विभूतिपादः · ३.२८

 ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥

विवरणम्

 भुवनज्ञानं सूर्ये संयमात् । सूर्ये संयमं कृत्वा समस्तं भुवनप्रस्तारं प्रत्यक्षीकुर्वीत । भाष्यं तु गतार्थं, सर्वपुराणप्रसिद्धत्वात् ॥ २६ ॥ चन्द्रे ताराव्यूहज्ञानम् । सूर्ये संयमनाद्भुवनप्रस्तारं विदित्वा, तदनन्तरं चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात् । सूर्यसंयमाद्भुवनप्रस्तारमात्रं प्रज्ञातम्—एवं प्रस्तीर्णाः लोका नद्यः समुद्रा गिरयश्चेति । न तु तारा इत्थं व्यूहिता अनेन सम्बद्धा इति । चन्द्रसंयमात्तु ताराव्यूहप्रकारावगतिरिति ॥ २७ ॥

 ध्रुवे तद्गतिज्ञानम् । ततश्च समनन्तरं ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात्—अनेन प्रकारेण सञ्चरमाणा अनेन विशिष्टा इति । अस्मिन् कालेऽनेन ग्रहेण अयं ग्रहो विरुध्यते, इत्थमस्तमयः । इत्थमुदयः, तद्द्वारेण प्राणभृतां शुभमशुभं चेत्यादि विजानीयात् ॥ [ भाष्यम् ]  ततो ध्रुवे संयमं कृत्वा ताराणां गतिं विजानीयात् । ऊर्ध्वविमानेषु कृतसंयमस्तानि विजानीयात् ॥ २८ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →