विभूतिपादः · ३.६

तस्य भूमिषु विनियोगः ॥ ६ ॥

विवरणम्

 तदेतद्धारणाध्यानसमाधित्रयं यद्याख्यातं तत् एकत्र एकस्मिन् देशे परिनिष्पन्नं सत् संयम इत्युच्यते । तदाह—एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते । तदस्य त्रयस्य इत्थंक्रमेणाभिनिष्पन्नस्य तान्त्रिकी तन्त्रप्रयोजना परिभाषा । जिज्ञासितार्थसाक्षादापादनाय यत्र यत्र संयमः श्रूयते जेतव्यजयाय वा, तत्र तत्र त्रयमेतत् प्रवेदितव्यमित्येवमर्थमेतस्य त्रयस्यास्मिन् शास्त्रे परिभाषेयं संयम इति ॥

 वक्ष्यति च—“परिणामत्रयसंयमादतीतानागतज्ञानम्” ‘स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः' इति च ॥ ४ ॥

 तज्जयात् प्रज्ञाऽऽलोकः । तस्य संयमस्य जयात् स्थिरत्वापादनात् अभीप्सितार्थाभिव्यञ्जनसमर्थः प्रदीपालोकदेशीयः समाधिप्रज्ञाया भवत्यालोकः ।

 यथा यथा संयमः स्थिरपदो भवति, तथा तथा समाधिप्रज्ञा स्थिरपदी भवति । येन समाधिप्रज्ञाऽऽलोकेन व्यवहितविप्रकृष्टादिवस्तुनिर्भासनसमर्थेन योगिनः करतलकलितमिवाभिमतमर्थमवलोकयन्ति ॥ ५ ॥

 तस्य भूमिषु विनियोगः । तस्य संयमस्य भूमिषु बाह्याध्यात्मिकेषु ध्यानालम्बनभूतासु वक्ष्यमाणासु परिणामत्रयादिषु विनियोगः प्रयोगः कर्तव्यः ॥

 1. विशारदी भवति 2. यो. सू. 3. 16. 3. यो. सू. 3. 44. २३६

पातञ्जलयोगसूत्रभाष्यविवरणे

व्यासभाष्यम्

 तस्य संयमस्य, जितभूमेः या अनन्तरा भूमिः तत्र, विनियोगः । न ह्यजिताधरभूमिः अनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते । तदभावाच्च कुतस्तत्र प्रज्ञाऽऽलोकः ? जितोत्तरभूमिकस्य नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात् ? तदर्थस्य

विवरणम्

 तद्भूमिजयसाक्षात्प्रयोजनार्थिना तस्य संयमस्य, जितभूमेः जिताया भूमेः, यत्र भूमौ योगिनः संयतायां संयमो लब्धः, तस्या जिताया भूमेः अनन्तरा या भूमिस्तत्र संयमस्य पूर्वभूमिजयानन्तरं विनियोगः करणीयः ॥

 तद्यथा—पृथिव्यादीनां स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वभूमिषु क्रमेण जेतव्यासु, स्थूलायां भूमौ संयमं कृत्वा, तज्जयानन्तरं स्वरूप एवानन्तरे संयमो विनियोजनीयः । नानन्तरं स्वरूपं व्यतिलङ्घ्य सूक्ष्मादिभूमिषु संविदधीत ॥

 कस्मादेवम् ? न ह्यजिताधरभूमिरनन्तरां भूमिं विलङ्घ्य प्रान्तभूमिषु उपरितनीषु भूमिषु संयमं लभते ॥  यदि चानन्तरां भूमिमजित्वा प्रान्तभूमिषु संयमं विनियुङ्क्षेत, तमेव संयमं न लभते । ततश्च तदलाभ एव दोषः । तदलाभाच्च संयमाभावाच्च कुतस्तत्र संयमविषये प्रान्तभूमावित्यर्थः । प्रज्ञाऽऽलोकः । निमित्ताभावात् । न ह्यसति तैलवर्तिज्वलनाभिसन्निपाते प्रदीपालोकः ॥

 जितोत्तरभूमिकस्य जितोत्तरात्मादिभूमिकस्य योगिनः नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः । कस्मात्? तदर्थस्य आत्मादेः उत्तरभूमेरपकृष्टपरचित्तज्ञानादिभूमिवैपरीत्येन अन्यथैवाधिगतत्वात् । परचित्तज्ञानादिभिः संकीर्णं असमाधिगतविवेकात्मकत्वात् । तत्र हि जितोत्तरभूमिसंयमस्य परकीयचित्तालम्बनत्वे संकीर्णचित्ताकारता योगिचित्तस्यापि स्यादिति न युक्तः । तत्रात्मादेरर्थस्यान्यथैव विविक्ततयाऽधिगतत्वात् ॥

विभूतिपादः तृतीयः २३७

व्यासभाष्यम्

अन्यथैवाधिगतत्वात् । भूमेरस्या इयमनन्तरा भूमिः इत्यत्र योग एव उपाध्यायः । कथम् ? एवं ह्युक्तम्—  “योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते । अप्रमत्तस्तु योगेन योगेषु रमते चिरम् ॥” इति ॥ ६ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →