तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥
किञ्च--यदिदमतीतानागतिप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्विवर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य, सातिशयत्वात्, परिमाणवत् इति । यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेष इति ॥
तस्माद्यस्य साम्यातिशयविप्रोषितमैश्वर्यं स ईश्वर इति प्रधानपुरुषव्यतिरिक्तः पुरुषविशेष ईश्वरः सिद्धः ॥ २४ ॥
यथाप्रतिज्ञातस्येश्वरस्य सिद्धौ प्रमाणमुपन्यस्यते--तत्र निरतिशयं सर्वज्ञबीजम् । तत्र तस्मिन् यथाप्रतिज्ञातलक्षण ईश्वरे निरतिशयं भवितुमर्हति । किं तदिति ? यदिदम् अव्यभिचारि प्रत्यक्षानुमानज्ञानम् अतीतविषयम् अनागतविषयं (वर्तमानकाल)प्रत्युत्पन्न[विषय]मतीतादिसमुच्चयविषयम् अतीन्द्रियविषयं च । अतीन्द्रिययोरतीतानागतयोः संभवादतीन्द्रिय[ग्रहणमित्युच्यते |
तच्चातीन्द्रियग्रहणं त्रिविधम्-सूक्ष्मविषयं व्यवहितविषयं विप्रकृष्टविषयश्च । अल्पं बह्विति । यथाप्रसिद्धमेतद्विवर्धमानं सातिशयत्वेन सर्वज्ञबीजं यथा धूमविज्ञानमग्निविज्ञानस्य । कथम् ? यत्र प्रकर्षकाष्ठां प्रतिपद्यते । ज्ञानस्य ज्ञात्राश्रयत्वात् यत्रेति ज्ञातोच्यते--यस्मिन् ज्ञातरीति । स सर्वज्ञः सिद्धः ॥
तथा शक्तिरपि सातिशयत्वेन विवर्धमाना यत्र काष्ठां प्राप्नोति, स सर्वशक्तिः । तेन जगन्निर्माणस्थापनोपसंहारादिकर्तृत्वसिद्धिः । तथैश्वर्यस्यापि वर्धमानस्य यत्र काष्ठाप्राप्तिः, स परमेश्वरः । ततश्च अशक्त्यादिविपर्ययदोषाभावसिद्धिः ॥ 8
अथापि स्यात्-अज्ञानस्यापि विवर्धमानस्य स्वभावसिद्धस्य काष्ठाप्राप्तस्य तस्मिन्नीश्वरे सिद्धिरिति---न-ज्ञानाविरोधात् । न हि ज्ञानाज्ञानयोर्विरुद्धयेरेकस्मिन्नभिसंयोगोऽस्ति । न हि ज्ञाने प्रकर्षवति तत्राज्ञानं संभवति ॥
यत्र हि ज्योतिर्विवर्धते तत्र तमोऽपकृष्यत एव । विपर्ययोऽपीति चेत्--- तच्च न-सति ज्योतिषि तमसोऽनुपलम्भात् । विद्यमानं हि तमो ज्योतिषा तिरस्क्रियते, न कदाचिद्विद्यमानं ज्योतिस्तमसाऽभिभूयते ।
यदपि जलधरोपरोधात् प्रावृषि रवेरदर्शनम्, तदपि दृष्टिव्यवधानमात्रम् । न पुनः प्रकाश एव तिरोधीयते तमोवत् । तस्मान्न, यत्र ज्ञानविवृद्धिस्तत्राज्ञानस्य भावः सवितरीव तमसः । नित्यात्यन्ततिरोहितरजस्तमोगुणसत्त्वोपादानात् ॥
किञ्च- नाज्ञानस्यावस्तुविषयत्वाद्विवृद्धिः संभवति । ज्ञानस्य ज्ञेयवस्तुविषयत्वादभिवृद्धयुपपत्तिः । अज्ञानस्य हि वस्तुविषयत्वे ज्ञानत्वप्राप्तिः ॥
यश्चापि स्थावरादिष्वज्ञानप्रकर्ष इति, नासौ प्रकर्षः । अत्यन्तज्ञानाभावापेक्षया हि स उच्यते । अज्ञानस्य प्रकर्षे हि सत्यज्ञानसहस्रस्य न ज्ञानेनैकेन बाधः स्यात् । तथा[दा]हि प्रत्यज्ञानं ज्ञानेनोत्पन्नेनानेकेन बाधनं स्यात् । तस्मान्नाज्ञानस्य प्रकर्षः स्वरूपेण ॥
यस्य हि सातिशयत्वं तस्य काष्ठाप्राप्तिर्दृश्यते । यथा फलादिपरिमाणाना माकाशपर्यन्तता । तथा सर्वज्ञबीजमपि परां काष्ठां प्राप्तुमर्हति ॥
समस्तं व्यस्तं च सर्वं वस्तुजातमेकस्य प्रत्यक्षं, ज्ञेयत्वात्, घटादिवत् ॥ ज्ञानाविषयत्वेन पुरुषार्थत्वात्, घटादिवदेव ॥ उत्पत्तिमती च पृथिवी, सावयवत्वात्, घटादिवत् ॥ प्राणिकर्मतत्साधनफलविभागविदेक(गधैक)निष्पादितं जगत्, तदुपभोग्यस्थानादिरचनाविशेषवत्त्वात्,प्रासादादिवत् ॥
अनेकप्राण्युपभोगविज्ञानवदेकनिर्वर्तिता पृथिवी, अनेकप्राणवदुपभोग्यत्वात् व्रीहियवादिवत् ॥
अनेकप्रयोजनार्थिना एकेन निर्मिता पृथिवी, गृहादिवदेव ॥
सर्वप्राण्याश्रयो गिरिनदीसमुदायः तन्निवासिपरिभोगयोग्यविज्ञानवदेककुशलोत्पादितः, प्रकृतहेतुनिदर्शनाभ्यामेव ॥
अनेकप्राणभाक्प्रकाशादिसामर्थ्यज्ञानवता एकेन निर्वर्तितः सविता,
प्रकाशात्मकत्वात् प्रदीपादिवत् ॥
नियतकालमादित्योदयास्तमयादिसञ्चरणम् एतत्प्रयोजनज्ञानवदेकप्रयुक्तं, प्रतिनियतकालत्वात्, कृष्यादिवत् ॥
बुद्धिमदेकेश्वरप्रयुक्ता सूर्यग्रहचन्द्रनक्षत्रादिप्रवृत्तिः, प्रवृत्तेर्दुःखात्मकत्वे
सति नियतसमयत्वात्, धर्मज्ञशिष्यभृत्यादिप्रवृत्तिवत् ॥
चन्द्रमसो वृद्धिक्षयौ तिथ्यादिकालज्ञानवतैकेन प्रयुक्तौ, कालपरिच्छेदकत्वात्,
घटिका[हरा]दिवत् ॥
कालपरिच्छेदज्ञानवतैकेन निर्वर्तितश्चन्द्रमाः, वृद्धिक्षययुक्तत्वात्,
घटिकादिवदेव ।
बुद्धिमदेकस्वामिकं जगत्, अन्योन्यविरुद्धसंहतानेकप्राणिनायकाधिष्ठितबहुमण्डलत्वात्,
इत्थंजातीयकैकराज्यवत् ।
सर्वमेतत्साधनसाध्यव्यापारावस्थं प्रत्यक्षं कस्यचिदेकस्य, अवान्तरविरोधानुग्रहवत्तयैकप्रयोजनत्वात्, सांग्रामवस्तुवत् ॥
संहतत्वात्, कुलालादिवस्तुवत् । सैव प्रतिज्ञा ॥
युगपच्च सर्वं प्रत्यक्षमेक(त)स्य, अनेकत्वे (व)सत्यन्योन्यसंबन्धात्,
प्रसिद्धसम्बन्धानेकार्थवत् ।
अग्निहोत्रादिसाधनसाधनीये कस्यचित्प्रत्यक्षे, साध्यसाधनरूपत्वात् ,
भुजित्तृप्तिवत् ॥
सर्वा शक्तयः कस्यचित् प्रत्यक्षाः, वस्तुत्वात्, घटादिवत् ॥
अ[वा]न्तरप्रतिबन्धाभावे सर्वं वस्तुजातं नैरन्तर्येण कस्यचित् प्रत्यक्षं,
शब्दादिमत्त्वेन सम्बन्धात्, द्रावीयसीमिव शष्कुलीं भक्षयतः शब्दादयः ॥
स्वतन्त्रतया केनचिदेकेन सर्वं प्रत्यक्षत उपलभ्यते, ज्ञेयत्वेनाभिमतत्वात्,
नाट्यवस्तुवत् ॥
अप्रतिबन्धेन कस्यचित् प्रत्यक्षोपलभ्यं सर्वम्, अनेक(सत्वे)त्वे सत्यन्योन्यसंबन्धात्,
नाट्यसंबन्धिनर्तकादिवत् ॥
संसाररहितः सर्वज्ञः, अज्ञानाभावात्, मुक्तात्मवत् । क्लेशादिरहित ईश्वरः,अप्रतिबन्धज्ञानत्वात्, सिद्धयोगिवत् ॥
एतेन क्लेशादिप्रतिबन्धाज्ञानरहितत्वेन चक्षुरादीन्द्रियग्रामनिरपेक्षसर्वविषयज्ञानत्वं सिद्धम्। सर्वार्थग्रहणसमर्थस्य परमेश्वरचित्तस्य सर्वव्यापिनो युगपत्सर्वविषययोगित्वात् । एवं सति समस्तवस्तुग्रहणाभावे कारणाभा(वानु)वोपपत्तिः ॥
नापि मूर्तिमत्प्रतिबन्धोऽप्याकाशवदेव सर्वविषययोगिनोऽपि चित्तस्य विषयानवस्थानादाविर्भावतिरोभावस्मृतिसंकल्पानवस्थितत्वोपपत्तिः । विषयाकारतया वृत्तिलाभादर्कप्रभावत् ॥
न हि क्लेशाद्यावरणावच्छन्नं चित्तसत्त्वम्, तस्याधर्मादियोगात् । सर्वगतस्य सर्वार्थस्यापि सत्त्वस्याधर्मादिप्रतिबन्धकनिरुद्धस्वकीयप्रवृत्तिमार्गत्वादिन्द्रियादिद्वारापेक्षित्वमुपपद्यते । यथा अपवरकावरणावृतः प्रदीपस्तदावरणगतच्छिद्रद्वारेण बहिः प्रकाशयति । स एव तु प्रदीपः प्रभिन्नापवरकावरणः सन्ननपेक्ष्य तत्तच्छिद्रमार्गं समन्ततः प्रकाशयति ॥
तथैवेश्वरसत्त्वं क्लेशाद्यावरणयोगाभावादसति विषयविशेषानिरोधिकारणे युगपदशेषार्थग्रहणम् । ततश्च स्वातिलङ्घनानतिलङ्घनादिदोषाभावः ॥ सर्वस्य विषयत्वात् सर्वमेकेश्वरं जगत्, परिपालकापेक्षस्थानाद्यनेकवस्तुविशेषत्वात्, प्रसिद्धैवंभूतैकराज्यवत् ॥
तथा, नियतस्थितिहेत्वनेकोपकरणवत्त्वात्, अन्योन्याभिभवनीयप्रभूततरदुर्गयुक्तानेकदेशत्वात्, अभङ्गुरव्यवस्थशरीरभेदवत्त्वाच्च, प्रतीतैवंविधैकराज्यवत् ॥
अनेककर्तृभोक्तृक्रियासाधनफलसंबन्धविशेषज्ञानवदुपदिष्टानि वर्णाश्रमाद्यनुष्ठानानि, फलार्थिभिः प्रत्यवायभीरुभिस्तैश्चानुष्ठीयमानत्वात्, भैषज्यरसायनाद्यनुष्ठानवत् ॥
तथा तदुपदेशाः, परार्थत्वात्, उपदेशत्वात्, विद्वच्छ्रद्धेयत्वात्, उपदेशादृते मनुष्यानवगम्यार्थत्वाच्च, भैषज्याद्युपदेशवत् ॥
शरीरेन्द्रियाणि सर्वतत्प्रयोजनविदेकनिमित्तकारणाभिनिर्वर्तितानि, नियतक्रियास्थितिहेतुसाधनवत्त्वात्, प्रासादगृहदारुयन्त्रादिवत् ॥
नियतप्रयोजनरचनावत्त्वाच्च, तद्वदेव ॥
तथेन्द्रियाणि, करणत्वात्, वासीवृक्षादानादिवत् ॥
तथा सर्वं, कार्यनियतोपादानत्वात्, भोक्त्रर्थत्वात्, भोगसाधनत्वाच्च, घटादिवत् । उत्पत्तिमत्त्वेऽप्येते हेतवः ॥
एवं मध्यमपरिमाणत्वात्, अनेकविनाशहेतुसंबन्धयोग्यत्वात्, भोगाधिष्ठानत्वात्, क्रियाफलसाधनतद्रूपादिमत्त्वाच्च, आधीयमानापचीयमानापूर्यमाणापनीयमानदह्यमानभिद्यमानैकदेशत्वात्, विनश्वरी पृथिवी ॥
शरीरादिवन्नश्वराणि पृथिव्यादिभूतानि, अन्योन्यनाशकशक्तिमत्त्वात्, शस्त्रपुरुषादिवत् ॥
तथैव विरोधात्, पुरुषविपरीतत्वाच्च, उत्पत्तिविनाशधर्मकमाकाशं, साक्षादुपकरणत्वात्, घटादिवत् बाह्येन्द्रियग्राह्यगुणाश्रयत्वाच्च ॥
तस्मान्निरतिशयशक्तिज्ञानैश्वर्यः परमेश्वरः सिद्धः ॥
अत्रोच्यते—ईश्वरशब्दार्थः सर्वज्ञो न भवति, प्रमेयत्ववस्तुत्वशब्दाभिधेयत्वास्मत्साधनापेक्षोपलब्धत्वादिभ्यः, अस्मदादिवत् ॥
ईश्वरशब्दोऽपि निरतिशयज्ञानयुक्ताभिधायी न भवति, शब्दत्वात्, घटादिशब्दवत् ॥
सर्वज्ञसर्वेश्वरशून्यं जगत्, अनेकप्राणिव्यपाश्रयत्वात्, अन्योन्यविरुद्धानेकनायकराज्यवत् ॥
भूतभविष्यत्कालयोरपि इदानीमिव सर्वज्ञस्यानुपलब्धारः सर्वप्राणिनः, प्राणित्वात्, अस्मदादिवत् ॥
बाह्यन्तरपरिकल्पितः सर्वज्ञः सर्वेश्वरश्च नास्ति, अनुपलभ्यमानत्वात्, शशविषाणवत् ॥
तथा असर्वज्ञोऽनीश्वरश्च, अशरीरत्वात्, मुक्तात्मवत् । सशरीरश्चेद्धर्माद्यपेक्षशरीरत्वं, तथा च संसारित्वमस्मदादिवदेव । अशरीरत्वमेवेति चेज्जगत्कर्तृत्वानुग्राहकत्वाद्यनुपपत्तिः, मुक्तात्मनिदर्शनेन ॥
विशिष्टपरिभोगयोग्यजगद्रचनाविशेषोपपत्तिः स्वभावादेव, कण्टकतीक्ष्णत्वकुमुदकमलसङ्कोचविकोचादिवत् । निशाकरदिवाकरतारकादिगमनागमनाद्यपि स्वाभाविकं, लोहायस्कान्तमणिवत् ॥
अत्राभिधीयते-स्वाभाविकी तावन्न भवति पृथिव्यादिरचना । दृष्टान्तो नैव तत्साधनस्य विद्यते । कण्टकादीनां च तैक्ष्ण्यं न स्वाभाविकमभ्युपेयते ।
अग्न्यादीनामिवौष्ण्यादि स्वभावो वस्तुधर्मत्वाद्धेतो: पृथिव्यादिरचनेति चेत्-प्रासादादिरचनाया वस्तुधर्मत्वात् स्यादनैकान्तिकत्वम् ।
अथ स्वाभाविकत्वादिति चेत्-असिद्धत्वम्, जगद्रचनाया धर्माधर्मफलोपभोगार्थप्रयुक्तत्वाभ्युपगमात् । कर्तृधर्माधर्मास्तित्वमुपरिष्टात् साधयिष्यते ॥
तस्मात् पृथिव्यादिरचना स्वाभाविकी न भवति, प्राण्युपभोगार्थत्वात् , प्रासादादिरचनावत् । चन्द्रादिप्रवृत्तिर्न स्वाभाविकी, प्रवृत्तित्वात्, अस्मदादिप्रवृत्तिवत् ॥
अस्मदादिप्रवृत्तिरपि स्वाभाविकीति चेत्—न— अग्न्युष्णत्ववान्नित्यत्वप्रसङ्गात् । न ह्यग्न्युष्णत्वं स्वाभाविकं सन्नियतं निमित्तमात्मलाभाय काङ्क्षति धर्मिसत्ताव्यतिरेकेण । क्रियाफलरचनादीनां तु विशिष्टनिमित्ताकाङ्क्षणमात्मप्रतिलम्भायेति न स्वाभाविकत्वम् ।
नियतनिमित्ताकाङ्क्षणमपि प्रासादादिरचनानां स्वभाव इति चेत्— अस्तु तथाविधस्वभावत्वम् । तथाऽपि पृथिव्यादिरचनाया नियतनिमित्ताकाङ्क्षणस्वभावत्वं प्रासादादिवदेव ! ततश्च नाम्नि विप्रतिपत्तिर्न दोषाय, कारकान्तरापेक्षत्वादिति प्रतिज्ञा प्रतिरूपकारिणी च ।
भवद्विरुक्तानि [अनुमानानि] लोकानुमागमविरोधात् [अप्रमाणानि] । अनुमानविरोधं तावत् सातिशयत्वादिभ्यो ब्रूमः ।
आगमविरोधं च "यः सर्वज्ञः1 सर्ववित्" "एको2 वशी" इत्येवमादिभ्यः समाचक्ष्महे । समस्तलोकविरोधं चापि । सर्व एवानारीगेोपालं संव्यवहरमाणाः सततं शिवनारायणादिनाम्ना प्रणिहितचेतसः प्रतिषेधत्स्वपि संभिन्नबुद्धिषु अकर्णीकृततत्प्रतिषेधविषयपल्लवाः परमेश्वरं प्रणतमूर्धानः कुसुमाञ्जलिप्रभृतिभिरर्चयन्ति । फलं चापि तत एव प्रार्थयन्ते ॥
अथ चेद्ब्रूयात्-सर्वज्ञाभावप्रतिपादिभिरस्मदनुमानैरितरप्रतिज्ञानां विरोध इति—अत्रोच्यते
नैतान्यनुमानानि । कथम् ? प्रथमं तावत् प्रतिज्ञैव दुष्टा । यदि तावदीश्वरशब्दार्थः सर्व न भवतीति युष्मदभिप्रेत ईश्वर उच्येत, तथा च सिद्धसाध्यता स्यात् ।
अथास्मदभिप्रेतः, तथापि युष्माकमसिद्धविशेष्यता भवेत् ॥ अथेश्वरत्वस्यासर्वज्ञत्वमुच्यते, तथापि सिद्धं साध्यते ।
तथैवाभ्युपगमविरोधोऽपि । कथम् ? ऐश्वर्यसर्वज्ञबीजत्वयोर्विवर्धमानत्वात् काष्ठाप्राप्तिः परिमाणवदेवाभ्युपगमनीया । तथा काष्ठाप्राप्तैश्वर्यसर्वज्ञत्ववाचिनावपीश्वरसर्वज्ञशब्दावेषितव्यौ । काष्ठाप्राप्तिश्च निरवधिकत्वम् ।यथा परिमाणादीनामात्माकाशाद्यनन्तपरिमाणान्तत्वम् । तथा चानुमानाभ्युपगमस्ववचनविरोधाः स्युः ॥
किञ्चान्यत्-काष्ठाप्राप्तेश्वरत्वस्य च शब्दार्थस्य परित्यागे शब्दार्थवादः प्राप्नोति । न हि शब्दः परित्यक्ताभिधेयैकदेश उच्चरितः|
अथ परिमाणादेरपि निरवधिकनिष्ठत्वं नेष्यते---सिद्धान्तविरोधः । आत्माकाशादीनां हि सर्वगतत्वाभाव, मध्यमपरिमाणत्वानित्यत्वादिदोषप्रसङ्गश्च । अथाप्यात्मनः सर्वत्र कार्यदर्शनात् सर्वगतत्वम्, तत्रापि शकुन्याद्यात्मनां मनुष्यगोचराकाशादिगतत्वं सामान्यतोदृष्टादेवानुमानात् स्यात् । तथा चेहापि सामान्यतोदृष्टानुमानत्वं केन वार्यते ।
अथानुमानविरोधान्नावधार्यत इति चेत्--आत्मादीनामपि प्रमेयत्ववस्तुत्वादिभ्यः पृथिव्यादिवदित्यनुमानविरोधोद्भावना शक्यते [कर्तुम्] वक्तुम् । न च तावताऽत्रानुमानविरोधित्वम्, अनुमानाभावप्रसङ्गात् ।
तथा अनुमानाभाव इष्यत इति चेत्---प्रत्यक्षेऽप्यनाश्वासः स्यात् । अथ निश्चीयमानबुद्ध्युत्पत्तेः प्रत्यक्षप्रमाणत्वम्, अनुमानस्यापि तर्हि निश्चितबुद्धिसमुद्धवादस्तु प्रामाण्यम् । अथ दृष्टसम्बन्धधूमादिविषयमेवानुमानमिति चेत्-तत्राप्यनुमानाभाव एव-अनग्निः धूमवान् प्रदेशः, प्रत्यक्षानुपलभ्यमानाग्निसम्बन्धे सति प्रदेशत्वात्, अग्निशून्योपलभ्यमानप्रदेशवदिति ॥
अथ प्रमाणान्तरसंवादाददृष्टसम्बन्धविषयेऽनुमानस्यानुमानत्वमुच्यते, प्रत्यक्षमपि प्रमाणान्तरसंवादात् प्रमाणं भवेत्, प्रमाणत्वात्, अनुमानवदेव ।
अप्रमाणं स्यात् । प्रमाणान्तरसंवादाभावात् , सामान्यतोदृष्टादिवदिति । तस्मान्न सामान्यतोदृष्टस्य प्रमाणत्वं निश्चितबुद्धित्वाद्वाधितुं शक्यम् ।
किं च---सामान्यतोदृष्टस्य मानत्वमनभ्युपगच्छतः स्वशरीरमरणसम्बन्धलक्षणस्यानुपलब्धपूर्वत्वात् सर्पादिभ्यो भयानुपपत्तिः । व्याधिप्रतीकाराय चिकित्सादिप्रयोगो न घटेत । मरणशङ्काकारणाभावात्। तथा जन्मनोऽप्युपलम्भाभावादात्मशरीरस्याजत्वं चिन्त्येत । हानोपादाननियोगाभावश्च स्यात् ॥
तस्मात् सामान्यतोदृष्टपरिमाणत्वादिसातिशयत्वसामान्यादीश्वरज्ञाननिरवधिकत्वसिद्धिः ।
किं चान्यत्-ईश्वरसर्वज्ञत्वस्य प्रतिषिद्ध्यमानत्वात् सत्त्वाभ्युपगमः, अ(नुप)पदार्थस्य प्रतिषेधासम्भवात् । न हि केवलो नेति (न) प्रयुज्यते । ईश्वरः सर्वज्ञो न भवतीत्युच्यते । तत्र क्वचित् सर्वज्ञत्वमभ्युपगतं भवति ॥
तद्यथा---शशस्य विषाणं नास्ति, वन्ध्यायाः सुतो नास्ति, कुसुममाकाशस्य नास्तीति क्वचिद्विद्यमानानामेव विषाणसुतकुसुमादीनां शशादिसंबन्धेन प्रतिषेधः, तद्वदिहापि स्यात् ॥
किं च-ईश्वरः सर्वज्ञो न भवतीति, ईश्वरशब्दार्थसर्वज्ञत्वसम्बन्धप्रतिषेधादिना ईश्वरादन्यस्य सर्वज्ञत्वाभ्युपगमः । सम्बन्धिनावनभ्युपगम्य सम्बन्धप्रतिषेधो हि न शक्यः कर्तुम् ॥
स एष युक्तः सम्बन्धः प्रतिषिध्यते, अयुक्तश्चाभ्युपगम्यते ! तत्परिश्रममात्रम् । ईश्वरसर्वज्ञयोः प्रसिद्धपदार्थयोरप्रतिषेधात् । न ह्यनन्तपरिमाणमाकाशं न भवतीत्याकाशस्य प्रसिद्धमनन्तपरिमाणत्वं प्रतिषिध्याप्रसिद्धानन्तपरिमाणत्वेषु घटादिषु तत् व्यवस्थापयितुं युक्तम् ॥
अथ सम्बन्धिनावेवेश्वरसर्वज्ञत्वे प्रतिषिध्येते, स्ववचनविरोधिनी प्रतिज्ञा स्यात् । ईश्वरसर्वज्ञत्वयोरीश्वरसर्वज्ञशब्दार्थत्वाभ्युपगमात् । न हि भवत्यग्निरग्निशब्दार्थे | न भवतीति ।
अथाप्रसिद्धपदार्थावीश्वरसर्वज्ञशब्दौ, तथाऽपि तदर्थप्रतिषेधानुपपत्तिः । अप्रसिद्धस्यार्थस्य प्राप्त्यभावात् । न हि किंचिदप्रसिद्धमेतच्छिखरे मेषकुटुम्बिनीं प्रतिषेद्धुमर्हति । किं च शब्दोपादानानर्थक्यं च । अप्रसिद्धपदार्थत्वात् ।
अथ प्रसिद्धार्थयोरीश्वरसवैज्ञशब्दयोर्निरवधिकेश्वरसर्वज्ञत्वाभ्यामप्रसिद्धाभ्यां गगनस्येव कुसुमैः संबन्धः कैश्चित् कल्पितः, स प्रतिषिध्येत---तथाऽप्यभ्युपेतार्थप्रतिषेधात् स्ववचनविरोधिन्येव प्रतिज्ञा स्यात् । सातिशयनिरतिशयानेकेश्वरसर्वज्ञव्यक्तिमत्सामान्ययोरीश्वरसर्वज्ञशब्दार्थत्वेनाभ्युपगमात्।
प्रसिद्धं हि लोके ईश्वरसर्वज्ञशब्दयोरुत्कर्षापकर्षयुक्तानेकव्यक्तिविषयबुद्धयुत्पादकत्वम् । न हि ग्रामाधिपतिरीश्वर इति द्वित्रिग्रामविषयाधिपतय उत्तरोत्तरेश्वरा न भवन्ति । यो वा कुटुम्बाधिपतिरीश्वरो न भवति स्रर्वैश्वासावर्थवानीश्वरशब्दः ।
तथा वैयाकरणः सर्वज्ञ इत्युक्ते नाधिकविज्ञानयुक्तो न भवति । निरवधिकौ सावधिकौ वेश्वरसर्वज्ञावीश्वरसर्वज्ञशब्दयोरर्थावभ्युपगम्येयाताम् । अतस्तत्प्रतिषेधादभ्युपगमविरोधिनी प्रतिज्ञा स्यात्, आत्माकाशादीनां महत्त्वस्य महच्छब्दार्थत्वप्रतिषेधवत् ॥
अथेश्वरसर्वज्ञौ निरवधिकौ न स्तः, अनुपलभ्यमानत्वात्, अनीश्वरद्वितीयशिरोवदित्युच्येत, तथाऽपि शब्दार्थाभ्युपगमादभ्युपगमाविरोधिनी प्रतिज्ञा ॥
सातिशयत्वादिभिरैश्वर्यसर्वज्ञत्वबीजादिलिङ्गैर्निरवधिकेश्वरसर्वज्ञत्वयोरुपलभ्यमानत्वान्निरवधिकपरिमाणत्ववदित्यसिद्विरनुपलब्धे:।।
अथ अविशेष्यैवेश्वरशब्दार्थः सर्वज्ञो न भवतीत्युच्येत वस्तुत्वादिहेतुभिरस्मदादिवदिति, तदा सर्वप्रमाणविरोधिनी प्रतिज्ञा स्यात् । प्रसिद्धेश्वरशब्दार्थस्यप्राकृतसर्वज्ञत्वस्य सर्वप्रमाणसिद्धत्वात् । यथा ईश्वरशब्दार्थः [सर्वज्ञो न भवति।] प्रमेयत्वादिभिर्हेतुभिर्घटादिवदित्युक्ते यत् ब्रूयात्तदेवाहं वक्ष्यामि ॥
इह सर्वज्ञशून्यं जगत् । कालो वा दिश आकाशो वा प्राणिमद्देशो वा प्राणिनो वा सर्वे सर्वज्ञशून्याः । प्रमाणानि वा सर्वाणि सर्वज्ञाविषयाणि । प्रमातारो वा सर्वज्ञस्याप्रतिपत्तार:, इत्येवंजातीयासु प्रतिज्ञासु निरवधिकेश्वरे सर्वज्ञे वा प्रतिषिध्यमाने, प्रसिद्धेश्वरसर्वज्ञशब्दार्थाभ्युपगमविरोधाः प्रतिज्ञादोषा वचनीयाः॥
ननु च वन्ध्यासुतो नास्तीति, तच्छून्यं जगत् कालो वेति, प्रतिज्ञायमाने यथोक्तप्रतिज्ञादोषप्राप्तिर्भवेत्--नैष दोषः---वन्ध्यासुतसत्तालक्षणस्य प्रतिषेद्धव्यस्य वाक्यार्थस्येश्वरसर्वज्ञशब्दार्थवदप्रसिद्धत्वात् केवलशब्दप्रापितसन्निधानबुद्धिमात्रप्रतिपन्ने पदार्थ[पदार्थ प्रतिषेध]व्यापारोऽस्तीति वन्ध्यासुतास्तित्वस्य (वा नास्तित्वस्य) नाभ्युपगमोऽस्ति । ततो नाभ्युपगतप्रतिषेधदोषः॥
ननु चेश्वरः सर्वज्ञो न भवतीत्यत्रापि बुद्धिमात्रं प्राप्यमाणं प्रतिषिध्यते, न क्वचिदपि प्राप्नुवद्वस्तु (न) प्रतिषेद्धुं शक्यते प्रतिहस्तिनेव हस्ती । यदि च नञा वस्तु निराकरिष्यते, नञ्मात्रेणेश्वरवादिपक्षत्वमपि[पक्षोऽपि]निराकरिष्यते, (अतः) तस्मादिहापि बुद्धिमात्रप्रतिषेध इति नाभ्युपगतप्रतिषेधः प्रतिज्ञादोषः ॥
सत्यमेवम् । किं त्वस्ति विशेषः । प्रमाणसिद्धवस्तुविषया बुद्धिर्वस्त्वन्तरे कालविशेषे वा प्रतिषिध्यते वस्तुसामान्यात् प्राप्नुवती यथा घटो नास्तीति । क्वचिद्विनाप्यर्थेन बुद्धिरेव शब्दप्रत्युपनीतसन्निधाना कल्पितवस्त्वन्तरा प्रतिषिध्यते । यथा वन्ध्यासुतो नास्तीति ॥
यत्र तु प्रमाणान्तरसिद्धसद्वस्तुप्रतिषेधस्तत्रापि[स्ति]अभ्युपगतार्थप्रतिषेधदोषः । यथा ईश्वरशब्दार्थः सर्वज्ञो न भवतीति । ईश्वरसर्वज्ञशब्दयोरभिवर्धमानेश्वरसर्वज्ञव्यक्त्यनुगतसामान्यवचनत्वेन लिङ्गेन निरवधिकेश्वरसर्वज्ञसत्तावद्योतित्वं सिद्धमेव । महद्वहुसर्वानन्तपरिमाणादिशब्दवत् ।
यथैवैते महदादिशब्दाः प्रसिद्धसातिशयमहदाद्यनुगतसामान्यार्थाभिधायिनः सन्तो निरवधिकमहद्वहुसर्वानन्तपरिमाणव्यक्तीनामस्तित्वावद्योतनलिङ्गा भवन्ति । महदादिसामान्यानां सातिशयव्यक्त्यनुगतानां निरवधिकमहदादिव्यक्तिव्यापन (रव्याक्षीण)शक्तित्वात् । न हि सन्तं व्याप्यमर्थं तद्व्यापकः सन्नर्थो न व्याप्नोतीति । निरवधिकातु परो व्याप्यो नास्तीति व्यापकस्य सामान्यस्य क्षयः व्याप्यविषयत्वेनैव प्रसिद्धत्वात्तत्र । तस्मात् प्रमाणसिद्धत्वादीश्वरसर्वज्ञशब्दार्थयोरभावं साधयतोऽभ्युपगतार्थप्रतिषेध एवेति दुष्टा प्रतिज्ञा ।
न चेश्वरसर्वज्ञशब्दयोरतदर्थवमन्यार्थत्वं वा कर्तुं [वक्तुं] शक्यते । तथा शक्तिज्ञानैश्वर्याणां प्रतिपुरुषं समुच्चितानां सातिशयानां निरवधिकं तत्त्वं अतः[नानुन्मत्तः]प्रतिषेद्धुमुत्सहेतेत्यनुमानविरोधित्वं प्रतिज्ञायाः ॥
किं चान्यत्- परि[पर]कल्पितस्येश्वरस्य प्रतिषेधं कुर्वन्तः प्रत्यक्षपरचित्तानिष्ठाः प्राप्नुवन्ति । परवाक्यादिति चेन्न -- सातिशयत्वादिसर्वज्ञसाधकलिङ्गप्रतिपादकवदविशिष्टत्वात् परवाक्यस्य । तादृशवाक्यार्थप्रतिषेधे चाभ्युपगतप्रतिषेधः, पूर्ववदेवानुमानविरोधश्च ॥
किं च--प्रमेयत्वादिहेतूनामपि असिद्धत्वम् । कुतः ? अस्माभिर्निरतिशयज्ञानैश्वर्यविशिष्टत्वस्याभ्युपगतत्वात् । अथ स्वयमपि तादृशमभ्युपगच्छेत्तदा। सर्वज्ञसिद्धिः, अभ्युपगतत्वात् ॥
किं चान्यत्-अभ्युपगततादृक्प्रतिषेधे, यथा घटो घटो न भवति, वस्तुत्वात्, पटवदिति, एवमिहापि स्यात् ॥
किं च-निरवधिकस्यानभ्युपगमे, प्रमेयत्वादीनाम् [अ]पक्षधर्मत्वमाश्रयासिद्धत्वं च । तदभ्युपगमे हि किं साध्यं भवेत् ? यो हि तृप्तवन्तं ब्रूयात् माऽत्रात्सीरिति, किं तेन कृतं स्यात् ॥
अथापि स्यात्--निरवधिकमीश्वरमभिसन्धाय तस्य सर्वज्ञत्वं निषेधामीति । नैतदपि युक्तम्-सर्वज्ञत्वस्यापि निरवधिकत्वात् ॥
अपि च सातिशयैश्वर्यसर्वज्ञत्वयोरुत्कर्षानुत्कर्षविषयत्वेन व्यभिचारान्नेश्वरसर्वज्ञशब्दमुख्याभिधेयत्वम् । यथा महदादयः शब्दा व्यभिचरितमहत्त्वादिषु घटादिष्वमुख्याः, नाकाशादिषु, तथैवात्रापि निरतिशयमैश्वर्यं सर्वज्ञत्वं चाव्यभिचारीति स एव मुख्यः शब्दार्थः । न च मुख्यनिराकरणं साधिमानमृच्छति ॥
किं च--यथा भवता अनुमानागमप्रसिद्धेश्वरस्य प्रमेयत्वादिधर्मविकल्पतया सर्वज्ञत्वं निराक्रियते, तथैव प्रमेयत्वादिभिरचेतनत्वमपि घटादिवदेव प्राप्नुयात् । अविरोधात् । यथा प्रमेयत्वं[अ]सर्वज्ञत्वेन व्याप्तमेवमचेतनत्वादिभिरपि ।
प्रत्यक्षविरोध इति चेत्—इहापि अनुमानागमविरोधं किं कटाक्षेणापि नेक्षसे ॥
नापि च प्रमेयत्वादिधर्मसामान्येन सपक्षे विपक्षे वा किञ्चित्। क्वचिदध्यारोपयितुं शक्यम्। वस्तुविषये सर्वत्र प्रमेयत्वादीनामास्तित्वात् । न मतिमोहनार्थः प्रमेयत्वाद्युपन्यासः ॥
अथ आत्मत्वादिति चेत्, मुक्तात्मवदज्ञत्वप्रसङ्गः स्याद्भवदीश्वराणाम् । प्रत्यक्षादिविरोध इति चेत्-अत्राप्यनुमानादिविरोधः पूर्ववदेव ॥
भूतभविष्यत्कालयोरपि ईश्वरस्यानुपलब्धार इतीदानीन्तनेश्वराणामुपैलब्धृभिरनैकान्तिकं प्राणित्वादित्यादि । किं च अतीतानागतकालयोरपि सातिशयत्वादिलिङ्गैरुपलब्धवन्त उपलप्स्यमानाश्च प्राणिनः प्रमाणकुशलाः, प्रमाणकुशलत्वात्, अस्मदादिवत्।
अथ अशरीरत्वादसर्वज्ञः, मुक्ताकाशादिवत् इति चेत्-न-सशरीरत्वात् । व्यक्ताव्यक्तं हि सर्वमशरीरं सशरीरत्वादनिलेश्वरत्वं धर्माद्यपेक्षत्वादित्युक्तत्वादिति
चेत्-न-अशरीरत्वात् । सशरीराशरीरत्वांविरोध इति चेत्-न-मुक्तमुच्यमानैकात्मनोऽशरीरत्वसशरीरत्वदर्शनात् । तत्र भिन्नकालत्वादविरोध इति चेत्-न- अत्रापि भिन्नकालाभ्युपगमात् ।
किं च---युगपदीश्वरत्वादेव द्वयसम्भवः । सकरणता अकरणताऽपि ईश्वरत्वादेव युक्ता । तथा च श्रुतयः- "अशरीरं शरीरेषु" इति । तथा "यः सर्वेषु भूतेषु तिष्ठन्2” इति । तथा ‘यः3 सर्वज्ञः सर्ववित्' इत्यादयः ॥
श्रुतीनां विप्रतिषेधार्थवादीश्वराप्रल्यायकत्वम् इति चेत्-न-अनन्यशेषत्वात् । न हि कर्मशेषत्वे श्रुतिलिङ्गादीनामन्यतमदर्पि प्रमाणमस्ति ।
स्वाध्यायविधिपरिग्रहाद्दर्शपूर्णमासादिशेष इति चेत्-न-ज्योतिष्टोमादिवद्विध्यन्तरस्य भावात् । यथैव ज्योतिष्टोमादीनां (प्रथमप्रं,पृथक्प्रकरणादिकारणादन्योन्यशेषशेषिभावो नास्ति । तथैव ‘मन्तव्यो निदिध्यासितव्यः'4 इत्यादिविषयत्वान्नाग्निहोत्रादिशेषत्वं युक्तम् ।
फलाभाव इति चेत्-न-“सर्वांश्च5 लोकानाप्नोति सर्वाश्च कामान्यस्तमात्मानमनुविद्य विजानाति" इत्यादिफलमुद्दिश्य विधानात् ॥
अथैवमप्युपासनाविधेशेषत्वात् स्तुतिरेवेति चेत्-नात्यन्तमसता स्तुतिरस्ति । न हि "वायुर्वै क्षेपिष्ठा देवता" इति वायोरक्षेपिष्ठत्वम् । क्वचिदसताऽपि स्तुत्यादिसम्भव इति चेतू-न-अनुमानसिद्धस्येहोपादानात् ॥
अथ सर्वकार्यकरणयोगादीश्वरस्य सर्वप्राणिसुखदुःखादिसंबन्ध इति चेत्-न-निमित्तभेदात् । धर्मादिनिमित्तः संसारिणां शरीरादिसम्बन्धः।धर्मादिनिमि(क्तानां)क्तो दुःखादियोगः । नेश्वरस्य धर्मादयः । निरतिशयैश्वर्यादिहेतुत्वाच्छरीरादिकार्यकरणसंबन्धस्य । यथा ग्रहतदाविष्टयोः ॥
अथ चक्षुरादिकरणत्वादस्मदादिवत् सर्वानुपलब्धिरिति चेतू-न- सर्वविषयग्रहणसमर्थानां प्रतिबन्धकारणाभावात् । सर्वगतानां हि करणानां [अ]धर्मादिसंवरणेन स्वविषयसङ्कोचः क्रियते । यस्य पुनरावरणं प्रतिबन्धक[मं]- धर्मादि न विद्यते, तस्य तदभावादशेषस्वविषयग्रहणानि करणानीति न दुष्यति ॥
अथ वा सर्वप्राणिकरणैः [ईश्वरः] पृथगात्मनः करणाभावेऽप्यावेशग्रह इव सर्वमनुभवति । न च प्राणिशून्यो विषयः कश्चिद्विद्यते, ‘यः1 पृथिव्यां तिष्ठन्’ ‘योऽप्सु तिष्ठन्’ इत्येवमादिश्रुतेरन्तर्यामिनान्न ईश्वरस्य सर्वेष्ववस्थितत्वश्रवणात् ॥
अपि वा प्रकृष्टमेव स(र्व)त्त्वं नित्यानतिशायितशक्तिज्ञानेश्वरत्वधर्मकम्, सर्वगतत्वादाकाशवत् सर्वयोगि, सर्वार्थत्वात्सर्वविषयप्रकाशकम्, धर्माधर्मादिविप्रयोगादप्रतिबन्धशक्तिकं च इति अकायानिन्द्रियत्वपक्षेऽपीश्वरसर्वज्ञत्वसिद्धिः ॥
चक्षुराद्यपेक्षमेव चित्तस्य रूपादिप्रतिलम्भसामर्थ्यमिति चेत्—न- ऐश्वर्यधर्माद्यभावाभ्यां परिहृतत्वात् ॥
अपि च चक्षुर्ग्राह्यस्यापि चक्षुषा अग्रहणं लोके दृश्यते । चक्षुर्ग्राह्यं सत् सर्वं तमः सन्निमीलितलोचनैरपि स्वस्थान्तःकरणैरुपलम्यते । तदेव चान्धतमसं विष्फारितनयनैरप्यन्यगतचित्तैर्नैव गृह्यते । यथा गृह्यमाण एवाकाशे प्रकाशः ।
अथापि प्रकाशाभावमात्रमेव तमो न वस्त्विति ब्रूयात्—तच्च न—अभावस्य वस्तुतिरोधानसामर्थ्याभावात् ॥
अथ ग्रहणनिमित्तस्य प्रकाशस्याभावादेव घटाद्यग्रहणं, न वस्तुतिरोधायकं तम इति ब्रुवीत-न-चक्षुषः प्रकाशकत्वात् प्रकाशसाहायकापेक्षानुपपत्तिः । असति भिन्नजातीये वस्तुनि वस्तूनां तिरोधातृणि तत्र या च यावती च । मात्रा प्रकाशकत्वाच्चक्षुषा प्रकाश्येत । न हि प्रदीपः प्रदीपान्तरद्वैतीयकापेक्षः प्रकाशयति ॥
कि चान्यत्-चक्षुषः प्रकाशान्तरसहायत्वापेक्षतायां च निशायामपि ताराधिपतिप्रकाशद्वितीयेन चक्षुषा दिवस इव रूपादिग्रहणप्रसङ्गस्तिरोधानस्यासति निमिते
कि चान्यत्-अभावश्चेत्तमः, चन्द्रभासु निशायां भा(भव)न्तीषु तमसा मन्देन न प्रवर्तितव्यम् । सर्वात्मनैव हि तेन विनशनीयम् । भासां भावात् । भासां तु वस्तुत्वान्मन्दत्वपाटवादिविशेषो घटते, न(भावस्य)अभावस्य निर्विशेषत्वात् ॥
किं च-सहायाभावाञ्चक्षुष उपलब्धिसामर्थ्याभावादग्रहणमिय्तेतदपि व्यभिचरति । यथा सत्यपि विद्युल्लताप्रकाशे तीव्रतरे विद्युल्लताविलासे च किं तद्दृष्टिर्नोपलभते । न हि विद्युतः सहायके दृष्टचकितत्वेनाग्रहणं
विरोधाभावाद्युक्तम् ॥
किञ्च - चिकित्साशास्त्रे छाया मधुरशीतलेत्युच्यते । न ह्यवस्तुनो मधुरशीतलत्वम् । तथा चाक्षिपति पथ्यत्वम् । नाभावस्य पथ्यापथ्यत्वं ब्रूयुः ॥
प्रदीपाच्छायोपलब्धेश्च । अभावश्चेत्तमः, प्रदीपप्रभामण्डले प्रदीपाच्छाया कथं भवेत् । वस्तुत्वेऽपि विरोधादयुक्तमिति चेत्--न-विषसर्पयोरिव संभवात् । यथा प्राणवियोगकरमपि विषं पन्नगप्राणवियोगाय न पर्याप्नोति, तथा प्रदीपतच्छाययोरपि ॥
तस्माद्वस्तु तमः, प्रकर्षापकर्षवत्त्वात् , प्रभावत् । विरोधिद्रव्यापनेयत्वाच्च, घटवत् । उपलब्धृव्यवधानकरत्वाच्च, भित्तिवदिति ॥
इतश्चेन्द्रियनिरपेक्षमप्यन्तःकरणमिन्द्रियविषयग्रहणाय समर्थम् । पिहितकर्णविवरस्य घोषोपलंभात् । न च पिहितकर्णसंपुटस्य श्रोत्रान्तरमनुमातुं शक्यम् । बधिरस्यापि पिहितश्रोत्रपुटस्य तदग्रहणात् ॥
किञ्च-प्रतिज्ञाज्ञानेनापि रूपादिग्रहणमिन्द्रयनिरपेक्षं दृश्यते ॥
किञ्चान्यत्-स्मृतेश्चानुपपत्तिः स्यात् इन्द्रियनिरपेक्षस्य चित्तस्य सातिशयग्रहणसामर्थ्येऽपि । स्पष्टाश्च स्मृतयः स्वाप्ना रूपादिविषयाः ॥
यदि चक्षुराद्यन्तःकरणाभ्यां समन्विताभ्यां रूपग्रहणं पूर्वमपि निर्वर्तिष्यते, स्वप्नादावपि समुच्चिताभ्यामेव पर्यग्रहीष्यत । न चैवमस्ति । सुखादिग्रहणे स्वातन्त्र्यं चित्तस्य सर्वप्रसिद्धम् ॥
तस्मादालोकस्थानीयानीन्द्रियाणि चित्तस्य विषयग्रहणे स्वतन्त्रस्यैव स्वतः । तदुक्तम् '1इन्द्रियप्रनाडिकया’ इति । तथा श्रुतिरपि-‘मनसा2 ह्येव पश्यति मनसा शृणोति’ इति ॥
अथोच्येत—इन्द्रियाणामालोकापेक्षावत् अन्तःकरणमपीन्द्रियसाहायकापेक्षमेव ग्राहकमिति—तन्न—व्यभिचारात् । रात्रिञ्चराणां विभिन्नव्यालोकद्वैतीयकेन दिवस इव रूपग्रहणम् । सत्यपि प्रकाशे न रूपस्य ग्रहणमुलूकादिभिर्दिने ॥
किञ्च-साधनापेक्षस्य विज्ञानसाधनादृतेऽपि तुलादौ । दर्शनमात्रेणैव सुवर्णादिपरिमाणज्ञानं दृश्यते ॥
अथ चेद्ब्रूयादानर्थक्यं चक्षुरादीनामिति-स वक्तव्यः-तुलादिवदेवान्यत्रार्थवत्त्वमिन्द्रियाणामिति । यथैव तुलादिविषयवैमल्यप्रकर्षात् पुरुषस्य विनापि तुलादिसाधनेन दर्शनमात्रादेव कनकादिवस्तुपरिच्छेदकौशलं, तथैवान्तःकरणस्यानपेक्षितचक्षुरादिसाहायकस्यापि वैमल्यप्रकर्षाद्रूपादिग्रहणसामर्थ्यं न विहन्यते ॥
नापि ह्यनेकनिर्वर्तनीयं क्रियाजातमेकेन नाभिनिर्वर्त्यते । दृश्यन्ते च बहुभिरुत्तोल्यमानं शिलादिकमद्वितीया हस्तिपुरुषादयः केचिदुत्तोलयन्तः ।
तथैवेन्द्रियसहायेनान्येषामन्त:करणेन गृह्यमाणा रूपादयः परमेश्वरचित्तसत्त्वेनानाकलित(वकर्णित)चक्षुरादिपरिस्पन्देन केवलेनैव गृह्यन्ते । काष्ठागतत्वाद्वैमल्यशक्त्यैश्वर्यप्रकर्षस्य ॥
संसारिणां ततो निकृष्टत्वादविद्यादिमलेनैश्वर्यशक्तिज्ञानादीनामिन्द्रियसहकारित्वापेक्षित्वमन्त:करणस्य। शिलादिसमुत्तोलन इव हीनबलानाम् ।
ये(षां) पुनः संसारिण एव सन्त ईश्वरीभवन्ति बुद्धर्षभादयः, तेषां निरतिशयशक्तिज्ञानैश्वर्यानुपपत्तिः । कालपरिच्छेद्यत्वात् । अभ्युपगच्छन्ति च तद्दर्शनश्लाघिनः कालपरिच्छेदनीयकं तेषाम् ।
नास्मदीश्वरस्य कालपरिच्छेद्यता । तत्कालैस्तदाद्यकालैश्च बुद्धादिभिरपरिज्ञातैश्वर्यादिसातिशयत्वादिलिङ्गैरनुमेय एवासौ । नामुष्मिन् काल उत्पन्न उत्पद्यत उत्पत्स्यमान इति त्रिधा कैश्चिदनुमीयते । निरतिशयत्वविरोधो हि तथा[दा]स्यात् ॥
तस्मात् बुद्धादीनां सिद्ध्यपेक्षत्वात्, पूर्वबुद्धानां कालाधिक्यप्राप्तेरुत्तरकालबुद्धस्यापि न निरतिशयशक्त्यैश्वर्यज्ञानत्वं विरुद्धम् । अथ तुल्यशक्तिज्ञानैश्चर्याणामेव तेषां समानराज्यराजानामिवासमानकालत्वमिति ब्रूयात्, तथापि बुद्धान्तरकालस्य व्याप्त्यभिलाषविघातान्निरतिशयैश्वर्याद्यभावः |
व्यासभाष्यम्
सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति । तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या । तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्, ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति । तथा चोक्तम्—आदिविद्वान् निर्माणचित्तमधिष्ठाय कारुण्यात् भगवान् परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति ॥ २५ ॥
अभिलषति हि कश्चित् बुद्धान्तरं वशीकर्तुम् , तद्विषयं च व्याप्तुम् । अनियतत्वादिच्छायाः । बुद्धान्तरावशीकरणे च। सर्ववशित्वं ही(नी)येत ॥
अथ चेदुच्येत, बुद्धान्तरस्याननुग्राह्मत्वाद्रागाद्यभावाच तद्विषयव्याप्तावनभिलाष इति-अत्रोच्यते-यथैव प्राप्तबुद्धत्वस्य कंचित्कालमवस्थानमभिलाषपूर्वकम्, तथा बुद्धान्तरकालावस्थानाभिलाषेणावश्यं भवितव्यम् ।
अनुग्राह्यप्राण्यन्तरभावाच्च कालान्तरावस्थानाभिलाषेण युक्तं भवितुम् । न च भविष्यता बुद्धेन सर्वे प्राणभृतोऽनुग्रहीष्यन्ते ॥
बुद्धत्वस्य च दुःखाद्यात्मकत्वेऽपि प्राण्यनुग्रहार्थत्वाद्बुद्धस्थितेः कालान्तरावस्थानेच्छया भवितव्यमेव । सिद्धेश्च प्रागविद्यादिपरामर्शात्, बुद्धस्वरूपस्य च दुःखशून्याद्यात्मकत्वस्य तैरभ्युपेतत्वातू, बुद्धार्षभाद्यन्यतीर्थ करणात्[करात्]निरतिशयशक्तिज्ञानैश्वर्यानुपपत्तिः ||
कालानवच्छेदात्तु नैते दोषा अस्मदीश्वरे क्रमन्ते । शक्तिज्ञानैश्वर्याणां तु निरवधिकत्वानुमानात् सातिशयत्वानवस्थितत्वादिदोषः नात्माकाशादीनामिवातिशङ्कर्नायः ॥
तथा च दर्शयति--सामान्यमात्रोपसंहारे कृतोपक्षयमनुमानम् इति । निरतिशयशक्तिज्ञानैश्वर्येयुक्तपुरुषविशेषसत्त्वसामान्यमात्रोपसंहारे कृतोपक्षयं कृत उपक्षयो यस्यानुमानस्य तत्कृतोपक्षयं सातिशयत्वादिति । तदुक्तमनुमाने--यत्र प्राप्तिस्तत्र गतिमात्रमिति । तस्मान्नेश्वरसंज्ञागुणादिविशेषाणां सतामपि प्रतिपादने समर्थम् । सामान्यमात्रोपसंहारपरत्वात् ॥
तदेतदुक्तं भवति । यदैवं सतामपि गुणानां सामान्यप्रतिपादनकृतक्षयत्वान्न प्रतिपादकमनुमानम्, किमङ्ग पुनरत्यन्तासम्भाव्यमानसन्निधीनामनुमेयधर्मविरुद्धानामशक्त्यज्ञानधर्माधर्मानैश्वर्यादीनां [न]तत्प्रत्यायकमिति ॥
अत एव च विरुद्धप्रतिसाधनानुपपत्तिः । सर्वज्ञास्तित्वानुमानवत् प्रथमं तदभावप्रतिपादकानुमानाप्रवृत्तेः । न ह्यनुमानस्य परोक्त्युदीक्षाधर्मत्वमस्ति । न हि धूमदर्शनेनाग्न्यनुमाने वक्त्रन्तरोक्तिरुदीक्ष्यते |
न च स्वयमेव सर्वज्ञास्तित्वं नास्तित्वं वा बुद्धि(प्रति)पूर्वमाशङ्क्यते । घटादिवत् सर्वज्ञसद्भावस्य स्वयमनभ्युपगमात् । न ह्यनिर्धारितशशिस्वरूपः शशे विषाणमस्ति नास्तीति कश्चिदाशङ्कते |
परवाक्यात् प्रतिपद्याशङ्कत इति चेत्-परेणापि कथमप्रसिद्धेश्वरसद्भावनाशङ्कितमिति वक्तव्यम् । अथ परस्य भ्रान्तिरिति चेत्-न सामान्यानुपलम्भे भ्रान्तिकारणमस्ति । न हि शुक्तिकायां पिकभ्रमः कस्यचिदुपजायते । तस्मादाह-संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या इति । वेदेतिहासपुराणयोगधर्मशास्त्राद्यागमतः पर्यन्वेष्या ।
तस्यात्मानुग्रहाभावेऽपि तस्यात्मार्थमवाप्तव्याभावात् भूतानां चाविद्यापङ्कनिमग्रानां संसारसागरोत्तरणोपायप्लवोपदेष्ट्रन्तरस्याभावात् तदनुग्रहः प्रयोजनम् । ज्ञानधर्मोपदेशेन येऽनन्यशरणास्तस्मिन् सर्वात्मना निवेदितात्मानस्तान् कल्पप्रलयमहाप्रलयेषु ईश्वरानुगृहीतागमज्ञानविशेषेष्वाचार्येषु प्रलीनेषु पुनःपुनर्जातकारुण्यामृतः सन् उद्धरिष्यामीति प्रवर्तत इति वाक्यशेषः ॥
तथा चोक्तमादिविद्वानिति-आदौ विद्वान् आदिविद्वान् रजस्तमोभ्यामनभिभूतज्ञान इत्यर्थः । ज्ञानधर्मादि वा तत आदीयते इत्यादिः, आदिश्चासौ विद्वांश्च आदिविद्वान् निर्माणचित्तं संकल्पमात्रनिर्मितं योगिचित्तम् आवेशग्रहवदुपदेशनार्थम् अधिष्ठाय भगवान् परमर्षिः परमदर्शन इत्यर्थः । परमत्वं चागमतः । दर्शनार्थस्य वा गत्यर्थस्य वा धातोः ऋषेर्ग्रहणम् । परमर्षिरीश्वर एव कपिलनारायणादिसंज्ञः आसुरये प्रोवाचेति ॥
तस्मात् प्रधानपुरुषव्यतिरिक्तः सर्वप्राणिभावकर्मफलपरिस्फुरणज्ञानात्तदनुग्रहकारणम् ईश्वरः सिद्धः । स प्रकृष्टसत्त्वधनोपादान ईश्वरः कथं कर्ता ? कथं चानुगृह्णाति ? इत्येवमादि न चोदयितव्यम् । आगमतः पर्यन्वेष्या इत्युक्तत्वात् । अनुमानस्य च तद्विषयस्यानुपपत्तिः विशेषसंबन्धाग्रहणादिति ॥ २५ ॥
स एषः—
-