विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २५ ॥
यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते, तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातो दृश्यते, तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमित्यनुमीयते । तस्याऽऽत्मभावभावना
तस्मादुच्यते—यत्किंचित् परसामान्यमात्रं स्वरूपेणोदाहरेद्वैनाशिकः स सर्वः संहत्यकारित्वात् परार्थ एव स्यात् । न देवदत्तादिसंहतार्थत्वम् । उभाभ्यामावाभ्यामनभ्युपगमात् । त्वमपि विज्ञानव्यतिरेकेण नान्यमभ्युपैषि । वयमपि पुरुषव्यतिरेकेण नान्यार्थत्वमभिवाञ्छामः । विज्ञानमात्रत्वं च नोपपद्यत इत्युक्तम् । अतो यस्त्वसौ परो विशेषः स न संहत्यकारी पुरुषः स्वार्थ इति सिद्धः । तस्मादस्ति भोक्ता तस्य स्वार्थस्य स्वेन दृश्येन परार्थेन यन्निमित्तः संयोगः । तद्वियोगात् कैवल्यमुपकल्पते ॥ २४ ॥
गुणपुरुषयोगस्याविद्या निमित्तमुक्तम् । सा च विशेषदर्शिन आत्मानं विजिज्ञासमानस्य विनिवर्तते । तन्निवृत्तौ च लिङ्गमाह—विशेषदर्शिन आत्मभावभावनानिवृत्तिः । व्यक्ताव्यक्तसामान्याद्विशिष्टः पुरुषः असाधारणो विशेषः । तं विशेषं व्यक्ताव्यक्तसामान्यात् प्रविविच्य द्रष्टुं शीलं यस्य स विशेषदर्शी । तस्य आत्मभावभावना निवर्तते । सा च सम्यग्दर्शनाभिमुखा कैवल्यप्रापिकर्मनिमित्ता ॥
कथं पुनरात्मभावभावना अस्यास्तीति विज्ञायत इत्याह—यथा प्रावृषि तृणस्याङ्कुरोद्भेदेन लिङ्गेन तद्वीजसद्भावोऽनुमीय(गम्य)ते, तथा मोक्षमार्गश्रवणेन यस्य रोमहर्षाश्रुपातो दृश्यते, तत्राप्यस्ति विशेषदर्शनबीजमपवर्गभागीयं कर्माभिनिर्वर्तितमिति रोमहर्षाश्रुपातादिलिङ्गेन अनुमीयते ॥
कैवल्यपादः चतुर्थः ३६१
[ भाष्यम् ] स्वाभाविकी प्रवर्तते । तस्याभावादिदमुक्तं स्वभावदोषादेषां
पूर्वपक्षे रुचिर्भवत्यरुचिश्च निर्णये भवति । तत्राऽऽत्मभावभावना ‘कोऽहमासं कथमहमासं किंस्विदिदं कथंस्विदिदं के भविष्यामः कथं वा भविष्यामः’ इति । सा तु विशेषदर्शिनो निवर्तते । कुतः ? चित्तस्यैवैष विचित्रः परिणामः, पुरुषस्त्वसत्यामविद्यायां शुद्धश्चित्तधर्मैरपरामृष्ट इति । तस्याऽऽत्मभावभावना कुशलस्य निवर्तत इति ॥ २५ ॥