योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २८ ॥
व्याख्यायते । यथा—चरिताधिकाराः निवृत्तकर्तव्याः बुद्धिगुणाः सत्त्वादयो बुद्धयाकारावस्थिताः प्रलयाभिमुखाः । किमिव ? गिरिशिखरकूटच्युता इव ग्रावाणो निरवस्थानाः कर्तव्याभावात् स्वकारणे अहंकारे प्रलयाभिमुखाः सह तेन बुद्धिसंस्थानेन कार्येण, अथवा, स्वकारणेनाहङ्कारेण कुशलं पुरुषं प्रति स्वकारणमप्यव्यक्तभावं प्रतिपद्यत इति सह तेनास्तं गच्छन्ति इत्युच्यते । एषा प्रथमा प्रज्ञाचित्तविमुक्तिः ॥
न चैषां प्रतिप्रलीनानां पुरुषं प्रति पुनरस्त्युत्पादः प्रयोजनाभावात् । विमुक्तं हि चतुर्विधं कार्यम् । एषा द्वितीया प्रज्ञाचित्तविमुक्तिः ॥
एतस्यामवस्थायां चरितार्थगुणप्रलयावस्थायां गुणसम्बन्धातीतः गुणसंबन्धो द्रष्टृदृश्यलक्षणः तमतीतः । स्वरूपमात्रज्योतिः दृशिस्वरूपमात्रमेवं ज्योतिः । पुरुषः केवली शुद्ध इति तृतीया प्रज्ञाचित्तविमुक्तिरिति ॥
एतां सप्तविधां प्रान्तभूमिं प्रान्ताः प्रगतावसानाः भूमयः अवस्थाः यस्यास्तां प्रान्तभूमिं प्रज्ञामनुपश्यन् सम्यग्दर्शनलिङ्गपरिपाकभूतामीक्षमाणः पुरुषः कुशल इत्याख्यायते । कुशल इति सङ्केतः । प्रतिप्रसवेऽपि प्रलयेऽपि चित्तस्य मुक्तः कुशल इत्येव भूतपूर्वगत्या कुशल इत्येव भवति । कुतः कौशलं तस्येत्याह—गुणातीतत्वात् इति । गुणानतीतो हि कुशलः ॥ २७ ॥
सिद्धा विवेकख्यातिः समधिगता विवेकख्यातिः सप्तविधप्रान्तभूमिप्रज्ञाफलावसाना हानस्योपाय इति । न च सिद्धिः अन्तरेण साधनम्, इत्यत इदं विवेकख्यातिसिद्धिसाधनार्थमारभ्यते—योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥[ भाष्यम् ]
योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात् पञ्च पर्वणो विपर्ययस्याशुद्विरूपस्य क्षयो नाशः । तत्क्षये सम्यग्ज्ञानस्याभिव्यक्तिः । यथा यथा च साधनान्यनुष्टीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते । यथा यथा च क्षीयते तथा तथा क्षयक्रमानुरोधिनी ज्ञानस्यापि दीप्तिर्विवर्धते । सा खल्वेषा विवृद्धिः प्रकर्षमनुभवति आ विवेकख्यातेः, आ गुणपुरुषस्वरूपविज्ञानादित्यर्थः ।
योगाङ्गानुष्ठानादेव विवेकख्यातिरिति नावदिधारयिषितम्, गुरूपासनधर्मप्रभृतिकेभ्योऽपि विवेकख्यातेः सिद्धिरिष्यत एव । किं तर्हि ? साधनमात्रमन्तरेण न भवत्येवेत्यवधारयिष्यते । न पुनर्योगाङ्गानुष्ठानमेव साधनं, योगाङ्गानुष्ठानात्तु भवत्येव विवेकख्यातिसिद्धिरिति । तथा चाचार्यैरुक्तम्— 'योगस्तत्त्वज्ञानार्थः' इति ॥
योगाङ्गान्यभिधायिष्यमाणानि तेषामनुष्ठानं योगाङ्गानुष्ठानम् तस्मात् । अशुद्धेः क्लेशाख्यायाः क्षयः, तत्क्षये दीप्तिः प्रकर्षः । कियदवसानेत्याह— आ विवेकख्यातेः भवतीत्युपस्कारः ॥
स्वयमेव भाष्यकारः स्पष्टतरं विवृणोति—योगाङ्गान्यष्टावभिधायिष्यमाणानि । तेषामनुष्ठानात् पञ्चपर्वणो विपर्ययस्य अशुद्धिरूपस्य क्षयः नाशः, तत्क्षये सम्यग्दर्शनस्याभिव्यक्तिः दीप्तिः । कथमेतद्भवतीत्याह— यथा यथा च साधनान्यनुष्ठीयन्ते तथा तथा तनुत्वमशुद्धिरापद्यते । तथा च मनुरभाषिष्ट—
“ प्राणायामैर्दहेद्दोषान् धारणाभिश्च किल्बिषान् ।
प्रत्याहारेण संसर्गान् ध्यानेनानैश्वरान् गुणान् ॥” इति ।
योगाङ्गानुष्ठानमशुद्धेः वियोगकारणम् । यथा परशुः छेद्यस्य । विवेकख्यातेस्तु प्राप्तिकारणं, यथा धर्मः सुखस्य । नान्यथा कारणम् । कति चैतानि कारणानि शास्त्रे भवन्ति ? । नवैवेत्याह । तद्यथा—
उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः । वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति । तत्रोत्पत्तिकारणं, मनो भवति विज्ञानस्य । स्थितिकारणं, मनसः पुरुषार्थता, शरीरस्येवाऽऽहार इति । अभिव्यक्तिकारणं य(था)दा रूपस्यालोकः तदा रूपज्ञानम् । विकारकारणं मनसो विषयान्तरम् , यथाऽग्निः पाक्यस्य । प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य ।
योगाङ्गानुष्ठानमशुद्धेः क्षयकारणं विवेकख्यातेश्च प्राप्तिकारणमिति, द्विधैव कारणम् , धर्मपरशुद्वयस्थानीयमेकमुभयकारणं, नान्यथा भवतीति । तत्र कारणप्रसङ्गेन शास्त्रप्रसिद्धानि कारणानि व्याचष्टे—कति चैतानि कारणानि शास्त्रे भवन्ति ? नवैवेत्याह । तद्यथा—तानि श्लोकेनैव कथयति— उत्पत्तिस्थित्यभिव्यक्तिविकारप्रत्ययाप्तयः । वियोगान्यत्वधृतयः कारणं नवधा स्मृतम् ॥ इति । तत्प्रविवेकार्थमुदाहरणानि प्रस्ताविष्यन्ते । तत्रोत्पत्तिकारणं मनो भवति [विज्ञानस्य], मनसो हि वृत्तिः ज्ञानं, यथा जलमूर्भीणाम् ॥
स्थितिकारणं स्थितेः कारणम् मनसः पुरुषार्थता। भोगापवर्गार्थत्वेन हि मनसः स्थितिः । शरीरस्य यथा स्थितिकारणमाहारः ॥
अभिव्यक्तेः कारणं रूपस्यालोकः । तदा रूपज्ञानम् । न ह्यालोकेनानभिव्यक्ते रूपेऽवबोधः ॥
विकारस्य कारणं मनसो विषयान्तरम् । विषयान्तरसन्निधानेन हि मनो विक्रियामासीदति । यथा अग्निः पाकस्य । यः पाकाख्यो विकारस्तस्य पाकस्य विकाररूपस्याग्निः कारणं यथा ॥
प्रत्ययकारणं धूमज्ञानमग्निज्ञानस्य । प्रत्ययस्य फलवतः प्रमाणस्य
कारणमित्यर्थः । पूर्वत्र तु 'भवति विज्ञानस्य' इति ज्ञानस्योपादानकारणं विवक्षितम् ॥प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः । वियोगकारणं तदेवाशुद्धेः । अन्यत्वकारणं यथा सुवर्णस्य सुवर्णकारः । एवमेकस्य स्त्रीप्रत्ययस्याविद्या मूढत्वे, द्वेषो दुःखत्वे, रागः सुखत्वे, तत्वज्ञानं माध्यस्थ्ये । धृतिकारणं शरीरमिन्द्रियाणाम् । तानि च तस्य । महाभूतानि शरीराणाम् । तानि च परस्परम् । सर्वेषां तैर्यग्यौनमानुषदैवतानि च, परस्परार्थत्वादित्येवं नव कारणानि ।
प्राप्तिकारणं योगाङ्गानुष्ठानं विवेकख्यातेः धर्म इव सुखस्य । तदेवाशुद्धेर्वियोगकारणं परशुरिव छेद्यस्य ॥
अन्यत्वकारणं यथा सुवर्णकारः सुवर्णस्य । सुवर्णं हि भित्त्वा वर्धमानकमन्यं करोति । तथा वर्धमानकं भित्त्वा अन्यदाभरणान्तरं करोति । तथाऽन्यदिति ॥
एवमेकस्य ‘स्त्री’ इति प्रत्ययस्यापि अविद्या कारणं मूढत्वे । द्वेषस्तस्यैव स्त्रीप्रत्ययस्य दुःखत्वे कारणम् । तथा रागः सुखत्वे । तथा तस्यैव माध्यस्थ्ये हेयोपादेयशून्यतायां विवेकयुक्तं ज्ञानं कारणम् । एवमेकः स्त्रीप्रत्ययः सुवर्णवदनेकधा मूढत्वदुःखत्वसुखत्वमाध्यस्थ्यादिभेदैर्भिद्यते ॥
धृतेः कारणम् । धारणं धृतिः, तस्याः कारणं शरीरमिन्द्रियाणाम् । न हि शरीरमप्राप्येन्द्रियाणि धृतिं लभन्ते । तानि चेन्द्रियाणि तस्य शरीरस्य धृतिकारणं भवन्ति । इन्द्रियवृत्तिद्वारेण हि शरीरं ध्रियते ।
तथा महाभूतान्याकाशादीनि शरीराणां धृतिकारणम् । महाभूतारब्धानि हि शरीराणि ब्रह्मादिस्तम्बावसानानि[तानि च]परस्परम् उपकार्योपकारकत्वद्वारेण धृतिकारणम् ॥
तथा सर्वेषां पदार्थानां तैर्यग्यौनमानुषदैवतानि धृतिकारणम् । कुतः ? परस्परार्थत्वात् । तैर्यग्यौनं मानुषदैवतयोर्वाहनदोहनहविरादिभिरुपकुर्वत् धृतिकारणम् ॥
तथा मानुषं इज्यारक्षणादिभिर्दैवतैर्यग्यौनयोः धृतिकारणम् । तथा दैवमितरयोः शीतोष्णप्रवर्षणादिना धृतिकारणम् ॥तानि च यथाऽर्थसम्भवं पदार्थान्तरेष्वपि योज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ॥ २८ ॥ तत्र योगाङ्गान्यवधार्यन्ते—