विभूतिपादः · ३.७

 त्रयमन्तरङ्गं पूर्वभ्यः ॥ ७ ॥

व्यासभाष्यम्

 तदेतत् धारणाध्यानसमाधित्रयम् अन्तरङ्गं सम्प्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ॥ ७ ॥

विवरणम्

 अन्येषां व्याख्यानम्—अर्थस्य परचित्तज्ञानादेः । अन्यथैवाधिगतत्वात् आत्माद्युत्तरभूमिसमधिगमनेनैव अधरपरचित्तज्ञानादिभूमेरर्थस्य अधिगतत्वात् इति ॥

 अस्मिन् पक्षे ‘अधरभूमिषु संयमोऽनर्थक’ इति वदितव्यमभविष्यत्, न 'न युक्तः' इति । ‘न युक्त' इत्येतदसमीचीनमिव दृश्यते ॥

भूमेरस्या इयमनन्तरा भूमिः इयमनन्तरं जयनीयेति कथमवभोत्स्यत इत्याह—तत्र योग एवोपाध्यायः । योगः पूर्वभूमौ संयमलाभः । तेनैवानन्तर्यमवगम्यते ॥

 कथम् ? एवं ह्युक्तम्—योगेन योगो ज्ञातव्यः । पूर्वसंयमलाभेन योगेन अनन्तरो योगविषयः प्रज्ञानीयः । स च योगः संयमः, योगात् एव पूर्वसंयमलाभादेव प्रवर्तते विविच्यते ॥

 यथैव जनुषा अन्धकस्य सोपानपङ्क्तिमारुरुक्षतः प्रथमसोपानप्रतिलब्धपदस्पर्शप्रत्ययेनानन्तरसोपानज्ञानमुपतिष्ठते तथा योगो योगात् प्रवर्तते ॥

 यत एवं तस्मात् स इत्थं जानन् अप्रमत्तस्तु योगी योगेन युक्तः सन् योगेषु योगैश्वर्यफलेषु रमते, चिरम् इति ॥ ६ ॥

 त्रयमन्तरङ्गं पूर्वेभ्यः । धारणाध्यानसमाधित्रयम् अन्तरङ्गं पूर्वेभ्यः पञ्चभ्यः साधनेभ्यः यमादिभ्यः सम्प्रज्ञातस्य योगस्य । तत्रान्तरङ्गग्रहणं पूर्वसाधनासम्पत्तावप्यत्र त्रये आदरः करणीय इत्येवमर्थम् ॥

२३८

पातञ्जलयोगसूत्रभाष्यविवरणे

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →