मैत्र्यादिषु बलानि ॥ २३ ॥
स एवाग्निः तृणराशौ क्रमेण न्यस्तश्चिरेण दहेत्, तथा निरुपक्रमं कर्म ॥
तदेतत् द्विविधम् ऐकभविकमायुष्करं कर्म । तत्संयमादपरान्तज्ञानम् । अपरान्तस्य प्रायणस्य आत्मीयस्य ज्ञानम् । तथा परकीयद्विविधकर्मसंयमात् परप्रायणज्ञानमपि भवति । प्रायणज्ञाने च प्रयोजनं पुरुषकर्तव्यतां प्रतिसमीहनम् ॥
अरिष्टेभ्यो वा प्रायणज्ञानम् । त्रिविधमरिष्टमाध्यात्मिकमाधिभौतिकमाधिदैविकं च । तत्राध्यात्मिकस्योदाहरणम्—घोषं स्वदेहे पिहितकर्णो न शृणोति । ज्योतिर्वा नेत्रेऽवष्टब्धे न पश्यति ॥ तथा आधिभौतिकं—यमपुरुषान् पश्यति । पितॄनतीतानागतानकस्माद्वेत्ति । आधिदैविकम्—अकस्मादेव सिद्धादीन् पश्यति । विपरीतं वा सर्वं पश्यति करोति च । तत्रारिष्टमिति लौकिकी वाचोयुक्तिः । एवं ह्याह—विपरीतदर्शनं ममासीदरिष्टमिति ॥ २२ ॥
१ क्रमशोऽवयवेषु
२ पश्यति
३ स्वर्गं अ
४ सिद्धान् वा
मैत्री करुणा मुदितेति तिस्रो भावनाः । तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते । दुःखितेषु करुणां भावयित्वा करुणाबलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते । भावनातः समाधिर्यः स संयमः । ततो बलान्यवन्ध्यवीर्याणि जायन्ते । पापशीलेषूपेक्षा न तु भावना । ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातः तत्र संयमाभावादिति ॥ २३ ॥