तत्र ध्यानजमनाशयम् ॥ ६ ॥
पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धय इति । तत्र यदेव ध्यानजं चित्तं तदेवानाशयं, तस्यैव नास्त्याशयो रागादिप्रवृत्तिः, नातः पुण्यपापाभिसंबन्धः, क्षीणक्लेशत्वाद्योगिन इति । इतरेषां तु विद्यते कर्माशयः ॥ ६ ॥
यद्येवं कथं बहूनां चित्तानाम् एकचित्ताभिप्रायपुरस्सरा प्रवृत्तिरिति । तत्रोच्यते—प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् । प्रवृत्तिभेदे सत्यपि सर्वचित्तानां प्रयोजकं चित्तमेकं फलाधिकृतदेशीयं शरीरान्तरे निर्मिमीते ॥
तञ्च योगिबुद्धिमनुवर्तते । अन्यानि च निर्माणचित्तानि भिन्नानेकप्रवृत्तीनि । तन्नायकचित्तानुवर्तीनि भवन्ति । ततश्च तेषां प्रवृत्तिः निवृत्तिः उपेक्षा इत्येवमादिप्रवृत्तिभेदः उपपद्यते । राजप्रकृतिप्रवृत्तिभेदवत् । एवमेकचित्ताभिप्रायपुरःसरा च प्रवृत्तिरवकल्पते ॥ ५ ॥
तत्र ध्यानजमनाशयम् । पञ्चविधं निर्माणचित्तं जन्मौषधिमन्त्रतपस्समाधिसामर्थ्यनिर्मितम् । तत्र तेषु यदेव ध्यानजं चित्तं तदेव अनाशयं क्लेशकर्माशयापवर्जितम् । तस्यैव नास्त्याशयः रागादिप्रवृत्तिः, अतो न पुण्यपापाभिसंबन्धः क्षीणक्लेशत्वाद्योगिनः । ‘क्लेशमूलो हि कर्माशयः’ इत्युक्तम् । तदभावाच्च कर्माशयानुपपत्तिः । अपरे तु जन्मादिसिद्धानां कर्माशयः अक्षीणक्लेशत्वाद्विद्यते एव ॥ ६ ॥
यतः—