साधनपादः · २.५२

ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥

व्यासभाष्यम्

 प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म । यत्तदाचक्षते—‘महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये विनियुङ्क्ते’ इति । तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासबलात् दुर्बलं भवति, प्रतिक्षणं च क्षीयते । तथा चोक्तम्—‘तपो न परं प्राणायामात् ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य’ इति ॥ ५२ ॥

किञ्च—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →