कैवल्यपादः · ४.९

जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥

व्यासभाष्यम्

 वृषदंशविपाकादयः स्वकर्मव्यञ्जकाञ्जनाः । यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहिताः पुनश्च स्वव्यञ्जकाञ्जनोदयाः

विवरणम्

 नारके कर्मणि विपच्यमाने तत्कर्मानुगुणा वासनाः प्रादुर्भवन्ति । तथा तैर्यग्योनकर्मणि विपच्यमाने तद्विपाकानुरूपा वासना व्यज्यन्ते । तथा मानुषेऽपि समानो न्यायः । न हि स्वविपाकसदृशीरनुपादाय वासनास्तस्य तस्य कर्मणो विपाकः संभवति । नापि वासनानामात्मनिष्पादकविपाकारम्भिकर्मतुल्यरूपाणि कर्मान्तराणि विपाकाभिमुखान्यन्तरेणाभिव्यक्तिः । एवं कर्मणां वासनानां च परस्परहेतुहेतुमद्भावोऽनादिभूतः ॥ ८ ॥

 तत्र वासनानामनेकजातिकालदेशव्यवधानेन दवीयसीनामानन्तर्यं विपच्यमानेन कर्मणा सह नास्ति । यथा दवीयसां मित्रस्वजनादीनाम् । यथैव च नेदीयसी वासना पटीयसी, न तथा दवीयसी पटीयमानमासीदति । तस्मान्नास्ति दवीयसीनामानन्तर्यं वासनानाम् ।

 तदभावे चायं दोषः प्राप्नोति—यथा कल्पशतान्तारितः वृषदंशविपाकः भविष्यतः वृषदंशविपाकस्यानन्तरातीतो दैवविपाकः । तत्र नेदीयसी दैववासना विरुद्धत्वात् वृषदंशविपाकाभिव्यक्तिहेतुतां न प्रतिपद्यते । कल्पशतव्यवहितानामपि वृषदंशवासनानां विप्रकर्षादनुपादाने वृषदंशविपाकहेतोः कर्मणो विपाको नावकल्पेत । ततश्च कर्मणां वासनानां चानर्थक्यं प्रसज्यतेति ॥

 अत्रोच्यते—जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् । वृषदंशविपाकादयः स्वकर्मव्यञ्जकाञ्जनाः व्यञ्जकेन स्वेन कर्मणा व्यज्यमानाः यदि जातिशतेन वा दूरदेशतया वा कल्पसहस्रेण वा व्यवहिताः ॥

व्यासभाष्यम्

द्रागित्येव पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय अभिव्यज्यन्ते । कस्मात् ? यतो व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतमित्यानन्तर्यमेव । कुतश्च ? स्मृतिसंस्कारयोरेकरूपत्वात् । यथाऽनुभवास्तथा संस्काराः । ते च वासनानुरूपाः । यथावासनाः स्मृतयः इति जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतयः ।

विवरणम्

ननु च जातिव्यवधानेनैव कालविप्रकर्ष उक्तः । किं कालग्रहणेन ? उच्यते—भूयांसि जन्मानि दिवसे एकस्मिन्नपि क्षुद्रजन्तुप्रभृतीनां केषाञ्चिद्भवन्ति । न तत्रातीतकालविप्रकर्ष इति कालग्रहणम् ॥

तेषु वृषदंशविपाकादयः पूर्वमपि स्वव्यञ्जकनिर्वर्तिताः सन्तः पुनश्च स्वव्यञ्जकाञ्जनोदयाः द्रागित्येव क्षिप्रमेव वृषदंशविपाकाभिसंस्कृता वासना उपादायाभिव्यज्यन्ते । कस्मात् एवम् ? यतो व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतमिति ॥

न हि बलीवर्दविपाकाभिव्यक्तिकारणं कर्म वृषदंशवासनाभिव्यक्तिनिमित्तं भवति । विसदृशत्वात् । अनुरूपं हि निमित्तमभिव्यञ्जकम् । आम्लादिभक्षणदर्शने जिह्वा स्रवति । तस्मात् आनन्तर्यमेव वासनानाम् । यतस्तासां व्यञ्जकं तुल्यम् । तथा च सति न वासनानां नेदीयस्ता दवीयस्ता वा । समानचित्ताश्रयत्वात् । कुतश्च ? अयमप्यपरो हेतुरानन्तर्यस्य । स्मृतिसंस्कारयोरेकरूपत्वादिति ॥

पूर्वं तुल्यजातीयं कर्माभिव्यञ्जकं वासनानन्तर्यहेतुरुक्तः । इदानीमयमन्य उच्यते—यथा अनुभवास्तथा संस्काराः । यादृशाः प्रत्ययाः तथा वासनाः । ते च संस्कारा वासनारूपाः । यथावासनाः स्मृतय इति ।

व्यासभाष्यम्

स्मृतिभ्यश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशावेशादभिव्यज्यन्ते ।

 अतश्च व्यवहितानामपि निमित्तनैमित्तिकभावानुच्छेदादानन्तर्यमेव सिद्धमिति ॥ ९ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →