साधनपादः · २.१९

 विशेषाविशेषलिङ्गमात्रालिङ्गा गुणपर्वाणः ॥ १९ ॥

व्यासभाष्यम्

 तत्र आकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि, एकादशं मनः सर्वार्थम्, इत्येतान्यस्मितालक्षणस्याविशेषस्य विशेषाः ।

विवरणम्

ग्रहणं शब्दादीनां श्रोत्रादिभिरुपादानम् । गृहीतानामविस्मरणं धारणम् । धारितस्य सामान्यविशेषावधारणं विज्ञानम् । विज्ञातस्यैव पुनस्तद्गतविशेषावबुभुत्सयोहनमूहः । ऊहितस्य विरुद्धानां धर्माणां व्युदसनमपोहः । विषयेषु प्रवृत्तिः क्रिया । वाक्यविषयो वृत्तिविशेषश्चित्तस्य वचनम् । यो यो न्यायो यथान्यायं यस्य च वस्तुनो यथैवोपपत्तिस्तथैवावधारणं यथान्यायावधारणम् । तत्र पुनः पुनः सम्यक्प्रत्ययाविचलनाय यश्चित्तस्याभियोगः सोऽभिनिवेशः । त एते ग्रहणादयः पुरुषेऽध्यारोपितसद्भावाः । स हि तत्फलस्य भोक्तेति ग्रहणादिफलस्योपलब्धेति ॥ १८ ॥

 दृश्यानां गुणानां यथाव्याख्यातात्मनां स्वरूपभेदावधारणार्थं तत्त्वावस्थाभेदावधारणार्थमिदं सूत्रमारभ्यते—विशेषाविशेषलिङ्गमात्रालिङ्गा गुणपर्वाणः । विशेषाश्चाविशेषाश्च लिङ्गमात्रं चालिङ्गश्च, न लिङ्गति, कुतश्चिन्नागच्छति प्रधानाख्योऽर्थ इति पचाद्यच् सर्वधातुभ्य इति यौगिकस्सन्नभिधेयलिङ्गं भजते । यो हि चिह्नपर्यायो लिङ्गशब्दः स नपुंसकलिङ्गः । स च करणसाधन इति । अथ वा लिङ्गं न विद्यते, लिङ्गमवगमनं परिच्छेदः प्रत्यक्षेण प्रधानाख्यस्यार्थस्यासावलिङ्गः इति बहुव्रीहिः ॥

 ते च विशेषादयः पुरुषाभिप्रायं पालयन्ति भोगापवर्गप्रदानेन, पूरयन्ति वा विकारान् स्वानिति पिपर्तेः 'अन्येभ्योऽपि दृश्यन्ते' इति कर्तरि वनिप्रत्ययः । तथा च सति यन्नान्तमकर्तरि तन्नपुंसकम् । यत्तु नान्तं कर्तरि तत्सर्वलिङ्गं

साधनपादो द्वितीयः १८३

भवति । यथा मेरुदृश्वा मेरुदृश्वनीति । ततश्च विशेषादयः पर्वणः । केषां ते सम्बन्धिन इति ? गुणानां पर्वणो गुणपर्वाणः । केषांचिदयमेव पाठे—विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणीति ॥

 तत्राकाशवाय्वग्निजलभूमयो भूतानि । शब्दतन्मात्रारब्धमाकाशम् । स्पर्शतन्मात्रेण शब्दस्पर्शलक्षणेनारब्धो वायुः । रूपतन्मात्रेण शब्दस्पर्शरूपलक्षणेनारब्धोऽग्निः । रसतन्मात्रेण शब्दस्पर्शरूपरसचतुष्टयलक्षणेनाऽऽप आरब्धाः । गन्धतन्मात्रेण शब्दस्पर्शरूपरसगन्धपञ्चतयलक्षणेन भूमिरारब्धा ॥

 ननु च नित्यमाकाशम्, प्रागुत्पत्तेर्विनाशकालं च विशेषाभावात् । यो य उत्पत्तिमांस्तस्य तस्य पृथिव्यादेः प्रागुत्पत्तेर्विनाशोत्तरकालं च विशेषो दृष्टः । तथा आकाशं यद्युत्पत्तिमत् स्यात् प्रागुत्पत्तेर्विनाशोत्तरकालं च भवेद्विशेषः । न च सोऽस्ति । तस्मादाकाशमनुत्पत्तिकम् ॥

 अथावकाशदानाभावो विशेष इति चेन्न, मूर्तिमतोऽन्यस्याभावात्तुल्यं नित्यत्वेऽपि । अनित्यलक्षणाभावाच्च नित्यमाकाशम्, सर्वगतत्वादात्मादिवत् ॥

 न—आगमविरोधात् । ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यागमविरोधः । स्मृतिविरोधश्च । अवकाशं कुर्वति तदुपचार इति चेन्न, वाय्वादिष्वप्युपचारप्रसङ्गात् । आकाशाद्वायुः सम्भूत इत्येकवाक्यत्वात् ॥

 प्रागुत्पत्तेर्विशेषाभावादनित्यो न भवतीति च ब्रुवता विशेषाभावान्नित्यत्वमित्युक्तं भवति । विशेषभावाच्चानित्यत्वमित्युक्तं भवति । तथा च सत्यात्मादीनामपि बन्धमोक्षोपलब्ध्यनुपलब्ध्यादिविशेषाभावात् सतो वैशेषिकस्य अनित्यत्वप्रसङ्गः । तथा, परमाण्वादीनां चानित्यत्वं प्रसज्येत ॥

 अथाप्युत्पत्तिमत एव प्रागूर्ध्वं च विशेषभावाभावौ विवक्षिताविति चेत्—न—आकाशस्योत्पत्त्यभ्युपगमप्रसङ्गात् । अथाकाशोत्पत्तिवादिना विशेषो वक्तुं न शक्यत इति चेत्—न—पुरुषार्थसाधनासाधनत्वविशेषात् । सर्वगतत्वादिति चासिद्धो हेतुः ॥

 असर्वगतानि कालदिगाकाशमनांस्यनित्यानि च, स्वार्थाभावे परार्थत्वात्, घटादिवत् । उत्पत्तिमन्ति च, प्रधानपुरुषाभ्यामन्यत्वात्, घटादिवत् । एवमाकाशं [उत्पत्तिमदनित्यं च] बाह्येन्द्रियविषयगुणत्वात्, घटादिवत् । भूतत्वाच्च, पृथिवीवत् । अनित्यद्रव्यसंयोगोत्पाद्यगुणत्वात्, पृथिव्यादिवत् । चिकित्सानिवर्त्यप्रकोपकरत्वात्, वायुवत् । नभसश्च प्रकोपश्चिकित्सानिवर्तनीयश्चिकित्सकप्रसिद्धिमुपारूढः । एतेनानित्यसाधर्म्यं व्याख्यातम् ॥

 एतानि च भूतानि शब्दस्पर्शरूपरसगन्धतन्मात्राणामविशेषाणां विशेषाः । शान्तघोरमूढाद्यनेकविशेषवत्त्वाद्विशेषाः । शान्ताद्यभावाच्चाविशेषाः तन्मात्राणि ॥

तथा श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि, शब्दादिविषयबुद्ध्यर्थत्वाद्बुद्धीन्द्रियाणि स्वविषयबुद्धिभिरेवानुमितानि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि वचनादिक्रियानिर्वर्तकानि तदनुमितान्येव । न वागादीनि कर्मेन्द्रियाणि सिद्धानीति चेन्न, श्रुतिप्रसिद्धत्वात् । इन्द्रियाणि प्रकृत्य ‘सर्वेषां वेदानां वागेकायनम्’ इत्यादिश्रुतेः ॥

 स्मृतिषु च सर्वत्रैव विधिप्रतिषेधविषयप्रवृत्तिनिवृत्तिमत्त्वाच्च श्रोत्रादिवदिन्द्रियत्वम् । ‘न वाक्चपलो न पाणिपादचपलः’ इत्यादेर्विधिप्रतिषेधविषयप्रवृत्तिनिवृत्तिमत्त्वसिद्धिः ॥

 तथा, वागादीनीन्द्रियाणि, कौशलवत्त्वात्, चक्षुरादिवत् । सर्वगात्रेषु चेन्द्रियशक्तिः करणवृत्त्याः सन्दर्शनादिष्यत एव । वाग्गुदप्रभृतीनां सर्पादीनां

  • मूकषण्डानां च मुखमेवोपस्थेन्द्रियम् । एकादशं मनः सर्वार्थमतीतानागतवर्तमानविषयार्थं बुद्धीन्द्रियकर्मेन्द्रियविषयार्थं च ॥

 एतान्येकादशेन्द्रियाण्यस्मितालक्षणस्य अस्मिभावोऽस्मिता अस्मीति प्रत्ययः, स च लक्षणं यस्य सोऽस्मितालक्षणोऽस्मिताप्रत्ययेन हि लक्ष्यते लिङ्ग्यते षष्ठमविशेषाख्यं तत्त्वमहङ्कारः । तस्याविशेषस्य विशेषा एतानि ॥

 गुणानामविशेषाकारसंस्थितानां सत्त्वादीनामेष षोडशको विशेषपरिणामः सत्त्वबहुलमाकाशं, रजोबहुलो वायुः, सत्त्वरजोबहुलोऽग्निः, [जलं च] । सत्त्वतमोबहुला पृथिवी, ग्राह्यत्वात् । तामसत्वेऽप्येषां गुणप्रधानकृतो विशेषः ।

 1. बृ. उप. 2. 4. 11.
व्यासभाष्यम्

 गुणानामेष षोडशको विशेषपरिणामः ॥

 षडविशेषाः । तद्यथा—शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति एकद्वित्रिचतुःपञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः । षष्ठश्चाविशेषोऽस्मितामात्र इति ॥

 एते सत्तामात्रस्यात्मनो महतः षडविशेषपरिणामाः, यत्तत्परमविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वं, तस्मिन्नेते सत्तामात्रे महत्यात्मन्यवस्थाय विवृद्धिकाष्ठामनुभवन्ति ॥

 प्रतिसंसृज्यमानाश्च तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय यत्तन्निस्सत्तासत्तं निस्सदसन्निरसदव्यक्तमलिङ्गं प्रधानं, तत्प्रति यान्ति ।

विवरणम्

करणानि प्रकाशत्वात् सत्त्वबहुलानि, मनःषष्ठानि तु बुद्धीन्द्रियाणि प्रकाशप्राधान्यात् सत्त्वबहुलानि । कर्मेन्द्रियाणि क्रियाप्राधान्याद्रजोबहुलानि ॥

 षडविशेषाः । तद्यथा शब्दमात्रं स्पर्शमात्रमिति द्विलक्षणस्यापि प्रधानेन व्यपदेशः । तथा रूपमात्रमिति त्रिलक्षणस्यापि प्रधानेन व्यपदेशः । तथोत्तरयोरपि मात्रशब्दः शान्तघोरादिविशेषव्यावर्तनार्थः । एकद्वित्रिचतुःपञ्चलक्षणभेदाः शब्दतत्त्वैकलक्षणः शब्दतन्मात्रभेदः । शब्दस्पर्शलक्षणः स्पर्शतन्मात्रभेदः, इत्येवमेकैकाधिक्येनोत्तरत्रापि द्रष्टव्यम् । षष्ठश्चाविशेषोऽस्मितामात्रः । शब्दादितन्मात्रापेक्षया षष्ठ इन्द्रियाणामेकादशानामविशेषः ॥

 एते सत्त्वमात्रस्यास्तित्वमात्रस्य लिङ्गमात्रस्य मूर्तिमात्रस्य, प्रधानस्यामूर्तस्य प्रथमा मूर्तिरियं यथा बीजस्याङ्कुरीभावः । आत्मनो वस्तुरूपस्य महतः सर्वविशेषाविशेषेभ्यो महत्त्वात् षडविशेषपरिणामाः षडविशेषा एव परिणामाः सत्त्वादीनां महद्रूपावस्थितानाममी अविशेषपरिणामाः ॥

 यत्तत्परं सूक्ष्ममविशेषेभ्यो लिङ्गमात्रं महत्तत्त्वम्, तस्मिन्नेते सत्तामात्रे महत्त्वान्महत्यवस्थाय कारणस्वरूपे महत्यवस्थाय विवृद्धिकाष्ठां पृथिव्यादिविशेषान्ततामनुभवन्ति ॥

 24
व्यासभाष्यम्

एष तेषां लिङ्गमात्रः परिणामो निस्सत्तासत्तं चालिङ्गपरिणाम इति ॥

 अलिङ्गावस्थायां न पुरुषार्थो हेतुः; नालिङ्गावस्थायामादौ पुरुषार्थता कारणं भवतीति । न तस्याः पुरुषार्थता कारणं भवतीति । नासौ पुरुषार्थकृतेति नित्या आख्यायते ॥

 त्रयाणां त्ववस्थाविशेषाणामादौ पुरुषार्थता कारणं भवति । स चार्थो हेतुर्निमित्तं कारणं भवतीत्यनित्या आख्यायते ॥

 गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते । व्यक्तिभिरेवातीतानागतव्ययागमवतीभिर्गुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते । यथा देवदत्तो दरिद्राति । कस्मात् ? यतोऽस्य म्रियन्ते गाव इति । गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः ॥

विवरणम्

 प्रतिसंसृज्यमानाश्च प्रतिलीयमानाश्चाविशेषाः तस्मिन्नेव सत्तामात्रे लिङ्गमात्रे महत्यात्मन्यवस्थायाव्यक्तं प्रति यान्ति । किंविशिष्टम् ? निस्सत्तासत्तं विशेषाविशेषधर्मरहितम् । निस्सदसदिति अव्यक्तादीषद्विकृतमिति सत्, अविशेषेभ्यः सूक्ष्मतरमिति चासत्, सच्चासच्च सदसदिति महत्तत्त्वमुच्यते । तद्धर्मरहितमव्यक्तं निस्सदसदिति ॥

 एष तेषां गुणानां सत्त्वादीनां लिङ्गमात्रः परिणामः यस्मिन्नवस्थाय विवृद्धिकाष्ठां प्रतिलयं च प्रतियान्त्यविशेषाः । निस्सत्तासत्तं चाव्यक्तं च यत् स तेषामेव गुणानामलिङ्गपरिणामः । परश्च न सूक्ष्मोऽवस्थान्तरपरिणामोऽस्ति गुणानाम् । ‘सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्’ इति हि व्याख्यातम् ॥

 अलिङ्गत्वादेवालिङ्गावस्थायां न पुरुषार्थो हेतुः । अलिङ्गावस्थानिमित्तं न पुरुषार्थो हेतुः । नालिङ्गावस्था पुरुषार्थप्रयुक्तेत्यर्थः । तदेतत् व्याचष्टे— नालिङ्गावस्थायामादौ पुरुषार्थता कारणम् । कस्मात् पुनस्तदवस्था पुरुषार्थप्रयुक्ता न भवतीति ? तत आह—यस्मान्नास्यां पुरुषार्थता कारणं विद्यते । स्वयमपि नासौ पुरुषार्थता महदादिवदसंवेद्यत्वादीश्वराणामपि ॥

 १. या.सू. पा. १. सू. 45.
व्यासभाष्यम्

लिङ्गमात्रमलिङ्गस्य प्रत्यासन्नं, तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः ।

विवरणम्

 यतश्चैतदेवं तस्मान्नित्या व्याख्यायते। यो हि पुरुषार्थप्रयुक्तः सोऽनित्यो दृष्टो यथा पृथिव्यादिः । न चैषा प्रधानावस्था पुरुषार्थप्रयुक्तेति नित्या व्याख्यायते ॥

त्रयाणां त्ववस्थाविशेषाणां विशेषाविशेषलिङ्गमात्राणामादौ पुरुषार्थता महदाद्यवस्था पुरुषार्थप्रयुक्ता । स चार्थः स च पुरुषार्थो हेतुर्निमित्तं कारणमित्यनित्या व्याख्यायन्ते महदाद्यास्तिस्रोऽवस्थाः ॥

 गुणास्तु सर्वधर्मानुपातिनः सर्वविकारानुपातिनः । यथा सर्पः प्रांशुत्व- सर्पणकुण्डलत्वादिविशेषानुपाती, तथा विशेषादितत्त्वानुपातिनो गुणाः पिण्डप्रत्ययानुपातिनश्च न प्रलीयन्ते नोपजायन्ते । यथा सर्पः कुण्डलादित्वे प्रलीयमाने न प्रलीयते तदुपजने च नोपजायते तथैव गुणा अपि । यथा च घटपिठरादिषु प्रलीयमानेषु जायमानेषु च मृन्न प्रलीयते नापि जायते ॥

 गुणा व्यक्तिभिरेव धर्मैरेवातीतानागतव्ययागमवतीभिस्त्रिलक्षणा- भिर्गुणान्वयिनीभिर्गुणोपादानकारणाभिरुपजननापायधर्मका इवोत्पत्तिप्रलयवन्त इव प्रत्यवभासन्ते न स्वरूपेण विनश्यन्ति जायन्ते वा ॥

 एतस्यैवार्थस्य दृष्टान्तमाह—यथा देवदत्तो दरिद्राति । कस्मात् ? येनास्य म्रियन्ते गाव इति । गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहानादिति समः समाधिः तुल्यश्चेति दृष्टान्तेन दार्ष्टान्तिकस्य देवदत्तदरिद्राणवदेव गुणानुगताभिर्व्यक्तिभिर्महदादिभिर्गुणविमर्दनवैचित्र्यकृताभिर्विवर्धमानभिर्गुणाना- माढ्यता तत्प्रलये च तेषां दरिद्राणं, न स्वरूपेणापचय उपचयो वेति तुल्यः समाधिरिति ॥

 सर्वस्य प्रधानकार्यत्वे सति विशेषा अविशेषा वा कस्मादनन्तरं नोपजायन्त इति तदाह—लिङ्गस्यालिङ्गं प्रत्यासन्नं यथा मूलं वृक्षस्य प्रत्यासन्नं

बीजे संसृष्टं मूलमेव प्रथमतरं विविच्यते, न वृक्षस्योत्तरावस्था । एवं तत्र
व्यासभाष्यम्

तथा षडविशेषा लिङ्गमात्रे संसृष्टा विविच्यन्ते परिणामक्रमनियमात् । तथा तेष्वविशेषेषु भूतेन्द्रियाणि संसृष्टानि विविच्यन्ते । तथा चोक्तं पुरस्तात् । न विशेषेभ्यः परं तत्त्वान्तरमस्तीति विशेषाणां नास्ति तत्त्वान्तरपरिणामः । तेषां तु धर्मलक्षणावस्थापरिणामा व्याख्यायिष्यन्ते ॥ १९ ॥

व्यासभाष्यम्

व्याख्यातं दृश्यम् । अथ द्रष्टुः स्वरूपावधारणार्थमिदमारभ्यते—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →