साधनपादः · २.३०

 अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ३० ॥

व्यासभाष्यम्

 तत्राहिंसा सर्वथा सर्वदा सर्वभूतानामनभेिद्रोहः । उत्तरे च यमनियमास्तन्मूलाः तत्सिद्धिपरतयैव तत्प्रतिपादनाय प्रतिपाद्यन्ते । तदवदातरूपकरणायैवोपादीयन्ते । तथा चोक्तम्—स खल्वयं ब्राह्मणो यथा यथा व्रतानि बहूनि समादित्सते, तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यो निवर्तमानः तामेवावदातरूपामहिंसां करोति ॥

विवरणम्

 यदन्यत्रोच्यते—  "स्थानासनविधानानि योगस्य विधयेऽपि वा ।  व्याक्षेपजनकाः सर्वे न ते योगस्य हेतवः ॥  सर्वदोषपरित्यागः समाधिश्चेति तद्द्वयम् ॥  निर्णय[यात् ]योगहेतुः स्याद्भवति वान्यत्र वा [भवत्वन्यत्र वा भवेत्] ॥" इति ।

 तत्समाधिसर्वदोषपरित्यागयोः प्राधान्यात् तत्स्तुत्यर्थम्, नासनाद्यङ्गप्रतिषेधार्थम् । यथाक्रममेषां यमादीनामनुष्ठानं स्वरूपं च वक्ष्यामः— स्वरूपे हि अनवगते नानुष्ठातुं शक्यमिति ॥ २९ ॥

 तत्र तेषु यमादिषु प्रथमं यमा व्याख्यायन्ते—अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । तत्राहिंसा सर्वथा सर्वात्मना सर्वप्रकारेण, सर्वभूतानामनभिद्रोहः सर्वभूतानां स्थावरजङ्गमानां अनभिद्रोहोऽपीडनम् ॥

 यमनियमानामहिंसा प्रधानभूता कायवाङ्मनसैः सर्वात्मना करणीयेति दर्शयति—उत्तरे च यमाः सत्यादयः तन्मूलाः अहिंसाप्रयोजनाः अहिंसार्थाः तत्सिद्धिपरतयैव अहिंसासिद्धितत्परत्वेन प्रतिपाद्यन्ते । किमुक्तं भवतीत्याह—तदवदात[रूप]करणायोपादीयन्ते अहिंसाशुद्धिप्रतिपादानायोपादीयन्ते ॥ तथा ह्युक्तम्—स खल्वयं ब्राह्मणो यथा यथा बहूनि व्रतानि समादित्सते तथा तथा प्रमादकृतेभ्यो हिंसानिदानेभ्यः हिंसामूलेभ्यः हिंसाकारणेभ्यः निवर्तमानस्तामेवावदातरूपामहिंसां करोति इति ॥

व्यासभाष्यम्

सत्यं यथार्थे वाङ्मनसे । यथा दृष्टं यथाऽनुमितं तथा वाक् मनश्चेति । परत्र स्वबोधसंक्रान्तये वागुक्ता, सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिवन्ध्या वा भवेदिति । एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय । यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्, पापमेव भवेत् । तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात् ॥

विवरणम्

सत्याद्यनेकव्रतोपादानात् अन्येषामविरुद्धव्रतानां चोपादानात् हिंसाकारणान्निवृ(त्ति)त्तस्य हिंसाकारणादुपरतपरिस्फुरणस्य अहिंसैवावदाततरा कारणाभावादुपजायते । यथा भिक्षादिव्रतानुष्ठाने कृष्यादिहिंसानिदाननिवृत्तिः ॥

सत्यं यथा दृष्टं यथा अनुमितं यथा श्रुतं तथा वाङ्मनश्चेति । तत्सत्यम् । एतदुक्तं भवति—अभ्रान्तैः प्रमाणैः यथार्थावगमः सञ्जातः, तमवगमं तथैव परत्र संक्रमयितुं वाङ्मनसाभ्यां तथैव प्रवर्तनं सत्यमिति ॥

तदेवाह—परत्र स्वबोधसंक्रान्तये वागुक्ता । सा यथाऽवगतार्थाऽपि यदि न वञ्चिता । यथा सत्यमेव परविप्रलम्भनार्थं प्रयुक्तं देशकालाद्यपेक्षया क्वचिदनृतायते, यथा युधिष्ठिरस्य अश्वत्थामा हतः स कुञ्जर इति ॥

भ्रान्ता वा यथा सत्यमिति मन्यमानोऽनृतमेव वदति । प्रतिपत्तिवन्ध्या वा—श्रोतुः प्रतिपादनायापर्याप्ता—यथा सन्दिग्धं वाक्यमगृह्यमाणप्रकरणादिविशेषम् । कष्टशब्दो वा अजावय इत्यादिः ॥

तस्मादेवमादिदोषरहिता एषा वाक् ऋजुमनःसहचारिणी सर्वभूतोपकारार्थं प्रवृत्ता सत्यतामास्कन्दति । न भूतोपघाताय प्रवृत्ता यथार्थत्वलाभादपि सत्यतामापद्यते ॥

यदि चैवमपि उक्तेन प्रकारेण निर्दोषापि अभिधीयमाना भूतोपघातपरैव स्यात्, न सत्यं भवेत्, न हि प्राणिघातालम्बिनी वञ्चनादिदोषत्रयविप्रोषिताऽपि सत्यत्वं प्रतिपद्यते । पापमेव भवेत् ॥

तदेवाह—तेन पुण्याभासेन पुण्यप्रतिबिम्बकेन सत्यकौशिकवचनदेशीयेन कष्टं तमः प्राप्नुयात् । तस्मात् परीक्ष्य सर्वहितं सत्यं ब्रूयात् ॥

व्यासभाष्यम्

 स्तेयम् अशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणं, तत्प्रतिषेधः पुनः अस्पृहारूपमस्तेयमिति । ब्रह्मचर्यं गुप्तेन्द्रियस्योपस्थस्य संयमः ।विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणं अपरिग्रह इत्येते यमाः ॥ ३० ॥ ते तु—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →