कैवल्यपादः · ४.१३

ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥

व्यासभाष्यम्

ते खल्वमी त्र्यध्वानो धर्मा वर्तमाना व्यक्तात्मनोऽतीतानागताः सूक्ष्मात्मानः षडविशेषरूपाः ।

विवरणम्

 अथोपचारात् सिद्धकपालावस्था अवयवा भविष्यति घटो भूतो घट इति चापदिश्येरन् सम्बन्धात्, तद्यथा—अन्नं प्राणा इति, अत्रापि यथा कुलालचक्रदण्डसूत्रादिषु घटो नास्ति, तथा पिण्डकपालेष्वपीति तदभावाविशेषे च कपालेषु घटोऽतीत इति व्यपदेशो न कुलालादिष्विति नियमानुपपत्तिः ॥

 न चापि विद्यमानानां साधनानां घटादिनिष्पादिनामप्यविद्यमानैरुत्पाद्यैर्घटादिभिः सम्बन्ध उपपद्यते । न चासति सम्बन्धे घटोत्पादनाभिप्रायेण कारकप्रवृत्तिः ॥

 अथायुतसिद्धः समवायलक्षणः सम्बन्धो जन्यानां कारणानां च न प्रतिषिध्यत इति चेत्—न—युतसिद्धायुतसिद्धत्वस्य समानकालभाविनां वस्तूनां दर्शनात् । न भावाभावयोः क्वचिदपि युतसिद्धत्वमयुतसिद्धत्वं वा दृश्यते ॥

 तस्माज्जन्यजनकानामपि सम्बन्धाभ्युपगमाद्विद्यमानत्वमेवेति, उत्पत्तेः प्रागूर्ध्वं च विद्यते कार्यम्, वस्त्वन्तरसम्बन्धात्, प्रसिद्धघटादिवत् । उपलभ्यमानत्वादुपलब्धत्वाच्च, अपवरकस्थघटादिवत् । उद्दिश्य कर्त्रा प्राप्यत्वात्, देशान्तरवत् । तथा कर्तृव्यापारप्राप्यत्वाच्चेति ॥

 किं च, न लौकिका अतीतानागतशब्दाभ्यां गगनकमलिनीवदविद्यमानमर्थ प्रतियन्ति प्रतिपादयन्ति वा । तस्मादतीतमनागतं च स्वरूपतो विद्यत एव । नाभूत्वा भावस्त्रयाणामध्वनाम् । किं तर्हि ? विद्यमानानामेवाभिव्यक्तिः ॥

 तस्माद्व्यक्तिरूपेण वासनानामत्यन्तविनिवृत्तिः । गुणरूपेण तु सतीनामपि कार्यासमर्थत्वान्न कैवल्याभावदोषः । नापि सिद्धान्तविरोधः ॥ १२ ॥

 अतीतानागतवर्तमानधर्माः केन पुना रूपेण सन्तीति तत्प्रतिपादनार्थमाह— ते व्यक्तसूक्ष्मा गुणात्मानः । ते खल्वमी त्र्यध्वानः अतीतानागतवर्तमानाध्वत्रयोपारूढाः धर्माः वर्तमानाः वर्तमानलक्षणोपारूढाः व्यक्तात्मानः

43
व्यासभाष्यम्

 सर्वमिदं गुणानां संनिवेशविशेषमात्रमिति परमार्थतो गुणात्मानः । तथा च शास्त्रानुशासनम्—

  “गुणानां परमं रूपं न दृष्टिपथमृच्छति ।

  यत्तु दृष्टिपथं प्राप्तं तन्मायेव सुतुच्छकम्” इति ॥ १३ ॥ यदा तु सर्वे गुणाः, कथमेकः शब्द एकमिन्द्रियमिति—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →