साधनपादः · २.२

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २ ॥

व्यासभाष्यम्

 स ह्यासेव्यमानः समाधिं भावयति, क्लेशांश्च प्रतनूकरोति । प्रतनूकृतान् क्लेशान् प्रसंख्यानाग्निना दग्धबीजकल्पानप्रसवधर्मिणः करिष्यतीति ।

विवरणम्

नान्तरेण तपः तपसा विना सम्भेदं विनाशम् आपद्यते, असम्भिन्नाशुद्धेश्चित्तस्य कुतः समाधिः इति तत्सम्भेदनाय च तपस उपादानम् । तच्च तपः चित्तप्रसादनं समाध्यन्तरङ्गं अबाधमानमनेनासेव्यमिति योगा मन्यन्ते । चित्तप्रसादार्थत्वात्तपसस्तमेव चेद्बाधेत तादर्थ्यमेव हीयेत ॥ १ ॥

 स हि क्रियायोगः किमर्थं इति तस्य पारार्थ्यप्रतिपादनार्थमाह—समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥

 कथं पुनरुभयार्थत्वमित्याह—स हि आसेव्यमानः समाधिं भावयति । इतरयोगाङ्गसहितः समाधिं भावयति क्लेशांश्च तनूकरोति । वक्ष्यति च—"योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः" इति । तदेतदाह—तनूकृतान्क्लेशान्प्रसंख्यानेन क्लेशतनूकरणात् सञ्जातसम्यग्दर्शनशीलनेन, दग्धबीजकल्पान् बीजानीव दग्धप्रसवशक्तीन्, अत एव अप्रसवधर्मिणः अविद्यमानः प्रसवो येषां ते अप्रसवाः, अप्रसवाश्च ते धर्मिणश्चेत्यप्रसवधर्मिणः, (सर्वबीजादिषु वा द्रष्टव्यम्) तानप्रसवधर्मिणः करिष्यति प्रसवशक्तिरहितान् करिष्यति ॥  तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति ॥ २ ॥

 अथ के ते क्लेशाः ? कियन्तो वा ? इति—

 

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →