक्लेशादिमलत्वम् । अथवा तस्य पुरुषस्य शुद्धिस्तच्छुद्धिः । तच्छुद्धेस्तदालम्बनदर्शनं प्रविविच्यते । तत्प्रविवेकेनाप्यायिता बुद्धिरस्य योगिनः ॥
गुणेभ्य इति विषयप्रतिपादनम् । पूर्वस्तु दृष्टानुश्रविकविषयभ्यो(ऽपि) विरक्तः । एष तत्कारणेभ्यो गुणेभ्य एव । व्यक्ताव्यक्तधर्मकेभ्यः महदादिसंस्थिता व्यक्तधर्मकाः । प्रधानावस्थिता अव्यक्तधर्मकाः । तेभ्यो विरक्त इति । तत् द्वयं वैराग्यं पूर्वमिदं च । तत्र यदुत्तरं पुरुषदर्शननिमित्तं गुणविषयं तज्ज्ञानप्रसादमात्रम् । पुरुषदर्शनस्यैव परः प्रविवेक इति यावत् ॥
पुरुषदर्शी हि हेयोपादेयशून्यचित्तो भवति । तदाह---*'प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः' इति ॥
यस्योदये यस्य वैराग्यस्योदये । प्रत्युदितख्यातिः प्रत्युत्पन्नदर्शनः । एवं मन्यते प्राप्तं प्रापणीयम् इत्यादि । एतस्य हि नान्तरीयकं केवल्यं ततः
अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति ।
परं साधनानपेक्षत्वात् । वैराग्यस्य ज्ञानप्रसादमात्रत्वे ज्ञानवैराग्ययोरनन्यत्वात् तद्विपरीतयोश्च रागाज्ञानयोरनर्थान्तरत्वमेव सिद्धम् । एवं सति रागोऽप्यविद्याया एवावस्थान्तरमिति पञ्चपर्वा अविद्येत्युपपन्नं भवति ॥
ननु चैवं बुद्धेरष्टगुणत्वं बाध्येत । षड्गुणत्वं हि ध्यानावस्थाभेदाभ्युपगमात् । ज्ञानत्वेऽपि वैराग्यस्य प्रसन्नतरत्वाभ्युपगमः । रागोऽप्यज्ञानस्यावस्थान्तरविशेषः ।
ननु चैवं सति ज्ञानाज्ञानयोरनेकावस्थाभेदादष्टगुणत्वं पुनरपि न प्राप्नोति । नैष दोषः । फलवत्त्वप्रत्यनीकत्वनियमात् । ज्ञानावस्थाचतुष्टयस्य फलवत्त्वेन भेदनियमः । तथा अज्ञानावस्थाचतुष्टयप्रत्यनीकत्वेनाधर्मदिचतुष्टयनियम इत्यष्टगुणत्वसिद्धिः । धर्मादिप्रतिद्वन्द्विन एव हि गुणत्वेन नियम्यन्ते, नाज्ञानभेदाः सर्व एव ॥ १६ ॥
उक्तं पुरस्तात् सम्प्रज्ञातः समाधिर्वितर्काद्यनुगत इत्युपरिष्टात् प्रवेदयिष्यामः इति । सोऽवसरप्राप्त इदानीं लक्ष्यते । उपायद्वयेन निरुद्धवृत्तेः वैराग्यद्वयं परापरत्वेन व्याख्यातम् । अभ्यासस्यापि द्वित्वं सामर्थ्यादवसीयते । कथम् ? विशिष्टमसम्प्रज्ञातसमाधेरभ्यासं सूत्रेणैव वक्ष्यति-- विरामप्रत्ययाभ्यासपूर्वः इति । तेन सालम्बनविषयः पूर्वाभ्यास इति निश्चीयते । वक्ष्यति च -तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः इति ॥
भाष्यकारोऽप्यवादीत्-‘वैराग्येण
विषयस्रोतः खिलीक्रियते । विवेकदर्शनाभ्यासेन कल्याणस्रोत उद्धाट्यते"' इति । नावोचत वृत्तिस्वरूपतिरस्कारमेव सम्प्रज्ञातसमाधेः । वृत्तिनिरोधप्रभवत्वमनिष्टविषयप्रवृत्त्युपरमोत्तरकालभावित्वापेक्षया, वृत्तिविषयविशेषानुगत एव हि सः ।
तथा च द्वितीयसूत्रे सम्प्रज्ञातस्य निरोधो न लक्षणमिति व्याख्यातम् । अतः पूर्वोक्ताभ्यासवैराग्योपायद्वयेन निरुद्धवृत्तेश्चित्तस्य कथमुच्यते-कथं