विभूतिपादः · ३.१५

 क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५ ॥

व्यासभाष्यम्

 एकस्य धर्मिणः एक एव परिणाम इति प्रसक्तेः, क्रमान्यत्वं परिणामान्यत्वे हेतुः भवति इति ॥

 तद्यथा—चूर्णमृत्, पिण्डमृत्, घटमृत्, कपालमृत्, कणमृत् इति क्रमः । यो यस्य धर्मस्य समनन्तरो धर्मः, स तस्य क्रमः ।

 पिण्डो घट उपजायत इति धर्मपरिणामक्रमः ।

विवरणम्

 इदानीं परिणामभेदे हेतुरुच्यते—सिद्धे हि भेदे परिणामत्रयसंयमः प्रयोक्तुरुपकल्पेत । यतः कयाचिल्लिङ्गद्वारा अतीतादिषु मतिरुपजनयितुं शक्यते, नान्यथा इति, क्रमान्यत्वं परिणामान्यत्वे हेतुः । एकस्य धर्मिणः चित्तादेः एक एव परिणाम इति प्रसक्तेः धर्मादीनां धर्म्यभेदादिति, परिणामभेदसिद्धये हेतुरेष उच्यते—क्रमान्यत्वम् । क्रमः अनन्तरभावः तस्यान्यत्वं भेदः ॥

 त्रयो हि क्रमा अन्योन्यविघर्मण उपलक्ष्यन्ते । लक्षणावस्थाक्रमाभ्यामन्यो धर्मक्रमः । धर्मावस्थाक्रमाभ्यामन्यो लक्षणक्रमः । धर्मलक्षणक्रमाभ्यामन्योऽवस्थाक्रमः । यच्च तेषामन्यत्वं प्रसिद्धमार्गमधिरूढं तत् क्रमकार्याणां परिणामानामनुमापकं अन्यत्वे हेतुः ॥

 तद्यथा मृत् धर्मी चूर्णमृत् इति चूर्णादिभिर्धर्मैरयुगपत्कालजन्मभिः क्रमवर्तिभिः परिणमते । सर्वत्र मृद्ग्रहणेन धर्मिणो मृदाख्यस्य परस्परलक्ष्यमाणभेदचूर्णपिण्डघटकपालकणादिधर्मानुगमं प्रतिपादयति ॥

 चूर्णस्यानन्तरः पिण्डः, पिण्डस्यानन्तरो घटः, घटस्यानन्तराणि कपालानि, कपालानां कणा अनन्तरा इति धर्म एव चूर्णमृत्, पिण्डमृत्, घटमृत्, कपालमृत्, कणमृत्, इति क्रमः, धर्मान्तरस्य क्रमः । न लक्षणं, नाप्यवस्था । यथा—यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । कथम् ? पिण्डो घट उपजायत इति पिण्डरूपा मृत् घटीभवतीत्यर्थः । अभेदोपचारेण पिण्डो घट उपजायत इत्युच्यते । न पुनः पिण्डो धर्मो धर्मान्तरात्मतां

व्यासभाष्यम्

   लक्षणपरिणामक्रमः, घटस्य अनागतात् वर्तमानभावः क्रमः । तथा पिण्डस्य वर्तमानादतीतभावः क्रमः । नातीतस्यास्ति क्रमः । कस्मात् ? पूर्वापरतायां हि सत्यां समनन्तरत्वम् । सा तु नास्ति अतीतस्य । तस्मात् द्वयोरेव लक्षणयोः क्रमः ॥

  तथा अवस्थापरिणामक्रमोऽपि घटस्य अभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्पराऽनुपातिना क्रमेण अभ्यूह्यमाना

विवरणम्

प्रतिपद्यते । पिण्डधर्मविमर्दनेन तद्विरोधी तदनन्तरं घटाख्यो धर्म उपजायते ॥

  धर्मपरिणामश्च द्विविधः, तुल्यपरिणामश्चातुल्यपरिणामश्च । यथा पिण्डो घट उपजायत इत्यतुल्यपिण्डस्य, घटादिधर्मैर्मृदाख्यो धर्मी परिणमते, सः अतुल्यधर्मपरिणामः । यावच्च घटस्य जन्मनः प्रभृति आ कपालापत्तेः तावत् घटरूपेणैव परिणमते मृदिति स तुल्यधर्मपरिणामः ।

  तथा चित्तमपि निरुद्धवृत्तिकमेकाग्रतावस्थायां तुल्याभ्यां धर्माभ्यां शान्तोदितप्रत्ययाभ्यां परिणमते, व्युत्थाननिरोधाभ्यां धर्माभ्याम् अतुल्याभ्यां परिणमते, तथा व्युत्थानवेलायां शान्तघोरमूढैः प्रत्ययैर्धर्मैरतुल्यैः परिणामं प्रतिपद्यते । सोऽयं धर्मपरिणामक्रम उक्तः ॥   इदानीं लक्षणपरिणामक्रम उच्यते—लक्षणपरिणामक्रमः घटस्यानागतात् लक्षणात् वर्तमानभावः । तथा पिण्डस्य विरोधिधर्मोदये वर्तमानादतीत[भाव]ः क्रमः । नातीतस्यास्ति क्रमः । धर्मे हि वर्तमानलक्षणस्य समनन्तरं यल्लक्षणं स लक्षणक्रमः । न चातीतलक्षणस्य समनन्तरं लक्षणमस्ति ॥

  कस्मात् ? पूर्वापरतायां हि सत्यां समनन्तरत्वम् । सा चातीतस्य नास्ति । तस्मात् द्वयोरेव अनागतवर्तमानयोः लक्षणयोः क्रमः । अतीतस्य क्रमाभावप्रतिपादनेन प्रयोजनम् ‘क्षणतत्क्रमयोः संयमात्’ इत्यत्र भविष्यति ॥

  तथा अवस्थापरिणामक्रमः घटस्याभिनवस्य प्रान्ते अवसानावस्थायां पुराणता दृश्यते । सा च क्षणपरम्पराऽनुपातिना क्रमेणाभ्यूह्यमाना प्रति-

व्यासभाष्यम्

परां व्यक्तिम् आपादिता इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति ॥
 त एते क्रमाः धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवति अन्यधर्मापेक्षया इति । यदा तु परमार्थतो धर्मिणि अभेदोपचारद्वारेणाभिधीयते धर्मः, तदा अयम् एकत्वेनैव क्रमः प्रत्यवभासते ॥
 चित्तस्य द्वये धर्माः परिदृष्टाश्च अपरिदृष्टाश्च । तत्र प्रत्ययात्मकाः परिदृष्टाः, वस्तुमात्राः अपरिदृष्टाः ।

विवरणम्
क्षणमभिनवभावपरिमर्दनेन पुराणता सञ्जनिष्यते । सा च प्रान्तेषु परां व्यक्तिमापादिता । मध्ये तु सूक्ष्मतया न विभाव्यते । तेन मध्यावस्थायां सन्नपि क्रमो न लक्ष्यते । प्रान्तकालाभिव्यक्तिलिङ्गेनानुमायिष्यते—येन इयं पुराणता परां व्यक्तिमुपप्रापिता सोऽयं क्रम इति । न हि घटे परिनिष्पन्नमात्रे प्रतिक्षणजन्माऽपि पुराणता गृह्यते ॥ 

 तथा च वदिष्यति—“क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः” इति । तस्मात् धर्मलक्षणक्रमाभ्यामवस्थाक्रमस्यान्यत्वात् धर्मलक्षणपरिणामाभ्यां विशिष्टोऽयं तृतीयः परिणामः ॥

 त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । विवक्षिते तु धर्मधर्मिणोरभेदे तत्र क्रमभेदो न लभ्यते । धर्मोऽपि धर्मी भवत्यन्यधर्मापेक्षया । गुणेभ्योऽन्यत्र धर्मधर्मित्वं नाम न व्यवस्थितम् । महदादीनामप्यविशेषापेक्षया धर्मित्वम् । अविशेषाणां च विशेषापेक्षया, विशेषाणां च शान्तोदितापेक्षयेति । यदा तु परमार्थतो धर्मिण्यभेदोपचारद्वारेणाभिधीयते धर्मः, तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते ॥

 तत्र चित्तस्य द्वये द्विविधाः धर्माः परिदृष्टाश्चापरिदृष्टाश्च उपलब्धाश्चानुपलब्धाश्च । के ते इत्याह—तत्र प्रत्ययात्मकाः रागद्वेषमोहादयः परिदृष्टाः । वस्तुमात्राः स्वरूपेण विद्यमानाः कार्ययोगिनः अपरिदृष्टाः ।

व्यासभाष्यम्

 ते च सप्तैव भवन्ति अनुमानेन प्रापितवस्तुमात्रसद्भावाः ।
 निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् ।
 चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ॥ १५ ॥
  एते योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →