कैवल्यपादः · ४.११

हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ ११ ॥

व्यासभाष्यम्

 हेतुर्धर्मात्सुखमधर्माद्दुःखं, सुखानुशयी रागो दुःखानुशयी द्वेषस्ततश्च प्रयत्नस्तेन मनसा वाचा कायेन वा परिस्पन्दमानः परमनुगृह्णात्युपहन्ति वा । ततः पुनर्धर्माधर्मौ सुखदुःखे रागद्वेषाविति प्रवृत्तमिदं षडरं संसारचक्रम् ।

विवरणम्

चित्तबलव्यतिरेकेण कः कर्तुं शक्नोति । कश्च पिबेत् समुद्रमगस्त्यवत् इति । अतो मानसबलमेव बलम् । न शारीरम् । “तस्मात् मानसं परमं वदन्ति” इति श्रुतेः । तथा च भगवानाबभाषे—  “श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।”  “सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते” इति ॥ १० ॥

 कथं पुनस्तासां वासनानां निवृत्तिः । अनादिरूढत्वात् न निवृत्तिरासां घटामाढौकते । न च तन्निवृत्तिमन्तरेण कैवल्योपपत्तिरित्यत उच्यते—हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः । हेतुश्च फलं चाश्रयश्चालम्बनं च हेतुफलाश्रयालम्बनानि । तैः संगृहीतत्वादुपग्रथितत्वादेषां हेत्वादीनामभावे तदभावे वासनानामभावः । तस्मादुपपद्यते वासनानां निवृत्तिः ॥

 कोऽसौ हेतुः? इत्याह—धर्मस्तावदविद्याविनमितचेतसाम् । ततो धर्मात् सुखम् । सुखानुशयी रागः । एवमविद्यात एव निषिद्धाचरणात् अधर्मः । ततो दुःखम् । दुःखानुशयी द्वेषः । ततः सुखोपार्जने दुःखपरिहारे च पूर्ववदेव प्रयत्नः । तेन प्रयत्नेन वाचा कायेन परिस्पन्दमानः परमनुगृह्णात्युपहन्ति च । पुनश्च ततः परानुग्रहपरपीडनाभ्यां धर्माधर्मौ । ताभ्यां सुखदुःखे । ताभ्यां च रागद्वेषौ पूर्ववदेव । ततः प्रयत्नः ॥

व्यासभाष्यम्

 अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री मूलं सर्वक्लेशानामित्येष हेतुः । फलं तु यमाश्रित्य यस्य प्रत्युत्पन्नता धर्मादेः, न ह्यपूर्वोपजनः । मनस्तु साधिकारमाश्रयो वासनानाम् । न ह्यवसिताधिकारे मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते । यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम् । एवं हेतुफलाश्रयालम्बनैरेतैः संगृहीताः सर्वा वासनाः । एषामभावे तत्संश्रयाणामपि वासनानामभावः ॥ ११ ॥

विवरणम्

 इत्येवमनवरतप्रारब्धपरिभ्रमणं प्रवृत्तमिदं षडरं संसारचक्रम् । अस्य च प्रतिक्षणमावर्तमानस्याविद्या नेत्री रथचक्रस्य तुरङ्गयुवतिरिव ॥

 सा मूलं सर्वक्लेशानामिति यदेतदविद्यानेतृकं षडरं चक्रम् एष हेतुः वासनानाम् । एतच्चक्रावृत्तिकृता हि ताः । अविद्यायास्त्वभावे विशीर्णनाभिबन्धनमिव चक्रं, धर्मादिहेतुचक्रमपि विशीर्यते । तद्विशरणे च चक्रावृत्ति कृतजन्मनां वासनानामकार्यक्षमत्वम् ॥

 फलं तु यम् अर्थम् आश्रित्य यस्य प्रत्युत्पन्नता तत् तस्य फलम् । तदपि वासनानां संग्राहकम् । तदभावे वासनाभिव्यक्त्यभावात् । सुखादिफलस्य वासनाधायित्वात् । न ह्यपूर्वोपजनः । नात्यन्तमसदुत्पद्यते ॥

 मनः साधिकारं कर्तव्यतावत् न पुरुषार्थशून्यम् । कृतपुरुषार्थस्वरूपज्ञानं विनिवृत्ताविद्याकमिति साधिकारमाश्रयो वासनानाम् । तदाश्रित्य हि हेतुचक्रपरिभ्रमणम् । न ह्यवसिताधिकारे करणीयपुरुषार्थशून्ये मनसि निराश्रया वासनाः स्थातुमुत्सहन्ते ।

 यदभिमुखीभूतं वस्तु यां वासनां व्यनक्ति तस्यास्तदालम्बनम् । एवं हेतुफलाश्रयालम्बनैरेतैः संगृहीताः सर्वा वासनाः । तेषां हेत्वादीनाम् अभावे तत्संश्रयाणामपि वासनानामभावः छत्राभावे छायानिवृत्तिवत् ॥

 एषां चाभावोपायो द्वितीयपादे व्याख्यातः । तस्मात् न वासना सम्यग्दर्शने सति कैवल्यप्रतिबन्धिनी । भवत्येवाविद्यानिवृत्तौ कैवल्यमिति ॥ ११ ॥
व्यासभाष्यम्

 नास्त्यसतः संभवः, न चास्ति सतो विनाश इति द्रव्यत्वेन संभवन्त्यः कथं निवर्तिष्यते वासना इति—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →