चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥
अथ चित्तं चेच्चित्तान्तरेण गृह्येत, बुद्धिबुद्धिः केन गृह्यते, साऽप्यन्यया साऽप्यन्ययेत्यतिप्रसङ्गः । स्मृतिसंकरश्च, यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः प्राप्नुवन्ति ।
अथोभयपरिच्छित्तिरेकैवेति चेन्न, निरवयवत्वात् परिच्छित्तेः । न हि निरवयवायाश्चित्तवृत्तेः प्रदीपवदनेकावभासकत्वं युक्तम् । अवयवभेदात्तु प्रदीपस्यानेकप्रकाशकत्वं संभवति । न तु ज्ञानस्य सावयवत्वं परैरभ्युपेयते ॥
किं च, ज्ञानमेकमेकस्मिन् क्षणे उभयमवधारयतीति चाभ्युपगमे क्रियाकारकभेदप्रसङ्गः । यदुभयावधारणं सा क्रिया । यदवधारयति तत् कारकम् । न चैकस्मिन् क्षणे स्वपरोभयावधारणं क्षणवादिनो युक्तम् । कस्मात् ? उक्तं हि क्षणिकत्वसिद्धये यद्भवनम् उत्पत्तिः सैव क्रिया तदेव च कारकमित्यभ्युपगमः । क्रियाकारकभेदे च क्षणभङ्गभङ्गः स्यात् । कारकेण हि क्रियाक्षणमवस्थानीयम् ॥ २० ॥
स्यान्मतिः कस्यापि—स्वरससन्निरुद्धं चित्तं चित्तान्तरेण गृह्यते इति भावेन विनष्टं भङ्गुरतरं चित्तं चित्तान्तरेण समनन्तरेण संजायमानेन गृह्यत इति, अथापि नित्यावस्थितपुरुषपरिकल्पना निरर्थकैव । अत्रोच्यते— चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥
यदि चित्तं चित्तान्तरेण स्वरसनिरुद्धं पौरस्त्यं पाश्चात्येन जायमानेन समनन्तरेण गृह्येत, बुद्धिबुद्धिः घटविषया बुद्धिः बुद्धिरुच्यते, तद्विषया तु बुद्धिबुद्धिः, सा केन गृह्यते व्यवस्थितग्राहकाभावात् । साऽप्यन्यया ग्रहीतव्या साऽप्यन्ययेत्यतिप्रसङ्गः ॥
तत्संकराच्चैकस्मृत्यनवधारणं च स्यादित्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाऽऽकुलीकृतम् । ते तु भोक्तृस्वरूपं यत्र कञ्चन कल्पयन्तो न न्यायेन संगच्छन्ते । केचित्तु सत्त्वमात्रमपि परिकल्प्य, अस्ति स सत्त्वो य एतान् पञ्च स्कन्धान् निक्षिप्यान्यांश्च प्रतिसंदधातीत्युक्त्वा, तत एव पुनस्त्रस्यन्ति ।
न चागृहीतासु बुद्धिबुद्धिषु संव्यवहारो घटते स्मृतिसंस्कारानुपपत्तेः । तत्रैकजातीयानामेव घटबुद्धिबुद्धीनां दशतयी माला स्यादनवस्थिता, न घटबुद्धिः । परिसमाप्तौ च घटबुद्धिबुद्धीनां असत्यां कथं घटादिबुद्धिरुपतिष्ठेत ॥
अयं चापरो दोषः स्मृतिसंकरश्च इति । बुद्धिबुद्धीनां तत्संस्काराणां चैकरूपत्वात् स्मृतिसंकरः प्राप्नोति । यावन्तो बुद्धिबुद्धीनामनुभवास्तावत्यः स्मृतयः संकीर्णाः प्राप्नुवन्ति । तत्सङ्करात् स्मृतिसङ्करात् स्मृत्यनवधारणं इयमस्या बुद्धेः स्मृतिरित्यनवधारयन्तः कथं व्यवहरेमहि । तथा च सरूपत्वात् स्मृतिसंकरः प्राप्नोति ॥
यावन्तो बुद्धिबुद्धीनां विदानाः स्वबुद्धिस्मृतिपूर्वव्यवहारासम्भवात् सर्वे संमोहेन सङ्गच्छेमहि । यदि चानवस्थापरिजिहासया क्वचित् बुद्ध्यन्तरे समवतिष्ठेमहि, तमेव बुद्धिप्रतिसंवेदिनं बुद्धिप्रतिसंवेदनलिङ्गेन स्पष्टतरमपि पुरुषमपलपद्भिर्वैनाशिकैराकुलीकृतं जगदिति ॥
ननु चालयविज्ञानकल्पनयाऽनवस्थादोषं परिहरेमहि । तथा चात्मकल्पनामपलपेमहीत्येवं ते भोक्तृस्वरूपं यत्र कचन कल्पयन्तो न न्यायेन सङ्गच्छन्ते । तस्याप्यालयविज्ञानस्य ग्राह्यत्वादनवस्थितत्वाच्चाभिहितसकलदोषानुषङ्गः ॥
केचित् वैनाशिकविशेषाः सत्त्वमात्रमपि शब्दान्तरेण सत्त्वमात्रं भोक्तृस्वरूपं परिकल्प्य अस्ति स सत्त्वो य एतान् पञ्च स्कन्धान् रूपवेदनासंज्ञासंस्कारविज्ञानलक्षणान् निक्षिप्य परित्यज्य अन्यांश्च स्कन्धान् प्रतिसन्दधाति गृह्णाति इत्युक्त्वा तत एव भूतानागतस्कन्धप्रतिसन्धात्रेकसत्त्वपरिकल्पनातः त्रस्यन्ति ॥
तथा स्कन्धानां महानिर्वेदाय विरागायानुत्पादाय प्रशान्तये गुरोरन्तिके ब्रह्मचर्यं चरिष्यामीत्युक्त्वा सत्त्वस्य पुनः सत्त्वमेवापह्नुवते । साङ्ख्ययोगादयस्तु प्रवादाः स्वशब्देन पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्तीति ॥ २१ ॥ कथम्—