वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः॥ १७॥
वितर्कः-चित्तस्य आलम्बने स्थूल आभोगः ।। सूक्ष्मो विचारः । आनन्दो ह्लादः । एकात्मिका संवित् अस्मिता ।
लक्षणमुच्यत इति यावत्। वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः । अनुगमशब्दः प्रत्येकं संबन्धनीयः । वितर्कानुगमाद्विचारानुगमादानन्दानु गमादस्मितारूपानुगमादिति । रूपशब्दो मात्रार्थो वितर्कादिपूर्वधर्मत्रयवर्जितत्वख्यापनार्थः ॥
वितर्कश्चित्तस्यालम्बने स्थूल आभोगः । स्थूल(पि)मिश्रीभावः प्रथममालम्बनाकरेण परिणममानस्य चित्तस्य य आलम्बनव्यतिकरः स वितर्कः ॥ सूक्ष्मो विचारः आभोगः सूक्ष्म इति संबन्धः । आनन्दो ह्लादः विचारः सूक्ष्मतर आभोगस्तृतीयः । सानन्दता विशेषः । एकरूपात्मिका संविदस्मिता स्वस्यां प्रकृतावस्मितायां समापन्नस्य अस्मिता प्रत्ययमात्रता एकरूपात्मकत्वम् । तथा चोदाहरिष्यति— तमणुमात्मानमन्ववेत्यास्मीत्येतावत्संजानीत इति ॥
ननु चास्मितां क्लेशेषु पठिष्यति 'दृग्दर्शन शक्त्योरेकात्मतेवास्मिता' इति । तत्कथमिवास्मितारूपेण क्लेशेन समाधिरनुगम्यत इति । सत्यमेवं—प्रकृष्टस्वकारणाकारावभासकत्वादन्यविषयविनिवृत्तात्मकत्वाच्चास्मितायाः समाधिरूपत्वेऽप्यदोषः॥
यदि वा अस्मितारूपस्यालम्बनस्याविद्यात्वेऽपि न योगिप्रत्ययस्याविद्यात्वम् । न हि खलु परचित्तविविदिषायां परस्याविद्यात्वम् । न हि खलु परचित्तप्रत्ययं गृह्णन् परकीयाविद्याप्रत्ययरूपालम्बनदोषेण स्वयमविद्यावान् भवति ॥
तत्र प्रथमः चतुष्टयानुगतः समाधिः सवितर्कः । द्वितीयो वितर्कविकलः सविचारः । तृतीयो विचारविकलः सानन्दः । चतुर्थः तद्विकलोऽस्मितामात्र इति । सर्वे एते सालम्बनाः समाधयः ॥ १७ ॥
अथासम्प्रज्ञातः समाधिः किमुपायः ? किंस्वभावो वा ? इति—