साधनपादः · २.२६

विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥

व्यासभाष्यम्

 सत्त्वपुरुषान्यताप्रत्ययो विवेकख्यातिः । सा तु अनिवृत्तमिथ्याज्ञाना प्लवते । यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते, तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति ।

विवरणम्

  ननु च अनियतविपाकस्य कर्मणः सद्भावे कथं हानं स्यात् ? पुनरनियतविपाककर्मणा शरीरस्यारम्भ इति । न—अभिहितप्रतिविधानत्वात् । सम्यग्दर्शनेन क्लेशबीजस्य दाहात् कर्मणामनारम्भकत्वमुक्तं दग्धबीजभावापनीततुषशालितण्डुलनिदर्शनेन । तस्मात् न विदुषः कारणाभावाच्छरीरारम्भः ॥ २५ ॥

 उक्तस्तृतीयो व्यूहः—आरोग्यस्थानीयो हानं नाम । अधुना चतुर्थं व्यूहं भैषज्यस्थानीयमुपाचिख्यासन्नाह—हानस्य कः प्राप्त्युपायः ? इति ॥

 ननु च कथं हानस्य प्राप्त्युपाय इति ? यावता नैव हानमवस्तुत्वात् प्राप्यम् । बन्धनोपरम एव हि हानम् । नैष दोषः । यत्नसाध्यत्वादविद्यानिवृत्तेः यथा निगलभेदः । सम्यक्ख्यातौ सत्यामविद्यानिवृत्तिरिति हानमवस्त्वपि प्राप्यमित्युपचर्यते ॥

 विवेकख्यातिरविप्लवा हानोपायः । का पुनर्विवेकख्यातिरित्याह—सत्त्वपुरुषान्यताप्रत्ययः सत्त्वपुरुषयोः साधर्म्यवैधर्म्ययाथात्म्यावबोध इत्यर्थः । सा तु विवेकख्यातिः अनिवृत्तमिथ्याज्ञाना विप्लवते न स्थिरीभवति, न कार्यक्षमेति ॥

 तथा चोक्तम्—“यथा हेमाविपक्वं न विराजते ।  तथाऽपक्वकषायस्य विज्ञानं न प्रकाशते ॥”  तथा “कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः” । इति ॥

 यदा तु मिथ्याज्ञानं दग्धबीजभावं दग्धबीजत्वादेव वन्ध्यप्रसवं कार्यारम्भाक्षमं सम्पद्यते, तदा विधूतक्लेशरजसः क्लेशा एव रजः विधूतं यस्य तद्विधूतक्लेशरजः तस्य सत्त्वस्य रागादिमलाकलङ्कितस्य परस्यां वशीकारसंज्ञायां वर्तमानस्य ज्ञानप्रसादमात्रे वर्तमानस्य । तदेवानुवदति—विवेकप्रत्ययप्रवाहः विवेकज्ञाननिरन्तरभावः निर्मलो भवति ॥

[ भाष्यम् ]

 सा विवेकख्यातिरविप्लवा हानोपायः । ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो हानस्योपाय इति ॥ २६ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →