कैवल्यपादः · ४.४

 निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥

व्यासभाष्यम्

 अस्मितामात्रं चित्तकारणमुपादाय निर्माणचित्तानि करोति, ततः सचित्ताः भवन्तीति ॥ ४ ॥

विवरणम्

 तथा धर्मो निवृत्तिमात्रे कारणमधर्मस्य । अधर्मोऽपि धर्मस्य । शुद्धयशुद्धयोरत्यन्तविरोधात् । न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति ॥

 अत्र नन्दीश्वरप्रभृतय उदाहार्याः । विपर्ययेणा[प्य]धर्मो धर्मं बाधते । ततश्चाशुद्विपरिणाम इति । अत्रापि नहुषादय उदाहार्याः ॥ ३ ॥

 यदा तु योगी बहून् कायान्निर्मिमीते, तदा किमेकमनस्कास्ते भवन्ति, अथानेकमनस्का इति समाधिसिद्धौ कश्चिदनुक्तो विशेष उच्यते—निर्माणचित्तान्यस्मितामात्रात् । सोऽहंकारं चित्तकारणमुपादाय निर्माणचित्तानि निर्मितानि चित्तानि अप्राकृतानीश्वरचित्तानि नवानि करोति योगी । चित्तग्रहणमुदाहरणमात्रम् । इन्द्रियाण्यप्यस्मितामात्रादेव । ततः ते सचित्ताः सकारणांश्च भवन्ति ॥

 चित्तेन्द्रियाभावे च मृतदेशीयः कायो निरर्थकः स्यात् । एकचित्तत्वे तु गुणप्रधानभावः प्रवृत्तिभेदश्च नोपकल्पते । तत्र विभुत्वादेकक्षेत्रज्ञत्वेऽपि बहुकायारम्भत्वमुपपद्यते । गुणप्रधानानेकप्रवृत्तिभेदार्थं तु करणभेद एषितव्यः ॥  केचित्तु क्षेत्रज्ञा अप्यन्ये प्रतिकायभेदं भवन्तीति मन्वते । केचिदत्र चोदयन्ति अकृताभ्यागमम् । अन्ये तु तदनुरूपोपार्जितकर्माणः क्षेत्रज्ञा भवन्तीति परिहारमाहुः ॥ ४ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →