कैवल्यपादः · ४.३०

 ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥

व्यासभाष्यम्

 तल्लाभादविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति ।

विवरणम्

 विवेकख्यातिप्रवणान्तःकरणस्य ब्राह्मणस्य प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः । स यदा अयं ब्राह्मणः प्रसंख्याने विवेकदर्शनशीलितेऽप्यकुसीदः अवृद्धिको भवति, ततोऽपि प्रसंख्यानप्रसादविशेषादधिकं न किंचित् प्रार्थयते । अपिशब्दात् प्रसंख्यानेऽपि न प्रार्थना । तत्रापि प्रसंख्याने विरक्तः । सर्वथा सर्वेण प्रकारेण विवेकख्यातिर्यस्य स सर्वथाविवेकख्यातिरेव भवति ॥

 क्लेशसंस्कारबीजक्षयात् नास्य शरीरादौ शून्यवेश्मनीव अस्मि ममेति वा ज्ञानप्रसादमात्रैकायतनस्य प्रत्ययान्तराण्युत्पद्यन्ते । तदाऽस्य ब्राह्मणस्य सर्वथाविवेकख्यातेः धर्ममेघो नाम समाधिर्भवति । कैवल्याख्यं परं धर्मं वर्षतीति धर्ममेघः इति संज्ञा ॥ २९ ॥

 ततः क्लेशकर्मनिवृत्तिः । तस्य धर्ममेघनाम्नः समाधेः सम्यग्दर्शनपाकाभिरूपस्य [ लाभात् ] भावात् अविद्यादयः क्लेशाः समूलकाषं कषिताः वासनाभिः सह समस्ताः प्रलीनाः भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । मूलैः क्लेशैः सहोच्छिन्ना भवन्ति ॥

३६४ पातञ्जलयोगसूत्रभाष्यविवरणे

व्यासभाष्यम्

 क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान् विमुक्तो भवति । कस्मात् ? यस्माद्विपर्ययो भवस्य कारणम् । न हि क्षीणविपर्ययः कश्चित् केनचित्क्वचिञ्जातो दृश्यत इति ॥ ३० ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →