[ भाष्यम् ]
यया परशरीराण्याविशन्ति योगिनः । ततश्च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति ॥ ४३ ॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥
[ भाष्यम् ]
तत्र पार्थिवाः शब्दादयो विशेषाः सहाऽऽकारादिभिर्धर्मैः स्थूलशब्देन परिभाषिताः । एतद्भूतानां प्रथमं रूपम् ।
[ विवरणम् ] यया महाविदेहया परशरीराण्याविशन्ति योगिनः । ततश्च धारणातः महा
विदेहातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति ॥ ४३ ॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः । स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश्चार्थवत्त्वं चेत्येवमेकैकं भूतं पञ्चात्मकम् । तत्र पार्थिवाः शब्दादयः शब्दस्पर्शरूपरसगन्धाः विशेषाः पञ्चलक्षणतन्मात्रारब्धत्वात् पृथिव्याः । सह आकारादिभिः । पृथिव्यास्तावदाकारादयः— आकारो गौरवं रौक्ष्यं चेरणं स्थैर्यमेव च ।
स्थितिभेदः क्षमा कार्ष्ण्यं काठिन्यं सर्वभोग्यता ॥ इति ॥
तथा—स्नेहप्रभासौक्ष्म्यमार्दवगौरवरक्षापवित्रत्वसन्धानादय औदका गुणाः ॥ तथा—तैजसाः ऊर्ध्वभाक्त्वपावनतादग्धृत्वपाचकत्वलाघवभास्वरत्वादयः ॥ तथा—वायवीयाः तिर्यग्यानपवित्रत्वाक्षेपबलनोदनत्वादयः ॥ तथा—नाभसाः सर्वगत्यव्यूहविष्टम्भाः ॥ तदेतैः आकारादिभिः सह शब्दादयो विशेषाः स्थूलशब्देन संव्यवहारार्थं शास्त्रे परिभाषिताः । एवमाप्याश्चत्वारो रसादयो विशेषाः सौक्ष्म्यादिभिः सह, एवं तैजसा रूपादयस्त्रयो विशेषा ऊर्ध्वभाक्त्वादिभिः सह स्थूला उच्यन्ते । तथा वायवीयाः शब्दस्पर्शतिर्यक्पातादयः स्थूला विशेषाः । एवमाकाशस्य सर्वगतत्वादयः स्थूला विशेषाः । तत् एतत् भूतानां प्रथमं स्थूलं रूपं उक्तम् ॥ 38
[ भाष्यम् ] द्वितीयं रूपं ¹सामान्यं मूर्तिर्भूमिः स्नेहो जलं वह्निरुष्णता वायुः ²प्रणामित्वं सर्वतोगतिराकाश इत्येतत्स्वरूपशब्देनोच्यते ॥
- तस्य सामान्यस्य शब्दादयो विशेषाः । तथा चोक्तम्—एकजातिसमन्वितानामेषां धर्ममात्रव्यावृत्तिरिति ॥
सामान्यविशेषसमुदायोऽत्र द्रव्यम् । द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवः शरीरं वृक्षो यूथं वनमिति ॥ शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः । समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस्ताभ्यामेवाभिधीयते समूहः ॥
[ विवरणम् ] द्वितीयम् अधुना स्वरूपम् उच्यते । तच्च सामान्यं पार्थिवेषु भिन्नेष्वभिन्नमनुगतं मूर्तिरेव भूमिः इति । तथा रसादिष्वाप्येष्वनुगतं सामान्यं स्नेह एव जलम् इति । तथैवाग्नयेषु रूपादिष्वनुगतं सामान्यं वह्निरुष्णत्वमेव । तथा स्पर्शतिर्यक्पातादिष्वनुगतं सामान्यं प्रणामित्व⁵मेव वायुः । तथा शब्दादिष्वनुगतं सामान्यं सर्वतोगतिरेव आकाशः, इत्येतत् स्वरूपशब्देनोक्तं द्वितीयं रूपम् ॥ तस्य सामान्यस्य रूपस्य शब्दादयो विशेषाः । तथा चोक्तम्—एकजातिसमन्वितानां सत्त्वादिगुणसमनुगतानाम् एषां भूतानां पृथिव्यादीन सामान्यानां शब्दादिधर्ममात्रं व्यावर्तते ॥
सामान्यविशेषसमुदायो द्रव्यम् । कस्मात् ? द्विष्ठो हि समूहः द्वाभ्यां प्रकाराभ्यां स्थितो द्विष्ठः प्रत्यस्तमितभेदावयवः व्यावृत्तप्रत्ययशून्य इत्यर्थः । यथा शरीरं वृक्षो यूथं वनमिति ॥ उपात्तभेदावयवानुगतः आगृहीतभेदावयवानुगतः समूहः उभयशब्देनोपादीयते । उभये देवमनुष्या इति । तद्यथा—समूहस्य देवा एको भागः, मनुष्या एको भागः । ताभ्यामेव भागाभ्यामागृहीतयथास्वभेदानुगताभ्याम् अभिधीयते समूहः उभये इति ॥
[ भाष्यम् ] ¹भेदाभेदो विवक्षितः । आम्राणां वनं ब्राह्मणानां संघ आम्रवणं ब्राह्मणसंघ इति ॥
स पुनर्द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च । युतसिद्धावयवः समूहो वनं संघ इति । अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुरिति । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तम् ॥ अथ किमेषां सूक्ष्मरूपम् ? तन्मात्रं भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राण्येतत्तृतीयम् । [ विवरणम् ] तयोः भेदाभेदो विवक्षितः आम्राणां वनम् इति । आम्राणामिति भेदेन विवक्षा । वनमित्यभेदेन । ताभ्यां द्वाभ्यां भेदाभेदाभ्याम् । आम्राणां वनमिति षष्ठी प्रथमा । तद्द्वयोर्विवक्षित एकः समूह इति ॥ स पुनर्द्विविधः समूहः—युतसिद्धावयवोऽयुतसिद्धावयवश्च । युतसिद्धावयवः पृथक्सिद्धावयवः समूहो वनं सङ्घ इति । अयुतसिद्धावयवः अपृथक्सिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति ॥ परमाणूनामपि सावयवत्वं सत्त्वादिकार्यत्वात् मूर्तत्वाच्च घटादिवदेव । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तं सामान्यविशेषात्मकम् ॥ अथ किमेषां सूक्ष्मं रूपम् इति । तन्मात्रं भूतकारणम् । अनेकपरमाणुप्रारब्धत्वात् तस्य तन्मात्रस्य एकोऽवयवः परमाणुः । सोऽपि सामान्यविशेषात्मा अयुतसिद्धावयवभेदानुगतः समुदाय इति । एवं सर्वतन्मात्राणि । ततश्च तन्मात्राणि विशेषविनिर्मुक्तानि तदवयवाश्च परमाणव इति एतत् भूतानां तृतीयं सूक्ष्माख्यं रूपं संयमस्य विषय इति । तन्मात्रारब्धत्वाच्च सावयवमाकाशमनित्यं च । न च शब्दव्यतिरेकेण आकाशं नाम द्रव्यम् उपलब्धुं शक्यम् । धर्मधर्मिणोरभेदात् ॥
अथ भूतानां चतुर्थं रूपं—ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वरूपानुपातिनोऽन्वयशब्देनोक्ताः ।
ननु च केशादीनां कृष्णिमाऽप्यपैति, शुक्लिमा समुपजायते । तथा च अपायोपजनधर्माणः कृष्णिमादयः ते गुणाः । यत्तु न कृष्णिमानमनु विनश्यति, शुक्लिमानमन्वेति, तत् द्रव्यम् । एवम् आकाशादीनामपि गुणव्यतिरेकेण सद्भावः; शब्दप्रत्ययादिभेदात् इति ॥
न—दृष्टान्ताभावात् । ते एव कृष्णाः शुक्लाश्च केशाः कृष्णशुक्लत्वादिधर्मैः परिणमन्ते । सर्वं हि सर्वात्मकमित्युक्तम् । न खलु क्वचिदपि कूटस्थे आश्रये गुणाः शुक्लत्वादयः अपायोपजनवन्त उपलभ्यन्ते । न च कृष्णत्वादिव्यपनयनेन द्रव्यस्वरूपम् । यदपि—दर्शनस्पर्शनाभ्यां यदुपलभ्यते तत् द्रव्यम् इति, तदप्ययुतसिद्धरूपस्पर्शसमुदायत्वादुभाभ्यां दर्शनस्पर्शनाभ्यां गृह्यत इत्यदोषः ॥
ननु च न रूपं स्पर्शनेन गृह्यते, नापि दर्शनेन स्पर्शः, यदुभाभ्यां गृह्यते ‘यत् पश्यामि तदेव स्पृशामी’ति तद्द्रव्यम् । यत्तु चक्षुषैव गृह्यते स्पर्शनेनैव च गृह्यते स गुण इति ॥
न—माषतिलयवादिभिन्नजातिविमिश्रराशावनैकन्तिकत्वात् । गृह्यते च दर्शनस्पर्शनाभ्यां राशिः । किं च—दर्शनस्पर्शने गुणस्यैव ग्राहके, बाह्येन्द्रियत्वात्, श्रोत्रवत् । न हि जातिरपि गुणव्यतिरिक्ता विद्यते भेदेनाग्रहणात् ॥
किं च, घटादावपि परस्पराध्यासेन दर्शनस्पर्शनाभ्यां रूपस्पर्शयोरेव ग्रहणम् । यथेदं रूपं दुर्गन्धि सुरभिगन्धि चेति । तस्मादाकाशमपि तन्मात्रारब्धं शब्दव्यतिरेकेणाशक्यं प्रतिपत्तुमिति सावयवमनित्यं च ॥
अथ भूतानां चतुर्थं रूपम् । ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वरूपानुपातिनः कार्यधर्मानुयायिनः अन्वयशब्देनोक्ताः । अनुगमात् । तदेतद्भूतानां चतुर्थं रूपं संयमस्य गुणान्वयाख्यो विषयः ॥
अथैषां पञ्चमं रूपमर्थवत्त्वं, भोगापवर्गार्थता, गुणेष्वन्वयिनी, गुणास्तन्मात्रभूतभौतिकेष्विति सर्वमर्थवत् । तेष्विदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात्तस्य तस्य रूपस्य स्वरूपदर्शनं जयश्च प्रादुर्भवति । तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति । तज्जयाद्वत्सानुसारिण्य इव गावोऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति ॥ ४४ ॥