विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥
तन्न शक्यं जनानामसर्वज्ञत्वात् । चैत्यवन्दनात् स्वर्गो भवतीत्यत्र चैत्यवन्दनस्य स्वर्गहेतुत्वबुद्धेः प्रत्यक्षानुमानाविषयत्वान्मिथ्यात्वं स्यात् । तदर्थं वा प्रमाणान्तरकल्पनम् ॥
अथ सा बुद्धिरनुमानफलमिति चेत्---प्रमाणादन्यत्र फलप्रसङ्गः, एवं श(क)रणत्रयादिवाक्यार्थविषयबुद्धिरपीति ||
नापि चात्र प्रमाणलक्षणनिरूपणतात्पर्यं, प्रसिद्धप्रमाणादिवृत्तिनिरोधाभ्युपायाभिप्रदर्शनपरत्वात् । अत एव न सूत्रकारः सूत्रयाञ्चकार । भाष्यकारेण तु किञ्चित्प्रसिद्धानुवादमात्रमवलम्बितमिति तदनुसरणेन किमपि जल्पितमिति ॥ ६ - ७ ॥ प्रमाणाख्यां वृत्तिं व्याख्याय विपर्ययाभिधानां वृत्तिमिदानीमुपव्यचिख्यासमान आह--विपर्ययो मिथ्याज्ञानमिति ॥ ननु निरोधस्य प्रकृतत्वात्तस्य च हानत्वाद्धानस्य च हेयपक्षत्वाद्धेयस्य चाविद्यामूलत्वादविद्या च विपर्यय इति स एव प्राधान्येन निरोद्धव्यः । तत्प्रभवत्वाद्धेयस्य | कारणनिरोधे हि कार्यमर्थादेव निरुद्धं स्यात् । तस्माद्विपर्ययः प्राधान्यात् प्रमाणात् पूर्वं व्याख्यातव्यः ॥
सत्यमेवमस्त्येव प्राथम्यं विपर्ययस्य निरोधनीयतया, तथापि गुणदोषज्ञानापेक्षत्वान्निरोधं प्रति पुरुषप्रवृत्तेः । प्रमाणमेव हि गुणदोषज्ञानम् । न ह्यप्रमाणेन विपर्ययस्य दुष्टत्वं गम्यते, निरोधतत्फलसाधनानि वा ज्ञायन्ते । तस्मात् प्रमाणवृत्तेरेव प्राथम्यं युक्तम् । ज्ञायते च गुणदोषौ प्रमाणेनेति तदनन्तरं विपर्ययाभिधानम् । वृत्त्यन्तरापेक्षया तु विपर्ययस्य प्राथम्यम्। तन्मूलत्वाच्च वृत्त्यन्तराणां तन्निरोधपूर्वमेवान्यनिरोधोपपत्तेः ||
विपर्ययो मिथ्याज्ञानमिति पर्यायकथनम् । अतद्रूपप्रतिष्ठमिति लक्षणोक्तिः | तस्य रूपं तद्रूपं न तद्रूपमतद्रूपं, यदाभासं विज्ञानं तस्य विज्ञानस्य च सा प्रतिष्ठा आलम्बनम् । अगृहीतविशेषस्य सामान्यमात्र-- बुद्धिरुपलब्धपूर्वान्यवस्तुस्मृत्युपसंहिता निश्चयाकारेणोपसंहिता निश्चयाकारेणोपजायमाना विपर्ययः ||
स कस्मान्न प्रमाणम् । यतः प्रमाणेन बाध्यते । भूतार्थविषयत्वात् प्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथा—द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति ।
संशयो ह्युभयोरिदं सामान्यमित्येवं गृहीतसामान्यस्य विशेषमेव बुभुत्समानस्य जायत इति स्मृतावेवान्तर्भवति । यथा स्थाणुः किं वा पुरुष इति गृहीतपूर्वस्यैव विशेषस्य स्मरतः संशयो जायते, न तथा विपर्ययः । अन्यतरस्मरणमात्रेणैवावसितत्वात् । तद्यथा—स्थाणौ पुरस्तादवस्थिते परिणाहारोहणादिसामान्यमात्रोपलम्भेन समुपजातपुरुषस्मरणस्य पुरुष एवायमिति निश्चिता बुद्धिरुत्पद्यते ॥
सा यद्यपीन्द्रियमार्गेणोपलभ्यमानवस्तुसामान्यप्रधाना, तथापि स्मर्यमाणातद्वस्तुप्रतिष्ठत्वान्न प्रमाणम् । स्मृत्यवसाना हि सा, यतः प्रमाणेन प्रबाध्यते अ(आ)भूतार्थ(र्थादि)विषयत्वात् । (इत्यतः प्रतिष्ठत्वादित्येतत्) अभूतो हि स्मर्यमाणोऽर्थस्तदा । यद्येवं स्मृतिरेव प्राप्नोति-न—विशिष्टत्वात् । उपलभ्यमानं वस्तु निमित्तीकृत्यान्यत्र स्मृतिर्जायते यथानुभूतवस्तुविषया । न विपर्ययस्तथा । सन्निहितसामान्यमात्रे देशकालादिविशेषानुगते वस्तुनि स्मरणपर्यवसानत्वे सत्यप्ययमिति विशेषरूपेण विपर्ययप्रत्ययो जायते । तस्मादेवं न प्रमाणधर्मो नापि स्मृतिधर्म इति वृत्त्यन्तरत्वम् ॥
तत्राप्रमाणस्य प्रमाणेन बाधसंदर्शनार्थमुदाहरणं दर्शयति—तद्यथा द्विचन्द्रदर्शनमिति ॥ यथा काचकामलाद्युपहतदर्शनस्याभूतार्थविषयत्वाद्धि द्विचन्द्रदर्शनस्य सद्विषयेण भूतार्थविषयेण एकचन्द्रदर्शनेन द्वितीयचन्द्राभावोपपत्तिज्ञानस्मृत्यनुगृहीतेन बाधनम् ॥
ननु च द्विचन्द्रमिति द्विपूली पञ्चपूलीतिवत् द्विगुसमासत्वात् “द्विगुरेकवचनम्' इति प्रतिलब्धे तद्भावात् ‘अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः’ इति द्विगोरकारान्तात् (इति) द्विचन्द्रशब्दादीकारः प्राप्नोति-नैष दोषः-पात्रादिप्रतिषेधात्। तत्र चादिशब्दस्य प्रकारवचनत्वात्। प्रकारस्य च शिष्टप्रयोगानुसारित्वात् ,
सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति । एत एव स्वसंज्ञाभिः तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति । एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥ ८ ॥