पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ ॥ इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः ॥ [ विवरणम् ] तथा मनुष्यजातिः श्रेयसी एव नैव वेत्यवचनीयः प्रश्नः । प्रविभज्य तु वचनीय एव । कथम् ? पशूनुद्दिश्य श्रेयसी भवति । देवानृषीश्चाधिकृत्य न श्रेयसी भवति ॥ अयं त्ववचनीय एव अप्रविभज्य सामान्येन प्रश्नः—यथा संसारोऽयमन्तवानेवेति अनन्त एवेति वा । बन्धमोक्षानुपपत्तेः । प्रविभज्य तु वचनीय एव । यथा कुशलस्यास्ति संसारचक्रपरिसमाप्तिर्नेतरस्येति । अन्यतरावधारणे दोषः । संसारोऽन्तवानेवानन्त एवेति वान्यतरावधारणे दोषः । तस्मादव्याकरणीय एवायं सामान्येनाप्रविभज्य प्रश्नः, यथा—सर्वो मृत्वा जनिष्यते इति, एवं मनुष्यजातिः श्रेयस्येवेति च । तस्मात् सुष्ठूक्तं कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानामिति विशेषणम् ॥ ३३ ॥ गुणाधिकारपरिसमाप्तौ कैवल्यमुक्तम् । तत्स्वरूपमवधार्यते । कैवल्यं प्रति विप्रतिपत्तेः । केषांचिद्विज्ञानसन्तानस्यात्यन्तोपरामः कैवल्यम् । केषांचित्तु नवानामात्मगुणानां बुद्धीच्छाद्वेषप्रयत्नसुखदुःखधर्माधर्मसंस्काराणामुच्छेदेनाचेतनस्य द्रव्यमात्रस्य पुरुषस्यावस्थानम् । केषांचिदीश्वरसायुज्यम् । केषांचित् सर्वज्ञत्वादीश्वरतुल्यधर्मत्वप्राप्तिः कैवल्यमिति भिन्ना मतिः ॥ कैवल्यपादः चतुर्थः ३६९ [ भाष्यम् ] कृतभोगापवर्गाणां पुरुषार्थशून्यानां यः प्रतिप्रसवः कार्यकरणात्मकानां गुणानां तत् कैवल्यं, स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वानभिसंबन्धिनी पुरुषस्य चितिशक्तिरेव केवला, तस्याः सदा तथैवावस्थानं कैवल्यम् ओमिति ॥ ३४ ॥ इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते ॥ चतुर्थः कैवल्यपादः ॥ [ विवरणम् ] इहापि विप्रतिपत्तिप्रणोदाय कैवल्यस्वरूपमवधार्यते—पुरुषार्थशून्यानां गुणानां यः प्रतिप्रसवः प्रतिसंसर्गः स्वकारणे प्रत्यस्तमय इत्यर्थः, कार्यकरणात्मकतया परिणतानाम्, तत् कैवल्यं पुरुषस्य केवलत्वं गुणैरमिश्रीभाव इत्यर्थः ॥ स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । बुद्धिसत्त्वानभिसंबन्धिनी या पुरुषस्य चितिशक्तिः अमिश्रा केवला तस्याः सदा तथैव अवस्थानं केवलायाः भावः कैवल्यम् ॥ ननु कैवल्यस्यैकत्वे कथं विकल्पः ? क्रियायां हि विकल्पो न तु वस्तुनि । वस्तुस्वरूपस्य भेदानुपपत्तेः । कैवल्यमपि वस्तु, कथं तद्विकल्प्यत इति । नैष दोषः । निमित्तनैमित्तिकयोः प्रभेदोपपत्तेः । निमित्तनैमित्तिकभेदोपचरितोऽपि विकल्पो न वस्तुस्वरूपभेदकृतः । या तु गुणानां परिणामिता पुरुषस्य विमिश्रता वृत्तिसरूपता, सा कार्यकरणात्मकानां पुरुषार्थशून्यानां गुणानां प्रतिसंसर्गान्निमित्तादपगच्छतीति निमित्तमेव प्रतिप्रसवाख्यं कैवल्यशब्देनोपचरितं पूर्वम् ॥ द्वितीयं तु गुणप्रतिप्रसवनिमित्तभावि यत् स्वरूपावस्थानं पुरुषस्य गुणैरमिश्रिततया, तत् कैवल्यमिति विशेषः । गुणपुरुषान्तरस्वरूपतत्त्वनिर्धारणेन तन्त्रान्तरीयतत्त्वस्वरूपनिराकरणेन च कैवल्यान्तराणि निवेदितव्यानि ॥ तत्रोङ्कारो मङ्गलार्थः प्रयुक्तः परमेश्वरनामाङ्कितमस्तकतया तन्त्रप्रचयार्थं शान्त्यर्थं वा वेदारण्यकवदिति ओम् इति ॥ ३७० पातञ्जलयोगसूत्रभाष्यविवरणे ओङ्कारो यस्य वक्ता समचरत फलैः कर्म यस्मादशेषं निष्कर्मक्लेशपाको घटयति सकलं यः फलेन क्रियाणाम् । ईशानामीश्वरो यः स्थितिभवनिधनप्रक्रियाणां विधाता ध्यायन्नः शुक्लिमानं व्यपनुदतु तरां कृष्णिमानं स कृष्णः ॥ यात्राकृतस्त्रिजगतां यदचिन्त्यशक्तिलेशान् दशाहुरिह मीनमुखावतारान् । क्लेशोद्भवत्रिविधतापपरम्परार्ताः तं नागनाथशयनं शरणं व्रजामः ॥ फणरत्नौघविद्योति [ पृथिवी ] द्युनभोदिशे । योगीन्द्राय फणीन्द्राय तत्पतञ्जलये नमः ॥ योगेन चित्तस्य पदेन वाचां मलं शरीरस्य तु वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥ स जयति पतञ्जलिमुनिः येन श्रेयोऽर्थिसार्थसस्यानाम् । विहितो हर्षस्तापत्रितयहृता धर्ममेघेन ॥ यस्ततान भवमार्गलङ्घिनां क्लेशकर्ममयधर्मनुत्तये । धर्ममेघमुखयोगतोयदम् [तं पतञ्जलिमृषिं प्रणतोऽस्मि] ॥ वदनाहितपूर्णचन्द्रकं गुरुमीशानमभूतिभूषणम् । प्रणमाम्यभुजङ्गसङ्ग्रहं भगवत्पादमपूर्वशङ्करम् ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य श्रीशङ्करभगवतः कृतौ पातञ्जलयोगसूत्र(शास्त्र)भाष्यविवरणे चतुर्थः कैवल्यपादः ॥ ॥ समाप्तं चेदं विवरणम् ॥ |