कैवल्यपादः · ४.१९

न तत्स्वाभासं दृश्यत्वात् ॥ १९ ॥

व्यासभाष्यम्

 यथेतराणीन्द्रियाणि शब्दादयश्च दृश्यत्वान्न स्वाभासानि, तथा मनोऽपि प्रत्येतव्यम् ।

विवरणम्

 अपरिणामी पुरुष इति प्रतिज्ञा । सदा ज्ञातविषयत्वादिति हेतुः । वैधर्म्येण चित्तमिन्द्रियाणि च दृष्टान्तः । उपलब्धुश्च विषयिणः प्रकृतत्वात् सदा ज्ञातविषयत्वप्रतिषेधाय मुक्तात्मवदिति दृष्टान्तो नोपपद्यते । मुक्तस्याविषयित्वात् ॥ १८ ॥

स्यादाशङ्का—चित्तमेव स्वाभासं विषयाभासं च भविष्यतीति । ग्राह्यं ग्राहकं चेति । स्वसंविदिताकारा एव हि वृत्तयः । यथा प्रदीपः प्रकाशयति घटादीनात्मानं च । किं पुरुषेण चित्तवृत्त्युपलम्भिना चित्तव्यतिरिक्तेन कल्पितेनेति ॥

 अत्रोच्यते—न तत् स्वाभासं दृश्यत्वात् । यथेतराणीन्द्रियाणि श्रोत्रादीनि विषयाश्च शब्दादयः । न स्वाभासानि इन्द्रियाणि । नापि स्वाभासाः शब्दादयः । दृश्यत्वात् । तथा मनोऽपि प्रत्येतव्यम् । न स्वाभासं चित्तं दृश्यत्वादिति प्रतिपत्तव्यम् ॥

 ननु च अग्निवदेव स्वाभासत्वं विषयाभासत्वं च भवतु, यथैव घटादयः प्रकाश्याः स्वरूपोपलम्भनार्थमालोकान्तरमपेक्षन्ते, न तथा प्रदीपः । यथा प्रदीपः स्वाभासो विषयाभासश्च । तथा मनोऽप्यवभासकत्वादेवं भवतु किमात्मना ? न हि प्रदीपप्रतिपत्तये प्रदीपान्तरमाददते लौकिकाः ॥

 यदि चोपादीयेरन् अनवस्थैव स्यात् । एवं विज्ञानस्यापि व्यतिरिक्तेन ग्राह्यत्वे तस्य चान्येन ग्रहणं तस्य चान्येनेत्येवं प्रसज्येत । किं च विज्ञानस्यावभासात्मकत्वात् ग्राहकस्याप्यवभासरूपत्वात् न परस्परोपकार्योपकारकभावः । तद्यथा प्रदीपयोर्द्वयोः । तस्मात् कल्पितोऽपि विज्ञानस्य ग्रहीता अनर्थक इति, भवतु ज्ञानं स्वाभासं पराभासं चेति ॥
व्यासभाष्यम्

न चाग्निरत्र दृष्टान्तः । न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति । प्रकाशश्चायं प्रकाश्यप्रकाशकसंयोगे दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः ।

विवरणम्

 अत्रोच्यते—तदेतद्दृष्टान्तापशदावष्टम्भेन सकललोकप्रसिद्धमार्गोपारोहिण आत्मनो निराकरणमशक्यम् । कस्मात् ? न चाग्निरत्र दृष्टान्तः । न ह्यग्निरात्मस्वरूपमप्रकाशं प्रकाशयति, यदि चाग्निरप्रकाशः सन् आत्मनैव घटादिवत् प्राकाशयिष्यत, तत उपापत्स्यत दृष्टान्तः । न त्वेवम् । न हि कदाचिदग्निरप्रकाशः ॥


 प्रकाशश्चायम् । स च प्रकाश्यप्रकाशकसंयोगे दृष्टः । न च स्वरूपमात्रेऽस्ति संयोगः । द्वयोर्हि संयोगः । नासति संयोगे स्वरूपावभासकत्वम् ॥


 यदप्युच्यते—घटादिवत् प्रकाशान्तरं नाग्निरपेक्षत इति । तत् प्रकाश्यरूपाभावात् । न तु तस्य घटादिवत् प्रकाश्यं रूपमस्ति । न तावता व्यतिरिक्ताग्राह्यत्वम् । चक्षुषा तुल्यव्यतिरिक्तेन गृह्यत एव ॥


 प्रकाश्यस्य घटादेरवतमसतिरस्काराय प्रकाश उपादायेष्यते । न त्वप्रकाश्यरूपत्वात् । अग्नेरालोकान्तरानाकाङ्क्षणं तु भवतैवाभिहितं—द्वयोः प्रदीपयोर्नास्ति परस्परोपकार इति । यत्र नाम भेदेऽपि द्वयोः प्रदीपयोर्नास्त्यप्रकाश्यरूपत्वादन्योन्योपकारः, किमुत असति भेदेऽत्र प्रकाशान्तरमेव नापेक्षते इति ॥


 न तु व्यतिरिक्तग्राह्यत्वं व्यभिचरति, प्रदीपयोर्दृश्यत्वाद्घटादिवत् । एतेन व्यतिरिक्तग्राह्यत्वं ज्ञानस्य दृश्यत्वात् प्रदीपादिवत् सिद्धं भवति । प्रदीपादिवच्च ज्ञानस्य प्रकाशस्वरूपत्वात् करणान्तरानपेक्षापि सिद्धा । तथा च अनवस्थादोषगन्धो न विद्यते ॥


 यदप्युच्यते—ज्ञानस्यावभासात्मकत्वात् तद्ग्राहकस्याप्यवभासरूपत्वात् न परस्परोपकार्योपकारकभावः प्रदीपयोरिव द्वयोरिति । नासौ दोषः । चक्षुःप्रदीपवदात्मज्ञानयोर्जात्यन्तरत्वात् ॥


 ननु चाहंप्रत्ययेन चित्तं प्रत्ययि गृह्यत इति विषयविषयित्वमेकस्यैव । नैष दोषः । त्रिगुणत्वाच्चित्तस्य । यत्तत्र तमःप्रधानं चित्तं तदन्यया
व्यासभाष्यम्

किं च स्वाभासं चित्तमित्यग्राह्यमेव चित्तं स्यादिति शब्दार्थः । तद्यथा स्वात्मप्रतिष्ठमाकाशम् अप्रतिष्ठम् इत्यर्थः । स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्रवृत्तिर्दृश्यते—क्रुद्धोऽहं भीतोऽहममुत्र मे रागोऽमुत्र मे क्रोध इति । एतत्स्वबुद्धेरग्रहणे न युक्तमिति ॥ १९ ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 4 · Sutras

Read the whole pada →