साधनपादः · २.३३

 वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३ ॥

व्यासभाष्यम्

 यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन्, हनिष्याम्यहमपकारिणम्, अनृतमपि वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु चास्य व्यवायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामीति, एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानः तत्प्रतिपक्षान् भावयेत् । घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान् पुनः पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत् ।

विवरणम्

 तत्र यमनियमानां विरुद्धास्तर्काः वितर्काः, तैः बाधने सति प्रतिपक्षान् भावयेत् अभिधास्यमानेन प्रकारेण । अप्रतिभाव्यमाना हि वितर्का योगिनं हिंसादिषु प्रणिधापयेयुः ॥

यदा अस्य ब्राह्मणस्य वितर्का हिंसादयो जायेरन् । तत्राहिंसादिवितर्का ये वा हिंसादयस्ते वितर्काः कीदृशा इति ? तत्राहिंसाया वितर्कः हिंसा हनिष्याम्यपकारिणमिति । तथा सत्यस्य अनृतं वदिष्यामीति विरुद्धः प्रत्ययो वितर्कः । तथैवास्तेयस्य वितर्कः द्रव्यमस्य स्वीकरिष्यामीति । तथा ब्रह्मचर्यस्य वितर्कः दारेषु चास्य गमिष्यामीति । तथैवापरिग्रहस्य वितर्कः परिग्रहेषु चास्य स्वामी भविष्यामीति ॥

 अस्येत्येतत् सर्वत्र हिंसादिषु अनुगमप्रतिपादनार्थम् । द्रव्यमस्य स्वीकरिष्यामीति परद्रव्यस्यात्मसंबन्धकरणम् । परिग्रहेषु चास्य स्वामीति परसंबन्धिष्वेव द्रव्येषु स्वयं स्वामीति । यथा कुमारनरपतिसचिवादीनाम् ॥

इत्थमुन्मार्गहारिणा वितर्कज्वरेण दीप्तेन बाध्यमानस्तत्प्रतिपक्षान् भावयेत् ॥

 कथं भावयेदिति ? घोरेषु संसाराङ्गारेषु पच्यमानेन मया शरणमभ्युपगतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान् हिंसादीन् पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति । शुन इव वृत्तं यस्य सः श्ववृत्तः । श्ववद्वा वृत्तः श्ववृत्तः । तेन तुल्य इति भावयेत् । यथा  यथा श्वा वान्तावलेही तथा त्यक्तस्य पुनराददान इति । एवमादि सूत्रान्तरेऽपि योज्यम् ॥ ३३ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →