समाधिपादः

श्रीः

श्रीपतञ्जलये नमः श्रीवेदव्यासाय नमः

श्रीमच्छङ्करभगवत्पादेभ्यो नमः

॥ पातञ्जलयोगसूत्रभाष्यविवरणम् ॥

॥ श्रीमच्छङ्करभगवत्पादप्रणीतम् ॥

॥ समाधिपादः प्रथमः ॥

अथ योगानुशासनम् ॥ १ ॥

व्यासभाष्यम्

 अथेत्ययमधिकारार्थः । योगानुशासनं शास्त्रमधिकृतं वेदितव्यम् ॥

विवरणम्

यस्मिन्न स्तः कर्मविपाकौ यत आस्तां
क्लेशा यस्मै नालमलङ्घ्या निखिलानाम् ।
नावच्छिन्नः कालदृशा यः कलयन्त्या
लोकेशस्तं कैटभशत्रुं प्रणमामि ॥ १


यः सर्ववित् सर्वविभूतिशक्तिः
विहीनदोषोपहितक्रियाफलः ।
विश्वोद्भवान्तस्थितिहेतुरीशो
नमोऽस्तु तस्मै गुरवे गुरोरपि ॥ २

 अथेत्यादिपातञ्जलयोगशास्त्र[सूत्रभाष्य]विवरणमारभ्यते । तत्रानाख्यातसम्बन्धप्रयोजनं न पुरुषप्रवृत्तिनिवृत्तिभ्यां पर्याप्नोतीति, सूत्रकाराभिप्रेते पुरुषप्रवृत्तिनिमित्तभूते सम्बन्धप्रयोजने पूर्वं प्रकटीक्रियेते ॥

तत्र प्रयोजनं तावत्—चिकित्साशास्त्रे तच्चतुर्व्यूहत्वप्रदर्शनद्वारेण व्याख्यातम् । तद्यथा—चिकित्साशास्त्रं चतुर्व्यूहं, रोगः, रोगहेतुः, आरोग्यं, भैषज्यम् इति । विधिप्रतिषेधनियमद्वारेण [च तत्] चतुर्व्यूहविषयव्याख्यानपरम् । एवमिहापि “परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः” इत्यारभ्य चतुर्व्यूहत्वं शास्त्रस्य प्रदर्शितम् । तद्यथा—दुःखप्रचुरः संसारो हेयः । तस्याविद्यानिमित्तो द्रष्टृदृश्यसंयोगो हेतुः । विवेकख्यातिरविप्लवा हानोपायः । विवेकख्यातौ च सत्यामविद्यानिवृत्तिः, तन्निवृत्तावात्यन्तिको द्रष्टृदृश्यसंयोगोपरमो हानम्, तदेव कैवल्यमिति । आरोग्यस्थानीयकैवल्यप्रयुक्तत्वादस्य तदेव कैवल्यं प्रयोजनम् ॥

ननु च हेयतद्धेतू न प्रस्तोतव्ये, निष्प्रयोजनत्वात् । हानप्रयुक्तं हि शास्त्रं, तदुपायभूता विवेकख्यातिरेव वक्तव्या । न हि कण्टकविद्धचरणतलस्य तदपनयनं मुक्त्वा दुःखतद्धेतू चोद्येते । नैतदेवं—हेयतत्कारणापेक्षत्वाद्धानोपायस्य । यावदिदमनेनोपायेन हातव्यं संसारचक्रम् अस्य चाविद्यानिमित्तो द्रष्टृदृश्यसंयोगो हेतुः इति नाख्यायते, तावन्नाविद्याप्रतिपक्षभूता विवेकख्यातिराख्यातुं शक्यते । हेयतद्धेतुमतो हानोपायार्थिनो रोगिणो भैषज्यार्थित्वदर्शनात् । न हि रोगं रोगहेतुं चानपेक्ष्य चिकित्साशास्त्रमुपदिश्यते ॥

सम्बन्धोऽपि—विवेकख्यातेर्हानमेव फलं साध्यं हानस्यापि विवेकख्यातिरेव साधनमिति साध्यसाधनयोरितरेतरनियम एव, नान्यसंबन्धः । तद्यथा—भैषज्यस्यारोग्यमेव फलम् आरोग्यस्यापि भैषज्यमेव साधनमिति इतरेतरनियमः, स च शास्त्रादिति । तस्मात् ससंबन्धप्रयोजनं योगानुशासनम् ।

ननु च यदि हानं प्रयोजनं तदुपायश्च विवेकख्यातिरिति, तत्र वक्तव्यम् ‘अथ विवेकख्यात्यनुशासनम्’ इति । किमर्थम् ‘अथ योगानुशासनम्’ इति सूत्रितम् ?

तदुपायत्वाद्योगस्य । उपाय एव वक्तव्यः स्यात् । उपेयोपप्रदर्शने हि उपेयमुपायं प्रति साकाङ्क्षमेवेत्युपायः साङ्गकलापः पुनरपि वक्तव्यः स्यात् । तस्मिंश्चाभिहिते सर्वमभिहितमिति ।

कथं तदुपायत्वम् ? यत आह सूत्रकारः—‘योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः’ इति । ‘निर्विचारवैशारद्येऽध्यात्मप्रसादः’ ‘ऋतंभरा तत्र प्रज्ञा’ इति च । तथा भाष्यकारोऽप्याह—‘यस्त्वेकाग्रे चेतसि स भूतमर्थं प्रद्योतयति’ इति । भूतार्थावगतिश्च विवेकख्यातिः । तस्माद्युक्तं तदुपाययोगानुशासनमेवादौ सूत्रितमिति ॥

ननु च योगाङ्गानुष्ठानाद्विवेकख्यातिः, तत्र वक्तव्यं ‘अथ योगाङ्गानुशासनम्’ इति—न—फलेनोपक्रमात् । योगाङ्गानुष्ठानस्य हि फलं योग इति तदुपक्रमो युक्तः ॥

यद्येवं हानेनोपक्रम्येत—न—तस्योपेयत्वात्—उपेयमेव हि तत् । योगः पुनः स्वाङ्गानामुपेयश्च, उपायश्च विवेकख्यातेरणिमादिप्राप्तेश्चेत्यभ्यर्हिततरः । फलतदुपायरूपत्वात् (फलप्राप्तिनिमित्तत्वात्) ॥

उत्तरसूत्रार्थत्वाच्च । न हि ‘अथ योगाङ्गानुशासनम्’ इत्युक्ते ‘योगश्चित्तवृत्तिनिरोधः’ इति युक्तं वक्तुम् । तदा हि ‘यमनियमा’दिसूत्रमेव पठितव्यं स्यात् ॥

अथ तदेव पठितव्यमिति चेत्—न—योगोपे(पा)यया हानोपायभूताया विवेकख्यातेः, फलस्य च हानस्य, संबन्ध[प्र]दर्शनार्थत्वात् ‘योगश्चित्तवृत्तिनिरोधः’ इत्यस्य ॥

(स)कथं पुनरेतत्संबन्धप्रदर्शनार्थम् ? यावता निर्बीजसमाधिलक्षणाभिधानमेतत् । सत्यमेवं, तथापि हानतदुपायसंबन्धमवद्योतयदेव सूत्रं निर्बीजसमाधिलक्षणतामापद्यते ॥

न हि निरोधलक्षणात् समाधेरर्थान्तरं हानम् । किं त्वेतावता विशेषः, निरोधलक्षणसमाधौ (धेर्न) पुनः प्रवृत्तिः, हाने त्वात्यन्तिकी निवृत्तिरिति । समाध्यवस्थायां तु हानाविशेष एव । तथा चाह—“तदा द्रष्टुः स्वरूपेऽवस्थानम्” [इति] । “स्वरूपप्रतिष्ठा च चितिशक्तिः कैवल्यम्” इति स्वरूपप्रतिष्ठत्वं(ष्ठं) हि कैवल्यमाह । ततश्च निर्बीजसमाधिना कैवल्यमेव शास्त्रार्थप्रत्ययद्रढिम्ने साक्षात्क्रियते ॥


 तस्माद्यदुच्यते कैश्चित् [स]बीजसमाधिः कैवल्यसाधनमिति—तन्न ! किं तर्हि? ख्यातिरेव साधनमविद्यानिवृतिद्वारेण । अविद्यानिमित्तो हि बन्धः । तस्माद्यद्यपि योगानुशासनं सूत्रितम् , तथापि ख्यात्यर्थत्वाद्योगस्य तद्द्वारेण ख्यातिहानसंबन्धमपि दर्शयतीति, सुष्टूच्यते उत्तरसूत्रसंबन्धार्थं च योगानुशासनमिति सूत्रयितव्यमिति ॥

 यद्यपि फलार्थिनां तत्फलसाधनं प्रत्युत्पन्नाकाङ्क्षाणां साधनोपदेशोऽप्यास्ति । तथापि न तत्प्रयोजनम्, सर्वस्य फलोद्देशेन प्रवृत्तेस्तदेव प्रयोजनमिति ॥ योगानुशासनमिति । यथा - शिष्योऽनुशिष्यते विशिष्टप्रवृत्तिनि

 वृत्तिनियमद्वारेण, तथा विशिष्टसाध्यसाधनतदङ्गनियममात्रसादृश्यादन्तेवास्यनु शासनवद्योगानुशासनमित्युच्यते । अनुशिष्टिरनुशासनं, योगोऽनुशिष्यतेऽनेनास्मिन्निति वा योगानुशासनं शास्त्रम् ॥

 अथेत्ययमधिकारार्थः।अधिकार आरम्भः प्रस्तावः, अर्थोऽभिधेयोऽस्य ; शिष्टस्मृतिप्रामाण्यात् । ननु चानन्तर्यार्थस्याथशब्दस्य स्मरन्ति शिष्टाः । तथा चाह—“वृत्तादनन्तरस्य प्रक्रियार्थो १दृष्टः” इति । न—सर्वत्रारम्भार्थत्वात् । आनन्तर्यस्य च गम्यमानत्वात् । यथा पुत्र इत्युक्ते पिता गम्यते, न च पुत्रशब्दस्यार्थः पिता, तथेहाप्यारम्भ एवाभिधीयते, आनन्तर्यं तु प्रतीयते ॥

 अत एव च *वृत्तादनन्तरस्य प्रक्रियार्थो दृष्टः* इत्युच्यते । यदि चानन्तर्यार्थोऽभविष्यत्तदा *वृत्तादानन्तर्येऽर्थे प्रक्रियायाः? इत्यवदिष्यत् । अनन्तरस्येति चानन्तरभाविन एवाभिधानम् । अपि चैवं हि स्मृतिः-**किञ्चिदव्ययं२ विभक्त्यर्थप्रधानं किञ्चित्क्रियाप्रधानम् । उचैर्नीचैरित्यादि विभक्त्यर्थप्रधानम् , हिरुक् पृथगित्यादि क्रियाप्रधानम्' (इति] । न चैतद्वयतिरेकेणाव्ययानामर्थो विद्यते । तत्राथशब्दस्यानन्तर्यार्थत्वे सति विभक्त्य(क्ति)श्रवणमयुक्तम्, सत्त्वप्रधानत्वात् । आरम्भक्रियार्थत्वे तु न विभक्त्य(र्थ)श्रवणमयुक्तम्, असत्त्वप्रधानत्वादिति ।

 तस्मादथशब्दः प्रस्तावार्थ एवेति युक्तमथेत्यधिकारार्थ इति । स्वरूपावद्योतनार्थ इतिशब्दः । यथा गौरित्याहेति । प्रसिद्धोऽप्यथशब्दार्थोऽधिक्रियमाण- विषये शिष्यबुद्धिसमाधानार्थं कीर्त्यते । सिद्धो ह्ययं न्यायः श्रुतौ ३“व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्व” इति ॥


व्यासभाष्यम्

 योगः समाधिः । स च सार्वभौमश्चित्तस्य धर्मः । क्षिप्तं, मूढं, विक्षिप्तं, एकाग्रं, निरुद्धम् इति चित्तभूमयः ॥

विवरणम्

 कः पुनर्योगो यस्यानुशासनं प्रस्तुतमिति-आह--योगः समाधिरिति ॥ समाधिग्रहणात् 'युजिर्योगे' इति निवर्त्य, 'युज समाधौ' इत्ययं गृहीतः । योगः समाधानम् । ननु च ‘योगः समाधिः’ इत्येवमन्तेन व्याख्याते सूत्रे ‘स च सार्वभौमः’ इत्यादिभाष्यमसंबन्धं दृश्यते । नैष दोषः । इह समाधिरित्युक्ते, समाधीयमानापेक्षत्वात्, समाधीयमानानां च बहुत्वात् , किमात्मा समाधीयते ? किं वा शरीरम्, आहोस्विदिन्द्रियाणि, इति बहु(विदां)धा विप्रतिपत्तेः, स्वविशेषणाकाङ्क्षत्वाच्च समाधेः, कस्यायम्? किंविशेषणकः? इत्यनुषक्ते प्रश्ने, इदमाह-स च सार्वभौमश्चित्तस्य धर्म इति । चित्तस्य धर्मो नात्मादीनाम् । तच्च चित्तं स्वयमेव समाधीयते [समाधात्र]न्तरनिरपेक्षत्वात् ॥

 काः पुनर्भूमय इत्यत आह-क्षिप्तं मूढमित्यादयो भूमय इति । क्षिप्तमिति कर्मकर्तरि निष्ठा । यथा भिन्नः कुसूलः स्वयमेवेति । क्षिप्तमनिष्टविषयासञ्जनेन स्तिमितम् । मूढं निर्विवेकम् । विक्षिप्तं नानाक्षिप्तम् । कर्मकर्तर्येव । विवेकाक्षमं च विक्षिप्तत्वादेव । एकाग्रं तुल्यप्रत्ययप्रवाहम् । निरुद्धमिति प्रत्ययशून्यं चित्तम् ॥

 ननु च भूमिषु धर्मेषु विवक्षितेषु, किमर्थं क्षिप्तमित्यादिना धर्म्युच्यते ? नैष दोषः, धर्मिणा धर्म एवोपदिश्यते । धर्माणां धर्मिविषयत्वात् । यथा गोत्वे किं लिङ्गमिति पृष्टे, विषाणी ककुद्मान् प्रान्तवालधिरिति धर्मिणा धर्म एवोपदिश्यते । तस्मात् क्षेपादयश्चित्तस्य भूमयो धर्मा इत्यर्थः ॥

 ननु च भूमीनां चित्तधर्मत्वे समाधेश्च, कथं भूमिभिः समाधिराधारत्वेन विशेष्यते सार्वभौम इति ? सामान्यभूतत्वात् समाधेः । भूमीनां च विशेषत्वात् । यथा क्षिप्तं तिष्ठति, मूढं तिष्ठति, विक्षिप्तमेकाग्रं चेति, क्षिप्तादिभूमिषु स्थितिरनुवर्तते सामान्यम् । स्थितिश्च समाधिः । तस्मात् सामान्यरूपं सर्वासु भूमिषु प्राधान्येन वर्तत इति । ‘सर्वभूमिपृथिवी' इत्यैश्वर्यार्थीयोऽण्प्रत्ययः । अनुशतिकादित्वादुभयपदवृद्धिः ॥

 अन्ये पुनर्बाह्याध्यात्मिकान् संयमविषयान् भूमय इत्याचक्षते । तेषां विक्षिप्ते चेतसि इति सामानाधिकरण्यानुपपत्तिः । स्ववचनविरोधश्च कथम् ?

 क्षिप्यतेऽस्मिन्निति क्षिप्तम् , मुह्यतेऽस्मिन्निति मूढं, यदा चैवं न तदा संयमविषयता । तत्र क्षेपाद्यसंभवात् । एकाग्रावस्थायां हि संयमो भवति ।

 किं चान्यत्-क्षिपेश्च ध्रौव्याद्यर्थाभावादधिकरणे निष्ठाप्रत्ययाभावः। किं च-निरुद्धे चेतसि संयमस्यापि तत्राभावात् वृत्तिशून्यत्वात् संयमविषयाभावः । न हि निरोधे विषयविशेषे चित्तं निरुध्यते । तदा हि विषयित्वान्निवर्तते । परिगणनानुपपत्तिश्च । न हि क्षिप्तादयः पञ्चैव संयमस्य विषयाः । तेषामानन्त्यात् ॥

 ननु चान्यथा योगं केचिदिच्छन्ति । तथा चाहुः--**इन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखे, तदनारम्भ आत्मस्थे मनसि, [स]शरीरस्य सुखदुःखाभावः प्राणमनोविनिग्रहापेक्षः संयोगो [योग] इति” । तदिति प्रकृतापेक्षम् । योऽसौ सुखदुःखयोरात्मेन्द्रियमनोऽर्थसन्निकर्षो हेतुः, तस्यानारम्भः तदनुत्पत्तिः । स कथं भवति ? आत्मस्थे मनसि, नेन्द्रियस्थे । सशरीरस्य अविशीर्णशरीरस्य । तदा कारणाभावात् कार्याभाव इति, सन्निकर्षाभावे सुखदुःखयोरप्यभावः, तस्यामवस्थायां योऽसौ विभोरात्मनो मनसा संयोगः स प्राणमनोविनिग्रहापेक्षः संयोगविशेषो योग इति ।

 अत्रोच्यते-आत्मस्थे मनसीत्ययुक्तम्, सर्वदा आत्मस्थत्वान्मनसः । इन्द्रियादिसन्निकर्षानारम्भापेक्षया आत्मस्थे इति चेत्, तदनारम्भ इत्येव सिद्धत्वादात्मस्थे मनसीत्यनर्थकं स्यात् ॥

 किं चान्यत्-मुक्तस्यापि मनस आत्मस्थत्वादिन्द्रियसन्निकर्षाभावाञ्च योगः प्राप्नोति । तस्यापि हि सर्वगतत्वात् मनसश्च नित्यत्वात् सर्वदात्मस्थत्वमेव ॥ किं च-आत्मनः प्रदेशाभावादात्मस्थ इत्ययुक्तम् । न चाप्युपचरितात्मप्रदेशसंयोगः परमार्थस्य योगस्य हेतुः स्यात् । उपचरितस्य मिथ्यात्वात् ॥

 किं चान्यत्-मनोऽर्थसन्निकर्षाभाव इत्येव सिद्धेः(द्धं)इन्द्रियग्रहणमनर्थकं स्यात् । अथेन्द्रियैर्विना मनोऽर्थसन्निकर्षाभावात्तदनारम्भ इति प्राप्त्यभावे प्रतिषेधो न युक्त इति चेत् । नैतदेवम्, विनेन्द्रियैर्मनोऽर्थसन्निकर्षो नास्तीत्यर्थात्सन्निकर्षप्रतिषेधं कुर्वता विषयप्राप्तिरिन्द्रियद्वारा प्रतिपादिता स्यात् ॥

 किं चान्यत्-सर्वप्राणभाजामिन्द्रियमनोऽर्थसन्निकर्षात् सुखदुःखप्रतिलम्भस्य प्रसिद्धत्वादात्मनः सम्बन्धस्य च नित्यत्वात् सुखदुःखाभावो योग इत्येव सिद्धेः, तत्र [सूत्र] शेषोऽनर्थकः स्यात् ॥

व्यासभाष्यम्

तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते ॥

विवरणम्

 अथापि स्यादिन्द्रियमनोऽर्थसन्निकर्षग्रहणादृते सुखदुःखाभाव इत्येतावति सति मुक्तस्यापि सुखदुःखाभावाद्योगित्वप्रसङ्ग इति तन्निवृत्त्यर्थं सूत्रशेषग्रहणमिति । तच्च न, मुक्तस्य सुखदुःखप्राप्त्यभावात् , प्राप्तिपूर्वप्रतिषेधस्य न्याय्यत्वात् , यस्य सुखदुःखप्राप्तिः, तद्विषयः सुखदुःखाभाव एव योग इति सूत्रशेषप्रत्याख्यानं युज्यते।

 किं चान्यत्—उपात्तेऽपि सशरीरग्रहणे मुक्ताद्विनिवृत्तिर्न शक्यते कर्तुम् , निष्प्रयोजनत्वात् । सुखदुःखाभावश्चेद्योगः, विद्यमानमपि शरीरं कार्याकरणादनर्थकं स्यात् । कार्यानपेक्षायां हि मुक्तामुक्तयोरविशेष एव ॥

 कि चान्यत्---प्राणमनोविनिग्रहापेक्ष इत्यपि न घटते । विधारकस्य प्रयत्नस्यात्मसमवेतत्वादविद्यमानेऽपि मनसः क्रियावत्त्वे इन्द्रियेणासंयुज्य मनः प्राण- [मनो]निग्रहौ न कर्तुं पर्याप्यते । इन्द्रियसंयोगे च मनसः तदनारम्भ इत्ययुक्तम् । मनसश्च प्राणनिग्रहे व्यापृ(वृ)तत्वादनारम्भानुपपत्तिः ।  न चासति इन्द्रियवायुसन्निकर्षे प्राणनिग्रहः । न चानिगृहीते प्राणे योगः, आत्मस्थविधारकप्रयत्नद्वारा मनोगतक्रियासंबन्धहेतुत्वात् प्राणनिग्रहस्य । अथापि स्याद्योगः समाधिरिति । तच्च न, निष्क्रियत्वादात्मनो नित्यसमाधानमेव । स्थितिश्च समाधिरित्युच्यते । तस्माद्युक्तमभिधीयते—‘स च सार्वभौम श्चित्तस्य धर्मः’ इति ॥

 यद्येवं समाधिश्चेद्योगः , स च सार्वभौमश्चित्तधर्मः, स च सर्वजनानाम- यत्नसिद्धः, क्षिप्ताद्यनुगतत्वात् । तथा च सति, यथैव श्वासप्रश्वासादीनां प्रयत्नादृते सिद्धत्वात्तत्करणम(ल्लक्षणम)नर्थकम् , एवं योगानुशासनमप्यनर्थकं प्राप्तमित्यत आह--[तत्र] विक्षिप्ते (अनविक्षिप्ते) चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तत इति । क्षिप्ताद्यनुगतस्य योगपक्षेऽनभिप्रेतत्वात् । न हि क्षेपाद्यनुगतः समाधिर्भूतार्थावद्योतनादिक्षमः, क्षेपादिप्रधानत्वात् । विक्षेपनिषेधेनैव हि प्रधानमल्लनिबर्हणन्यायेन क्षिप्तमूढयोरपि निषेधः कृतः । प्रधानता च विक्षेपसमाधेरधिकारयोग्यत्वात् । विक्षेपस्थं हि चित्तमपक्षपातादिष्टं विषयमुपनेतुं शक्यते । न हि विषयासञ्जनादिना क्षिप्तमिष्टविषयवियोगादिना वा मूढमन्यथोपनेतुं पार्यते |

व्यासभाष्यम्

 यस्त्वेकाग्रे चेतसि स भूत(सद्भूत)मर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमा(मभि)मुखी(खं)करोति स संप्रज्ञातः(योग)इत्याख्यायते ॥  स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टात् (नि)प्रवेदयिष्यामः ॥ १ ॥

विवरणम्

 योगपक्ष इति ॥ समाधित्वे सत्यपि कार्याकरणात् पक्ष इत्युच्यते । यथा गच्छतः प्रतिपदं विद्यमानापि स्थितिः स्थितिकार्याकरणान्न स्थितिरित्युच्यते । विक्षेपोपसर्जनीभूतत्वं विक्षेपस्यैकसमाधिव्यक्त्यभिप्रायेण । सार्वभौम इति तु प्राधान्यं, सामान्येन सर्वभूमिषु वृत्तेः ॥

 यद्युपसर्जनीभावः समाधिपक्षावृत्तौ कारणम् , इहाप्येकाग्रे एकाग्रतोपसर्जनत्वं स्यात् । ततश्च योगपक्षावृत्तिरिति चेदत आह-यस्त्वेकाग्र इति । नैकाग्रतायां भूम्युपसर्जनत्वम् । कुतः ? क्लेशकर्माप्रबलत्वात् । क्लेशकर्माप्रबलत्वे न हि विक्षेपादीनामुदयः ।

 एकाग्रताभूमौ समाधिर्यः स भूतमर्थं यथात्मानं प्रद्योतयति अवगमयति । अयोग्यर्थज्ञानमयथाभूतत्वगन्धितमेवेति भूतग्रहणम् । क्षिणोति, क्षपयति, पञ्चपर्वणोऽविद्यादीन् क्लेशान् । कर्मबन्धनानि, कर्माण्येव बन्धनानि, धर्माधर्मविमिश्रकर्मजातानि जन्मादिनिबन्धनानि, श्लथयति, शिथिलीकरोति, निरोधमामुखीकरोति, अभिमुखीकरोति । स सम्प्रज्ञात इत्याख्यायते आचार्यैः ॥

 स च वितर्कानुगतो विचारानुगत इत्यादिभाष्यम् । सम्प्रज्ञातस्य प्राथम्याल्लक्षणाभिधाने प्राप्ते, अभ्यर्हितत्वादसम्प्रज्ञातस्यैव लक्षणं युक्तमिह वक्तुमिति सम्प्रज्ञातमुपरिष्टात् प्रवेदयिष्याम इत्युच्यते । इतश्चासम्प्रज्ञातस्य लक्षणमिहैव वक्तव्यं, सम्प्रज्ञातनिरपेक्षोऽप्यसम्प्रज्ञातः पर(प्रकृष्ट)वैराग्यविरामप्रत्ययाभ्यासाभ्यां सिध्यतीत्येतत्प्रदर्शनार्थम् । इह सम्प्रज्ञातलक्षणाभिधाने तदुत्तरकाले चासम्प्रज्ञातलक्षणाभिधाने सम्प्रज्ञातापेक्षयैव असम्प्रज्ञातसमाधावधिकार इत्याशङ्का स्यात्, तस्मादुपरिष्टात् प्रवेदयिष्याम इत्याह ॥ १ ॥

व्यासभाष्यम्

  सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः (समाधिः) । तस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते—

योगश्चित्तवृत्तिनिरोधः ॥ २ ॥

व्यासभाष्यम्

सर्वशब्दाग्रहणात् संप्रज्ञातोऽपि योग इत्याख्यायते ।

विवरणम्

 सर्ववृत्तिनिरोधे त्वसंप्रज्ञात इति । तुशब्दोऽवधारणार्थः । तस्य एवंविधस्य समाधेरसंप्रज्ञातस्यैव केवलस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते प्रवृत्तं ‘योगश्चित्तवृत्तिनिरोधः’ इ[ती]ति वक्तव्यम् ॥

 ननु च तस्य लक्षणमभिधातुमेतत् सूत्रं प्रवृत्तं, तथा च सति ‘योगस्य चित्तवृत्तिनिरोधः’ इति वक्तव्यं, सामानाधिकरण्यं न युक्तम् । न हि लक्ष्यमेव लक्षणं स्यात् । चित्तवृत्तिनिरोधलक्षण इति वा वक्तव्यम् । नैष दोषः । लक्ष्ये लक्षणाध्यासात् । यथाऽयं पिण्डो देवदत्त इति लक्ष्ये लक्षणमध्यस्यते (प्रत्यस्यते) ॥

 ननु च सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः, तस्य चेदं लक्षणं, ततश्च ‘योगः सर्वचित्तवृत्तिनिरोधः’ इति वक्तव्यम् । न चोक्तम् । अतोऽतिव्यापि लक्षणम् । सर्वशब्दाग्रहणे तावत्कारणमुच्यते-यदि सर्वग्रहणं क्रियते, तदैकदेशनिरोधनिमित्तस्य संप्रज्ञातस्य योगत्वं निवर्तितं स्यात् । तन्माभूदिति सर्वशब्दाग्रहणम् ॥

 अस्तु तर्हि संप्रज्ञातासंप्रज्ञातयोः सामान्यलक्षणं, विशेषानुपादानात् । नैष दोषः । योगे प्रकृते पुनर्योगग्रहणात् । विशेषाविवक्षायां हि योगग्रहणं नार्थवत् स्यात् ॥

 ननु चानुशासने न्यग्भूतत्वाद्योगस्य इह योगग्रहणे असति चित्तवृत्तिनिरोध इत्युक्तेऽनुशासनार्थता भवेत् सूत्रस्य-नैवं-योगानुशासनस्य प्रस्तुतत्वात् । योगानुशासनं हि प्रारब्धं, नायोगानुशासनं, तल्लक्षणाभिधाने ह्यतिप्रसङ्गः, पदार्थासङ्गतिश्च । न हि चित्तवृतिनिरोधो योगानुशासनमिति पदार्थः सङ्गच्छते ॥

 एवमपि योगग्रहणात् कुतोऽसंप्रज्ञातस्यैव लक्षणं, न पुनः संप्रज्ञातस्य लक्षणं स्यातू, योगग्रहणस्याविशिष्टत्वादिति ?

व्यासभाष्यम्

 चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम् । प्रख्यास्वरूपं हि चित्तसत्त्वम्

विवरणम्

 उच्यते--अव्यभिचारात् । व्यभिचरति न तत्तस्य लक्षणं, निरोधस्त्वसंप्रज्ञातेऽपि वर्तत” इति संप्रज्ञातं व्यभिचरति । न हि विषाणित्वं गोर्लिङ्गं, महिष्यादिभिर्व्यभिचारात् ॥

 ननु चासंप्रज्ञातमपि व्यभिचरति, संप्रज्ञातस्यापि हेयवृत्तिनिरोधत्वात् । सत्यमेवं, किं तु न निरोधादन्येन लक्षयितुमसंप्रज्ञातः शक्यते । निरोध एव तु तस्य लक्षणम्, अन्यस्याभावात् । संप्रज्ञातस्य त्वसाधारणवितर्कादिलक्षणलक्ष्यत्वात् । यथा स्पर्शलक्षणमित्युक्ते वायुरेवासाधारण्याल्लक्ष्यते स्पर्शवत्त्वेन, अथ च विद्यत एव स्पर्शवत्त्वं तेजःप्रभृतिष्वपि ॥

 एवं च सति योगग्रहणमनुवादमात्रम् । अत एव च सर्वग्रहणं न कृतं सूत्रे । निरोधग्रहणेनैवासंप्रज्ञातलक्षणत्वे सिद्धे यदि सर्वग्रहणं क्रियेत, तत्संप्रज्ञातस्य योगतां निवारयेत् । तस्मादसंप्रज्ञातस्यैवेदं लक्षणम् । तथा चोपसंहरति भाष्यकारः-*न तत्र किंचित् संप्रज्ञायते इत्यसंप्रज्ञातः, स योगश्चित्तवृत्तिनिरोध' इति ।

 चित्ततद्वृत्तितन्निरोधव्याचिख्यासया चित्तं हीत्यादि भाष्यम् । किमात्मकं पुनस्तच्चित्तं, यस्य वृत्तिनिरोधो योग इत्यत आह-चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणमिति । तत्र चित्तं त्रिगुणमिति व्याख्यायते, प्रख्याप्रवृत्तिस्थितिशीलत्वादिति हेतुः । प्रख्या प्रख्यानं प्रकाशनं, स हि सत्त्वगुणस्य धर्मः । प्रवृत्तिः प्रवर्तनं व्यापारः, स हि रजोधर्मः । स्थितिः स्थानं वरणं प्रतिबन्ध इति, स च तमोधर्मः । एवंशीलाः हि सत्त्वादयो गुणाः, चित्तं च प्रख्यादिशीलं, तस्मात् त्रयाणां गुणानां परिणामश्चित्तं भवितुमर्हति ।

 तस्य च प्रख्यादिहेतोरसिद्विमाशंक्याह-प्रख्यास्वरूपं हि चित्तसत्त्वमिति । हिशब्दः प्रसिद्धावद्योतनार्थः । प्रसिद्धं हि लोके शास्त्रे च सर्वावभासकत्वं चित्तस्य । चित्तमेव सत्त्वं चित्तसत्त्वं सत्त्वप्रधानगुणपरिणामत्वात् ॥

 अथवा अन्यसंसर्गवियोगाभ्यामनेकवृत्ति ख्यातिमात्रं च चित्तं स्पष्टं दर्शयितुं शक्यत इति ब्रवीति-प्रख्यास्वरूपं हि चित्तसत्त्वमिति ॥

व्यासभाष्यम्

रजस्तमोभ्यां संसृष्टम् ऐश्वर्यविषयप्रियं भवति । तत्तमसानुविद्धम् अधर्माज्ञानावैराग्यानैश्वर्योपगं भवति ।

 तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्चर्योपगं भवति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत् परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः ।

 चितिशक्तिरपरिणामिनी अप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च ।

विवरणम्

 इदानीं वृत्तयो व्याख्यायन्ते । तासां चानेकत्वं रजस्तमसोरुद्भवाभिभवनिमित्तं विरुद्धत्वं चेत्याह-रजस्तमोभ्यां संसृष्टं समप्रधानाभ्यां यदा संसृष्टं तदानीं ऐश्वर्यविषयप्रियं भवति ॥ प्रीतिः रागः, ऐश्वर्यविषयरागयुक्ता वृत्तयो भवन्तीत्यर्थः ।

 तत्तमसानुविद्धं ॥ तदेव प्रख्यास्वरूपं चित्तं यदा गुणभूतरजस्केनोद्भूतेन तमसानुविद्धं, तदानीमधर्मादिचतुष्टयविषया वृत्तयः क्लिष्टा जायन्ते ॥

 तदेव प्रक्षीणमोहावरणमिति ॥ न्यग्भूततमस्कं तमःक्षयादेव जलधरापगमादिव (परि) रविबिम्बं सर्वतः प्रद्योतमानं रजोमात्रया रजोलेशेन अनुविद्धं यदा तदा धर्माद्युपगतं । धर्मादिचतुष्टयविषया वृत्तयोऽक्लिष्टा भवन्ति ॥

 यदा तदेव रजो[लेश]मलोपेतं स्वरूपप्रतिष्ठं केवलेन स्वेन प्रख्यारूपेणावस्थितं, तदा सत्त्वपुरुषान्यताख्यातिमात्रं भवति । सत्त्वं चित्तं पुरुषो भोक्ता तयोरन्यता विविक्तता तत्ख्यातिः तदवगमः, तन्मात्रग्रहणं क्लेशाद्यभावप्रदर्शनार्थम् । धर्ममेघध्यानोपगं भवति धर्ममेघो नाम समाधिः ॥

 तदेव प्रसंख्यानबलाद्रजस्तमसी तिरस्कृत्य केवलेन ख्यात्यात्मना पुरुषस्वरूपमात्रदर्शनेन अवस्थानं ध्यानं प्रसंख्यानमित्याचक्षते, ध्यायिनो योगिनः ॥ एवं वृत्तिस्वरूपे व्याख्याते तन्निरोधप्रदर्शनार्थमाह--चित्तशक्तिरित्यादि ॥ चितिरेव शक्तिः चितिशक्तिः । यथा पच्यादयः शक्तयः शक्तिमदपेक्षाप्रापणीय - जन्मानो न स्वयंशक्तयः । चितिः पुनः स्वयमेव शक्तिः, नार्थान्तरमपेक्षते ।

व्यासभाष्यम्

 सत्त्वगुणात्मिका चेयमतो विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किंचित् संप्रज्ञायत इत्यसंप्रज्ञातः । (द्विविधः) स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥

विवरणम्

 तेन नित्यावस्थितत्वम् । चितिशब्दस्य चिन्मात्राभिधायिनः शक्तिशब्देन सामानाधिकरण्यमविकृतरूपाया एव चितेर्विषयित्वप्रदर्शनार्थम् ॥

 यस्मादेवमतोऽपरिणामिनी । व्यवस्थिते धर्मिणि धर्मान्तरतिरोभावेन धर्मान्तरप्रादुर्भावः परिणामः । न परिणमितुं शीलमस्या इत्यपरिणामिनी । अत एव अप्रतिसङ्क्रमा, परिणामिन एव चित्तादेर्विषयादौ प्रतिसङ्क्रमदर्शनात् ॥

 अत एव दर्शितविषया दर्शितोऽन्तःकरणेन विषयोऽस्या इति । तेनैव शुद्धा । अत एव अनन्ता देशतः कालतश्च । पूर्वपूर्वमुत्तरस्योत्तरस्य हेतुत्वेन द्रष्टव्यम् । वैधर्म्यदृष्टान्तश्चित्तमिन्द्रियाणि च । सत्त्वगुणात्मिका सत्त्वमेव गुणः सत्त्वगुणः तस्येवात्मा स्वरूपमवभासो यस्याः सेयं सत्त्वगुणात्मिका अवभासस्वरूपेत्यर्थः । वृत्त्यविशिष्टवृत्तित्वाद्वा सत्त्वगुणात्मिकेप्युच्यते ॥

 यदि वा ख्यात्या संबध्यते ख्यातिः सत्त्वगुणात्मिकेति । अतः चितिशक्तेरुक्तलक्षणाया विपरीता विलक्षणा विवेकख्यातिः परिणामादिमती ॥ यस्मात् पुरुषादुत्कृष्टात् परिणामादिगुणविरहितान्निकृष्टा परिणामादिगुणयुक्ता, अतः स्वरूपदोषदर्शनात् तस्यां विरक्तं अपरक्तं तामपि ख्यातिं आत्मनो निरुणद्धि ॥ तदवस्थं निरोधावस्थं, संस्कारोपगं, संस्कारमात्रावशेषम् । निरुद्धासु वृत्तिषु वृत्तिजनिताः संस्कारा एवावशिष्यन्ते । एतस्यां निरोधभूमौ यः समाधिः स निर्बीजः । निर्गतं बीजमत्र क्लेशादिबीजं सर्वमुत्सन्नमस्मिन्निति । तस्मादसंप्रज्ञातसमाधिलक्षणार्थमेव सूत्रमित्युपसंहरति—स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥

 योगश्चित्तवृत्तिनिरोध इत्युक्तं, तत्र बोद्धृत्वेनैव पुरुषसद्भावाधिगमः, विषयभूतवृत्तिनिरोधे च विषयिणोऽपि बोद्धुः पुरुषस्य निरोधं कश्चिदाशङ्केतापि, तथा च सति तत्कैवल्यप्राप्त्युपायस्यापि विवेकख्यातेरनर्थकत्वं मन्वीत

व्यासभाष्यम्

 तदवस्थे चेतसि स्वविषयाभावात् बुद्धिबोधात्मा पुरुषः किंस्वभाव इति—

 तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३ ॥

व्यासभाष्यम्

 स्वरूपप्रतिष्ठा तदानीं चितिशक्तिः, यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा ॥ ३ ॥

विवरणम्

योगानुशासनस्यापि तदर्थस्य निष्फलत्वं प्रतिपद्येत, तस्मात्पुरुषस्य वृत्तिनिरोधादनिरोधं दर्शयितुकामः ख्यातेश्चापि फलं साक्षाद्दर्शयन्नाह--तदवस्थे चेतसीत्यादि ॥

 तदवस्थे-निरोधावस्थे । स्वविषयाभावात्-स्वविषयश्चित्तवृत्तिस्तदभा(वे)वात् । बुद्धिबोधात्मा बुद्धिं वृत्तिरूपेण परिणतां बुध्यत इति बुद्धर्बोद्धा पुरुषः । तद्वोधनमेव हि पुरुषस्य स्वं रूपं, नान्यो बोद्धा, नान्यद्वोधनम्। बोद्धुश्च बोधनादन्यत्वे सति विक्रियात्मकता स्यात्। ततश्च दर्शितविषयत्वं च न स्यात् । तथा च करणान्तरापेक्षित्वं पुरुषस्य प्रसज्येत । तस्माद्वोधनं बोद्धृत्वं चोपचरितं तद्वृत्तिसारूप्येण । तथा च वक्ष्यति-‘द्रष्टा दृशिमात्रः१’ इति । तस्मादाह बुद्धिबोधनमेवात्मा स्वरूपं यस्य स बुद्धिबोधात्मा पुरुषः किंस्वभावः किं नश्वरस्वभावः, सद्भावे वा किंस्वभावः, कथं वा सद्भाव इति ? ॥ तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ यदा निरुद्धा वृत्तयः, स्वरूपप्रतिष्ठा तदानीं चितिशक्तिः । स्वरूपप्रतिष्ठेत्यर्थः । यथा कैवल्ये ॥ तदा सद्भावं तु ‘न तत्स्वाभासं दृश्यत्वात्’२ इत्येवमादिना वक्ष्यति । तत्र सिद्धे सद्भावे तत आकृष्य प्राप्ताशङ्कानिवृत्त्यर्थमुच्यते-स्वरूपप्रतिष्ठेति ॥

 सिद्धवद्व्याख्यातं सूत्रम् । तत्रेदं प्रसक्तमितरत्र न स्वरूपप्रतिष्ठेति । अन्यथा हि तदेति विशेषणानर्थक्यं स्यात् । न चेदन्यत्र स्वरूपप्रतिष्ठा तत्रावस्थान्तरयोगात् परिणामित्वादिदोषः प्राप्नोतीति तत्परिजिहीर्षयाह–व्युत्थानचित्ते तु सति तथापि भवन्तीति । [अनेन] अन्यत्रापि स्वरूपप्रतिष्ठत्वं दर्शयति ॥

‌

व्यासभाष्यम्

 कथं तर्हि ? दर्शितविषयत्वात्---

 वृत्तिसारूप्यमितरत्र ॥ ४ ॥

व्यासभाष्यम्

 व्युत्थाने याश्चित्तवृत्तयः तदविशिष्टवृत्तिः पुरुषः । तथा च सूत्रम्-‘एकमेव दर्शनं ख्यातिरेव दर्शनम्’ इति ।

विवरणम्

 न तथेत्यनेन तदेति विशेषणस्यार्थवत्त्वं ख्यापयति ॥ ३ ॥  इतरस्तु तथापि भवन्तीत्यनेन चेत्स्वरूपप्रतिष्ठत्वमुच्यते, न तथेति च स्वरूपप्रतिष्ठत्वनिषेधश्चेदेकस्य वस्तुनस्तथाभावश्चातथाभावश्च विरुध्यत इति वीक्षापन्नः पृच्छति--कथं तर्हि इति ॥ इतर आह--वृत्तिसारूप्यमितरत्रेति ॥ कस्मात् पुनर्वृत्तिसारूप्यम् ? दर्शितविषयत्वात् ॥ उभयत्र स्वरूपप्रतिष्ठत्वाविशेषेऽपि वृत्तिसारूप्यासारूप्यकृतो विशेष इति, न तथाभावातथाभावविरोधः ॥

 ननु च वृत्तिसारूप्ययोगे सति अवस्थान्तरयोगात् परिणामित्वादिदोषः प्राप्नोत्येव । न । दर्शितविषयत्वेन परिहृतत्वात् । चित्तवृत्त्यध्यारोपितं हि तत्, न स्वतः, स्फटिकाद्युपधानोपरागवत् । व्युत्थान इति ॥ निरोधादन्यत्र याश्चित्तस्य क्लिष्टादयो वृत्तयः ताभिरविशिष्टा सदृशी वृत्तिः स्वरूपमस्य, चित्तवृत्तिव्यतिरेकेण स्वरूपव्यतिरेकेण च पुरुषस्य वृत्त्यभावात् सदा ज्ञातविषयत्वे परिणामानुपपत्तेश्च ॥

 तथा च पूर्वाचा१र्यसूत्रम् एकमेव दर्शनं-बुद्धिपुरुषयोः । किं तदित्याह--ख्यातिरेव दर्शनम् । बुद्धिवृत्तिरेव दर्शनम् । ख्यायते पुरुषेणेति च ख्यातिः ख्यायतेऽनया च बुद्धिपुरुषयोः स्वरूपमिति ख्यातिः । सैवार्थाकारोऽनया (कारतया) गृह्यत इति करणं, स्वेन च ख्यातिरूपेण गृह्यत इति कर्म च भवति । तथा दृश्यत इति दर्शनं, दृश्यतेऽनेनेति च, [ज्ञायत इति ज्ञानं,] ज्ञायतेऽनेनेति च सर्वमेवमादि द्रष्टव्यम् ॥

 यत्तु ख्यातिकर्तृत्वे चित्तस्य तदेव ज्ञायते जानाति चेति (ज्ञानादितिचेति) ज्ञानान्तरकल्पनावैयर्थ्यप्रसङ्ग इति, तस्य ‘न २तत्स्वाभासं दृश्यत्वात्' इत्यत्रैव परिहारं वक्ष्यामः ॥ ‌

‌

व्यासभाष्यम्

 चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति

विवरणम्

 ननु च यदि चित्तपरिविजृम्भितमेवेदं सर्वं पुरुषश्चेदुदास्ते कथमसौ भोक्तेति ? न—कारकवैचित्र्यात् । कानिचिद्व्याप्रियमाणानि कारकाणि, कानिचिद्व्यापारादृते सन्निधिमात्रेण कर्तृत्वं प्रतिपद्यन्ते ॥

 यथा पचतीत्यधिश्रयणादिषु व्याप्रियमाणः पुरुषः कर्तेत्युच्यते । स्थाली सम्भवधारणाभ्यामव्याप्रियमाणैव पचतीत्युच्यते । तथा स्थालीमध्यगतमाकाशमवकाशं ददाति, न तस्य व्यापारं प्रतीमः ॥

 यथा च राजा दर्शनमात्रेणैव कर्ता । सर्वाणि च कारकाणि स्वेषु व्यापारेषु कर्तृणि । न चादित्यः प्रकाशयन् करणान्तरमपेक्षते, व्याप्रियते वा । न हि प्रकाशनमविद्यमानमुत्पादयति गमनादिवत् । प्रकाशात्मतैव हि तस्य सद्भावः, तथापि सन्निधिमात्रेण घटादीनां प्रकाशरूपेण अभिव्यक्तेः प्रकाशयतीत्युच्यते, एवमिहापि दृशिमात्रेण पुरुषेण दृश्यानां चित्तवृत्तीनां चिदात्मना व्याप्यमानत्वात्, द्रष्टा पुरुष इतीममर्थं दर्शयति-चित्तमयस्कान्तमणिकल्पमिति ॥

 यस्याप्यात्ममनस्संयोगात् ज्ञानमुत्पद्यते, तस्यापि ज्ञानेन ज्ञेयं व्याप्नुवन्नात्मा ज्ञातेत्युच्यते, न व्याप्रियमाणः । ज्ञानम(स्या)पि गुणत्वे सति निष्क्रियत्वादात्मन एवार्थं दर्शयति । नापि क्रियानभ्युपगमात् जानातीत्यादि नोपपद्यते । ज्ञानेन हि ज्ञेयं व्याप्नुवन् जानातीत्युच्यते ॥

 किं चान्यत्–आत्ममनस्संयोगादपूर्वज्ञानोत्पत्तौ सत्यामात्मनस्तज्ज्ञानं, न मनसः । आत्मैव जानाति, न मन इति को हेतुर्भवेत् ? अथापि स्यात् आत्मनः समवायिकारणत्वादिति । नैतदेवं, असिद्धत्वात् । यथैव ज्ञानमात्मन इति साध्यं, एवमात्मन एव समवायिकारणत्वं न मनस इति साध्यम्, अनात्मस्वरूपत्वे सत्युभयसंयोगजत्वाभ्युपगमात् ॥

 अथापि स्यात्-ज्ञानाहितसंस्कारस्यात्म[नः]स्मृत्येककर्तृत्वेन प्रतिसन्धान- . दर्शनादिति--न-तस्यापि साध्यत्वात् । तत्रापि ज्ञानसंस्कारस्मृतिप्रतिसन्धानादीन्यात्मन एव, न मनस इति साधनीयानि । फलेन समानाश्रयत्वादिच्छादीनामिति चेत्-न—तत्रापि तुल्यत्वात् । संयोगजत्वे सत्यात्मनः फलेच्छादीनि, न मनस इति दुःसाधमेव ॥

व्यासभाष्यम्

पुरुषस्य स्वामिनः । तस्माच्चित्तवृत्तिबोधे पुरुषस्यानादिः संबन्धो हेतुः ॥ ४ ॥

विवरणम्

 किं चास्य ज्ञानस्यापि ज्ञेयत्वाभ्युपगमादनवस्थाप्रसङ्गः । न हि ज्ञानमन्येन करणभूतेन ज्ञानेन विज्ञातुं शक्यं, तदप्यन्येन तदप्यन्येनेत्यनिष्टप्रसङ्गात् ॥

 अथानवस्थाप्रसङ्गपरिहाराय दूरमपि गत्वा किंचिज्ज्ञानमाद्यं वा ज्ञानान्तरेण न गृह्यते स्वयमात्मनैव गृह्यत इति, तथा ज्ञानवदर्थस्यापि स्वयं ग्रहणप्रसङ्गः ॥

 अथ दीपवत् स्वयमवभासते चावभासयति च अवभासात्मकत्वात्, अर्थस्यानवभासात्मकत्वाददोष इति चेत्-तथापि प्रकाशस्वरूपेष्वर्थेषु विज्ञानेनाग्रहणप्रसङ्गः ।

 अथ ज्ञानस्यात्मसमवेतत्वाभासनरूपाभ्यां स्वयं ग्रहणं, बहिःप्रकाशात्मकानां तु ज्ञानविपरीतधर्मत्वाददोष इति चेत्-तच्च न-यदि चात्मसमवेतत्वं प्रकाशात्मकत्वं च ज्ञानस्य स्वयंग्रहणे हेतुः स्यात् सर्वे सर्वज्ञाः प्राप्नुवन्ति ॥

 अथ ग्राह्याकारत्वमपि कारणं चेत्---तच्च न ; अन्यस्य ज्ञानस्यान्याकारतया करणत्वं यथा, तथा ज्ञानस्यापि ग्राह्यस्यान्याकारणान्यदेव ज्ञाने करणं स्यात्, तथा चानवस्था दुष्परिहरैव ॥

 किं चान्यत्---न हि कश्चित् स्वयंग्राह्यग्राहकत्वप्रसाधनाय दृष्टान्तो विद्यते, प्रदीपस्यापि चक्षुरादिग्राह्यत्वात् । न चाप्यंशद्वयमस्ति ज्ञानस्य, निरवयवत्वात् । सत्यपि चांशद्वये तयोः प्रकाशात्मकत्वान्नान्योन्यग्राह्यग्राहकभावः प्रदीपयोरिव द्वयोः ॥

 किं चान्यत्—ज्ञानस्य ग्राह्यग्राहकत्वाभ्युपगमे सत्यात्मसद्भावोऽपि दुस्सम्पाद एव । तस्मादर्थाकारज्ञानस्मृतिप्रतिसन्धानप्रयत्नेच्छादीनामनात्मधर्मत्वं ग्राह्यत्वात् रूपादीनामिव । परार्थत्वाच्च सङ्घाताश्रयत्वं रूपादिनिदर्शनेनैव । तथा आश्रयवत्त्वादनित्यत्वाच्च प्रयत्नपूर्वकत्वाच्चेत्येवमादिभ्योऽनात्मधर्मत्वसिद्धिः ॥

 अयस्कान्तमणिकल्पम् ॥ अयस्कान्तमणिरिव । यथा अयस्कान्तमणिरयसः स्वात्मव्याप्तिं प्रत्युपकरोति सन्निधिमात्रेण, तथा चित्तमपि चित्स्वरूपस्यात्मनः स्वात्मव्याप्तिं प्रत्युपकरोति दृश्यत्वेन ॥

व्यासभाष्यम्

 ताः पुनर्निरोद्धव्याः बहुत्वे सति चित्तस्य—

 वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ ५ ॥

व्यासभाष्यम्

 क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः । क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः ।

विवरणम्

 नर्तकीव दर्शितविषयत्वादन्तःकरणेनेत्युक्तम्-तत्र दर्शयितृत्वं चित्तस्य, द्रष्टृत्वं च पुरुषस्य किंकृतम् ? स्वस्वामित्वकृतम् । कथं पुनः स्वस्वामित्वम् ? वस्तुस्वभावत्वात् । कथमिति चेदुक्तं-चित्तमयस्कान्तमणिकल्पमिति ॥ अथ चित्तवृत्तीनां बोधे को हेतुः पुरुषस्येति ? उच्यते - यस्मादेवं सन्निधिमात्रोपकारि चित्तं दृश्यत्वेन, तस्माच्चित्तवृत्तीनां बोधे पुरुषस्य अयं हेतुः भवति, योऽसौ अनादिसम्बन्धः ॥ ४ ॥

 ताः पुनर्निरोद्धव्याः बहुत्वेऽपि सति चित्तस्य याभिर्वृत्तिभिः व्युत्थाने सारूप्यमुक्तं पुरुषस्य । कस्मात् पुनः निरोद्धव्या इत्याह-यतो वृत्तयः क्लिष्टाक्लिष्टाः ॥

  ननु च बहुत्वे सति न शक्या निरोद्धुमित्यत आह-पञ्चतय्य इति । यद्यपि क्लिष्टाक्लिष्टा वृत्तयोऽनन्ताः,--तथापि पञ्चतय्यः पञ्चविधाः, पञ्चकुला एव । ततश्च पञ्चप्रकारवृत्तिप्रतिपक्षभूताभ्यासवैराग्यप्रयोगादेव निरोधोपपत्तेः, प्रत्यवयवनिरोधसाधनाप्रयोजकत्वाद्वृत्तीनां, तद्बहुत्वे न निरोधाशक्यत्वप्रसङ्गः । क्लेशहेतुकाः-क्लेशनिमित्ताः । अविद्यादिपञ्चक्लेशप्रयुक्तं हि चित्तं वृत्तिभिरात्मानं पुनः पुनरावेदयति । कर्माशयप्रचये कर्माणि कुशलाकुशलविमिश्राणि तान्येवाऽऽफलप्रदानाच्छेरत इति कर्माशयशब्दवाच्यानि, तेषां प्रचय इतरेतरगुणप्रधानभावेन संहननं, तस्मिन् कर्माशयप्रचये निमित्ते, अविद्यादिक्षेत्रीभूताः क्लिष्टाश्रया इत्यर्थः । सतीषु हि तासु कर्माशयो विपाकाभिमुखीभवति ॥

 ख्यातिविषयाः-ख्यात्यास्पदाः । गुणानां सत्त्वादीनाम् अधिकारः संस्कारप्रवृत्तिः तद्विरोधिन्यः । ख्यातिविषयत्वादेव ता अक्लिष्टाः, अपवर्गहेतुत्वात् ॥

व्यासभाष्यम्

क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति । अक्लिष्टच्छिद्रेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते । संस्कारैश्च वृत्तय इति । एवं वृत्तिसंस्कारचक्रमनिशमावर्तते । तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति॥ ५ ॥  ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः—

 प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६ ॥  प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७ ॥

विवरणम्

 अथ क्लिष्टपङ्क्तिमध्य(मानु)जन्मानोऽक्लिष्टा वृत्तयः किं क्लिष्टा एव क्षीरकुम्भप्रक्षिप्ताम्बुबिन्दुवत् ? एवमक्लिष्टप्रवाहपतिता अपि क्लिष्टाः किमक्लिष्टा एव ? किं चातः ; यदि क्लिष्टप्रवाहगता अक्लिष्टाः क्लिष्टाः स्युः, तदा वृत्तिसंस्कारानुविधायिनी स्मृतिः, तदनुरूप एव व्यवहारः । स चापि न सिध्यति स्वरूपव्यभिचारे । तस्मादाह-क्लिष्टच्छिद्रेष्वप्यक्लिष्टाः अक्लिष्टा एव भवन्ति । अक्लिष्टच्छिद्रेषु अपि क्लिष्टाः क्लिष्टा एव । यस्मादेवं तस्मात् तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियन्ते ॥

 यद्यपि क्लेशादयोऽपि संस्कारमारभन्ते, तथापि वृत्तिद्वारैव तेषामपि संस्कार इति वृत्तिभिरेवेत्येवकारार्थः । तथा संस्कारैरपि वृत्तयः स्वानुरूपं क्रियन्त इत्येवं-वृत्तिसंस्कारचक्रमनिशमनवरतमावर्तते । तदेवंभूतं चित्तं एवं हेतुहेतुमद्वृत्तिसंस्कारधर्मकम् । अवसिताधिकारं-निवृत्ताविद्याहेतुप्रवृत्तिकं हेतुमात्रावस्थत्वात् । आत्मकल्पेन-पुरुषकल्पेन ख्यातिमात्रेणैव कञ्चित्कालमवतिष्ठते-प्रारब्धसंस्कारशेषानुवृत्त्या । प्रलयं वा गच्छति -संस्कारावसानादिति ॥ ५ ॥

 काः पुनस्ताः क्लिष्टाक्लिष्टाः पञ्चप्रकारा वृत्तय इत्याह--प्रमाणविपर्यय- विकल्पनिद्रास्मृतय इति ॥

 एतावत्य एव वृत्तयः । तत्र-प्रत्यक्षानुमानागमाः प्रमाणानि ॥ प्रमाणाख्या वृत्तिस्त्रिधैव भिद्यते । तत्र प्रमाणाख्यायाश्चित्तवृत्तेः प्रथमो भेदः

व्यासभाष्यम्

 इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् ।

विवरणम्

प्रत्यक्षम् । अतस्तल्लक्षणमेवाभिधीयते । तत्पूर्वकत्वात् भेदद्वयस्य ॥ इन्द्रियप्रनाडिकया ॥ इन्द्रियमिति श्रोत्रादिपञ्चकं न कर्मेन्द्रियं, तस्य चित्तवृत्त्यहेतुत्वात् । क्रियार्थं हि तत् । तस्मादिन्द्रियशब्दस्य सामान्यार्थत्वेऽपि चित्तवृत्तेरुपव्याचिख्यासितत्वाच्छ्रोत्रादिविषयतैव । वृत्त्यर्थत्वाच्च श्रोत्रादीनाम्। इन्द्रियमेव प्रनाडिका द्वारं शब्दाद्याकारवृत्तिरूपेण परिणममानस्य चित्तस्य । अतस्तत् तेनेन्द्रियद्वारेण सामान्यविशेषात्मकबाह्यवस्त्वाकारतया परिणममानमुपरज्यते । तस्य तदुपरागाद्धेतोः चित्तस्य या मुद्राप्रतिमुद्रावत् वृत्तिः सामान्यविशेषात्मकवस्तूपरागेऽपि विशेषावधारणप्रधाना सैव प्रत्यक्षं प्रमाणम् ॥

 अथ स्वविषयसामान्यविशेषावभासनसामर्थ्ये श्रोत्रादीनां चित्तस्य च किंकृतं विशेषावधारणप्राधान्यमिति ?

 उच्यते-विशेषप्रतिबन्धत्वात् हानोपादानादीनां विशेषावधारणप्रधानतेति (तेत्याह)। न सामान्यं नावधार्यते, गुणभूतं तु गृह्यत एव । यथा नीलं रूपमिति नीलावधारणप्राधान्ये सत्यपि रूपमेव नीलमिति गुणभूतमवधारयति । तथा दुःखशब्दः सुखशब्दो मूढः शब्द इति । तथा च विशेषावधारणप्रधाना वृत्तिरिति ह्युपपद्यते ॥ किं च-संशयविपर्ययनिमित्तत्वाच्च सामान्योपलब्धेः। सामान्ये ह्युपलब्धे बुभुत्सितविशेषस्य संशयो जायते, समुपलब्धसामान्यान्यस्मृतेर्वा विपर्ययः,समधिगतविशेषस्य तु संशयविपर्ययौ न स्थितिमुपाश्नुवाते, इति विशेषावधारणप्रधानतोच्यते।।


 यत्रापि सामान्यमेवावादिधारयिषितं गौरिति वा अश्व इति वा, तत्राप्यन्यतरपरित्यागेनान्यतरावधारणेति विशेषावधारणप्रधानतैव । सर्वमेव हि वस्तु वस्त्वन्तरापेक्षया सामान्यं विशेषश्च ॥

 यस्य पुनः सामान्यमवस्त्वध्यारोपितमेवोषराम्बुवत्, नेन्द्रियविषयमिति, तस्य प्रतिनियतसामान्याध्यारोपणानुपपत्तिः । न ह्यनुपलब्धपूर्व

मुख्ये संभवत्यध्यारोपणा, स्मृत्यसंभवात् । न कदाचिददृष्टमुख्योदकस्य सलिलाध्यारोपणमूषरेषु विद्यते । अथास्मरन्नप्यध्यारोपयेत् रूपस्वलक्षणे शब्दत्वाद्यप्यध्यस्येत् । अथेन्द्रियान्तरविषयत्वाद्रूपस्वलक्षणे शब्दत्वाद्यध्यासो विरुद्ध इति चेत्-न—अवस्तुत्वे सत्यविशेषात् । विशेषाभ्युपगमे च वस्तुत्वप्रसङ्गः । शब्दस्वलक्षणादिव रूपस्वलक्षणस्य ॥

 किं चान्यत्-देशकालान्यविशिष्टप्रत्यक्षा[न]भ्युपगमे समस्तलोकव्यवहारविलोपः स्यात् । न हीदमहममुष्मिन्नवकाशे काले चास्मिन्नद्राक्षमेतस्मान्निमित्तादेवंविशेषणमिति च स्मृत्युपपत्तिः । न च प्रत्यक्षादृष्टेषु विशेष्यवद्विशेषणेषु स्मृतिः संभवति । न च कल्पनापोढेन व्यवहारगोचरातीतेन व्यवहरमाणो दृश्यते । तस्माल्लोकप्रसिद्धप्रत्यक्षानुसरणमेव न्याय्यम् ॥

 ननु च योगिनां निर्विकल्पसमाधिजं दर्शनं, तस्यानेवंलक्षणत्वात्, तथा सुखरागादिविज्ञानस्य चानिन्द्रियप्रनाडी*पूर्वत्वात् प्रमाणान्तरत्वमभ्युपेतव्यं, प्रत्यक्षत्वं वा वक्तव्यम् । उच्यते । प्रत्यक्षस्य (न प्रमाणस्य) पुरुषप्रत्ययापेक्षत्वेन परिहृतत्वात् । न ह्यप्रत्यया वृत्तिः प्रत्यक्षम् । चैतन्योदयहेतोरेव सप्रत्ययायाः प्रत्यक्षत्वम् । तथा चाह-‘फलं तदविशिष्टः पौरुषेयश्चित्तवृत्तिबोध’ इति ॥ एवं च सति सुखरागादिज्ञानस्य क्लिष्टाक्लिष्टरूपस्य तदविशिष्टपुरुषप्रत्ययफलावसानत्वात् प्रत्यक्षता सिद्धैव ॥

 इन्द्रियप्रनाडिकाग्रहणं लौकिकप्रत्यक्षोद्भवानुवाद एव । अन्यथा हीन्द्रियनिरपेक्षस्य योगीश्वरयोर्ज्ञानस्याप्रत्यक्षता स्यात् । अस्ति हि क्लेशादिप्रतिबन्धाभावे सर्वार्थेन चित्तसत्त्वेन सर्वविषयेण युगपत्सूक्ष्मव्यवहितादिग्रहणम् । तथा चाह-‘तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम्’ इति । तस्मान्नावधार्यते इन्द्रियप्रनाडिकयैवेति ॥

 बाह्यवस्तूपरागादिति विपर्ययनिवृत्त्यर्थम् । विशेषावधारणप्रधानत्वेन संशयनिवृत्तिरिति ॥

 तत्र केषांचित् फलं तदेव प्रमाणम् । अपरेषां तु प्रमाणादन्यत्(त्र) प्रमाणव्यक्त्यन्तरम् (रे) । यथा घटविज्ञानस्य प्रमाणस्य हानोपादानोपेक्षाबुद्धयः फलमिति । गुणदोषतदुभय(वदभव)शून्यत्वविषयत्वादुपादानादिबुद्धीनां प्रमाणभूतघटविज्ञानादत्यन्तभेदः । ततश्चान्यविषयस्य प्रमाणस्य अन्य(प्रमेयस्य)- विषयप्रमाण(णे)व्यक्त्यन्तरं(रे) फलमिति ॥

 न हि खदिरच्छेदनस्य खदिरोपादानं तत्परित्यागो वा फलं भवितुं युक्तम् । वि(अपि)योगसम्बन्धफलत्वात् त्यागोपादानयोः । न च फलस्य फलं सम्भवति । द्वैधीभावफलव्यवहितत्वाच्च ॥

 किं च-फलस्य चेत् फलं क्रियानपेक्षाप्रसङ्गः । फलार्थं हि क्रियापेक्ष्यते । तच्चेत्फलं विनापि क्रियया फलादपि सिध्यति, (अतोह्य) ततो न ह्यनेकायासापेक्षितनिष्पत्तिक्रियामनुतिष्ठेत् । साधनान्वेषणानुपपत्तिश्च । क्रियाया अभावात् ॥

व्यासभाष्यम्

 फलं तदविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः ॥

विवरणम्

 नापि क्रियैव फलं, क्रियानुपरमप्रसङ्गात् । फलावसाना हि (पि) क्रिया । क्रियायाश्च फलत्वे फलानभिलाषित्वप्रसङ्गः । तस्या दुःखत्वात् ॥

 तस्मान्न प्रमाणस्वरूपमेव फलम्, नापि तद्व्यतिरिक्तप्रमाणान्तरमित्याह— फलं तदविशिष्ट इत्यादि । तदविशिष्टः तया प्रमाणाख्यया वृत्त्या अविशिष्टः तुल्यः तदाकारत्वेन, पौरुषेयः पुरुषस्यायं बोध इति । पुरुषस्य हि वृत्त्याकारता । तस्मान्नाक्रियाजं द्रव्यस्वरूपमात्रं फलम् । किं तर्हि ? द्रव्यस्यैवावस्थान्तरविशेषः (प्र)क्रियाजः(जा)क्रियापर्यवसानकालः क्रियोपरमोपपत्तेः फलम् । फलनिष्पत्तावेव हि क्रियोपरम उपपद्यते । एवंभूतस्य मुख्यफलत्वे प्रधानक्रियाव्यवहित(विप्रकृष्टायाः)क्रियाया द्रव्यं द्रव्यस्य वा क्रिया फलमित्यन्योन्यप्रत्युपस्थापकत्वेन प्रधानफलाभिमुखीकरणात् फलत्वोपचारो न विरोत्स्यते ॥

 ननु च भवतोऽप्युपचरितमेव फलम् वृत्त्यविशिष्टतायाः फलत्वेनाभ्युपगमात्, पुरुषस्य च शुद्धत्वात्, तदाकारताया अनृतत्वम् । न हि स्फटिकमणेरलक्तकोपधानाकारता सत्या ॥

 बाढम्—तथापि त्वेतदेव फलं मुख्यम्, दृष्टत्वात् । मुख्यफलान्तरादर्शनात् । सर्वस्यैव क्रियाकारकजातस्यैतत्फलार्थत्वात् । एतदवसानं हि तत्सर्वम् । तथा च प्रदर्शितम् ॥

 ननु च मिथ्याभूतस्यैव मुख्यफलत्वं वृत्त्याकारस्य, तथा च तदभिलाषानुपपत्तिः । बाढम्—मिथ्याभूत एव वृत्त्यनुगतो भोगः । तथा चाह- "सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः” इति ॥ भाष्यमपि -"तयोः स्वरूपोपलम्भे सति कुतो भोग" इति ॥ अत एव च सम्यग्दर्शनादात्यन्तिकी निवृत्तिरुपपद्यते ॥

 येषाममिथ्या फलं, तेषां वैराग्यकारणाभावात् सम्यग्दर्शनान्वेषणानुपपत्तेर्मोक्षाभावः । न च क्रियापरिनिष्पाद्यो मोक्षः, अनित्यत्वप्रसङ्गात् ॥

‌

व्यासभाष्यम्

 प्रतिसंवेदी [बुद्धेः] पुरुष इत्युपरिष्टात् प्रवेदयिष्यामः ।

विवरणम्

 अथ बुद्धिबोद्धृत्वं पुरुषस्य सत्त्वं चासिद्धमिति चेत् आह—प्रतिसंवेदी बुद्धेः पुरुष इत्युपरिष्टात् प्रवेदयिष्याम इति ॥

 ये चापीन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वमभ्युपयन्ति, न तेषामपि सम्यगभ्युपेतं, सन्निकर्षस्य क्रियाफलत्वात् । सन्निकर्षश्च संयोगः । स च क्रियाजस्तैरिष्यते । यतो यदुपजायते तत्तस्य प्रमाणम् । तच्च तस्य फलं यदुपजायते ॥

 फलमपि सन्निकर्षो ज्ञानं प्रति प्रमाणमिति चेत्-तच्च न—ज्ञापकप्रमाणप्रस्तावे कारकप्रमाणोपन्यासस्यायुक्तत्वात् । सन्निकर्षो हि ज्ञानस्योत्पादको न तस्य ज्ञापकः । प्रमेयाधिगमाय हि प्रत्यक्षादीन्युपन्यस्तानि, न ज्ञानोत्पत्तिकारणम् । तत्प्रक्रियायाम(यान्य)प्रकृतं प्रक्रियेत ॥

 अथापि स्यात्---ज्ञानस्यापि प्रमेयत्वात्तच्चाप्युत्पद्यमानं प्रमीयत इति, तदुत्पत्तिकारणस्य सन्निकर्षस्य ज्ञापकत्वमेवेति--तच्च न-ज्ञानं ज्ञानेनैव ज्ञायेत, तेषां तथाभ्युपगमात् । न च सन्निकर्षो ज्ञानम् । ज्ञानोत्पादकत्वेनाभ्युपगमात् ॥

 अथ ज्ञानस्य ज्ञाने सन्निकर्षो निमित्तत्वात् प्रमाणमिति चेददृष्टेश्वरेच्छा विषयनिमेषोन्मेषादीनामपि निमित्तत्वात् प्रमाणत्वे कः प्रद्वेषः ? न च ज्ञानस्य ज्ञेयत्वे आत्मनश्च स्वभावचिद्रूपत्वानभ्युपगमे शक्या अनवस्था परिहर्तुम् ॥

 अथ आत्मसमवेतमात्रतयैव ज्ञानस्य ज्ञेयता, न ज्ञानान्तरमपेक्ष्यते येनातिप्रसज्येतेति चेत्—अस्याप्यन्यत् प्रत्यक्षलक्षणं वाच्यम् अनिन्द्रियसन्निकर्षादिलक्षणत्वादात्मनि ज्ञानसमवायत्वस्य । सन्निकर्षस्य च ज्ञानोत्पत्तिफलत्वात्तदुत्पत्तिव्यवधाने सति तस्य ज्ञानेन नानन्तर्यम् ॥

 तस्मात्तदानन्तर्येणापि न सन्निकर्षफलत्वं ज्ञानस्य । तथा हानादिबुद्धीनामपि रूपादिज्ञानफलत्वानुपपत्तिरुक्ता ॥

 व्यभिचाराच्च । यथैकस्मिन्नङ्गनादिपिण्डविषये ज्ञाने समाने बहूनामुत्पन्ने कस्यचिदुपादानबुद्धिः, अन्यस्य हेयबुद्धिः, कस्यचिदुभयाभावः, तत्र हानोपादानबुद्धिर्व्यभिचरति । अन्यतरत्रैकमेव ज्ञानं तदेवोभयं व्यभिचरत्युपेक्षकस्य । यच्च यद्व्यभिचरति न तत्तस्य फलम् ॥

 किं च-हानोपादानाभावमात्रत्वादभाव एवोपेक्षा । न चाभावः प्रमाणस्य वस्तुनः फलं भवितुमर्हति । रागद्वेषाभ्यां चोपादानपरित्यागबुद्धी । तदभावात् कारणाभावे कार्याभाव इति प्रमाणविज्ञाने सत्यपि हानोपादानबुद्ध्यभाव एवोपेक्षेति व्यभिचारान्न हानादिबुद्धिफलत्वम् ॥

  किं च-रागद्वेषतदभावानामप्युपादानादिबुद्धिफलत्वे प्रमाणत्वप्रसङ्गः । पौरुषेयचित्तवृत्तिबोधफलत्वे तु न किञ्चिद्विरुध्यत इति ॥

 ननु च चित्तवृत्तेः संवेद्यत्वमसिद्धम् । न हि करणमेव कर्म भवति । न हि दात्रमेव लूयते । नैष दोषः । क्रियाकारकयोर्भिन्नधर्मत्वात् । क्रियानिर्वृत्तिं प्रति सम्भूय कारकाणि व्याप्रियन्ते परस्परं विषयविषयिभावेन । क्रिया तु सत्तामात्रेणैव फलहेतुरिति करणत्वमस्यामुपचयेंते, न कारकवत् । कुर्वद्धि कारयेदिति क्रियापि कारकं स्यान्न भूतं भव्यायोपदिश्येत ॥

 किं च-अनवस्थाप्रसङ्गश्च । क्रिया चेत् करणं स्यात्, तन्निर्वर्त्यया चान्यया क्रियया भवितव्यम् । न ह्यन्यां क्रियामन्तरेण तस्याः कारणत्वं घटते । यापि चान्या सापि कारणं स्यादन्यस्याः क्रियायाः । साप्यन्यस्या इत्यनवस्था । ततश्च क्रियासन्तानानुपरमात् फलानभिनिर्वृत्तिः । तत्रान्त्या चेत् क्रियान्तरेण विना फलहेतुर्भवेत्, प्रथमस्य तथात्वे कः प्रद्वेषः ? चित्तवृत्तेस्त्वभिव्यञ्जकत्वात् संवेद्यतेत्यदोषः ।

 दृश्यते चाभिव्यञ्जकानां स्वरूपसंवेद्यतयैव करणत्वं प्रदीपादीनाम् । तथा चित्तवृत्तेरपि । चक्षुरादिष्वभिव्यञ्जकत्वेऽपि अग्रहणाद्व्यभिचार इति चेत्, समान (चेतनसमान) जातीयसंकरात् कथम् ॥

 येषां तावद्भौतिकानीन्द्रियाणि, तेषां चक्षुषस्तैजसत्वात् बाह्येनालोकेन तुल्यजातीयेन व्यतिभेदात् गृह्यमाणस्यैवाविवेकः । यथा प्रदीपानां बहूनां प्रभाव्यतिभेदात् कस्य का प्रभेति न विविच्यते । तथा श्रोत्रादिष्वपि ।

 येषामप्यभौतिकानि, तेषामप्यभिव्यञ्जकत्वेन समानजातीयता वृत्तेरभिव्यञ्जकत्वादग्रहणमिति । तन्न-प्राप्तचैतन्योपग्रहतयाऽविभाव्यत्वादव्यवहितत्वाच्च । सर्वगतत्वेऽप्यात्मनः सूक्ष्मत्वेन स्वच्छतरत्वेन च चित्तेनाव्यवधानाच्च ग्रहणं चित्तवृत्तेस्तस्माच्चित्तवृत्तिप्रमाणेनैव तदाकारतया पौरुषेयोऽपि बोधः संवेद्यमान एव फलमिति सिद्धम् ॥


व्यासभाष्यम्

अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यः

विवरणम्

 येषां पुनः प्रत्यक्षेणासंवेद्या चित्तवृत्तिस्तेषां फलग्रहणप्रमाणाभावः । फले च गृहीते ज्ञानासिद्धत्वस्यार्थापत्तिः । न च फलं गृह्यते प्रमाणव्यापारानभ्युपगमात् । तदभ्युपगमे चानवस्थाप्रसङ्गः । यत्फलावग्रहणाय प्रमाणमभ्युपगम्यते तस्याप्यन्यत् फलं तत्प्रमाणस्याप्यन्यदिति न क्वचिदवतिष्ठेत ॥

 अथ न प्रमाणव्यापारस्तस्य तदा प्रमाणाभावात् फलस्यासत्त्वं प्रसक्तम् । यत्र हि सदुपलम्भकानि प्रमाणानि न व्यापारं गच्छन्ति, तन्नास्तीत्यभ्युपगच्छामः (तेषाम्) ॥

 अथ अगृह्यमाणमपि तदेव ज्ञानं प्रमाणं फलस्यापीति चेत्-न- अभिव्यञ्जकधर्मव्यतिक्रमात् । न ह्यभिव्यञ्जकं गृह्यमाणमभिव्यञ्जयद्दृष्टम् । न ह्युल्का गिरिशिखरेऽपि निजं धर्ममतिक्रामति ॥

 अथाभिव्यञ्जयदेव फलं प्रत्यपि प्रमाणमिति चेत्-सिद्धं तर्हीप्सितमस्माकम् । रागादीनां वृत्तिविशेषणत्वेन ग्रहणोपपत्तेः । रक्तोऽहं द्विष्टोऽहमिति यद्यहंप्रत्ययविशेषणं, तदापि वृत्तिभावाभावित्वेनैव ग्रहणाद्वृत्तिविशेषणानां रागादीनां ग्रहणमुपपद्यते । अ(तेना)न्यथा रूपादिवन्मानान्तरापेक्षत्वप्रसङ्गात् । ततश्चानवस्थेति ॥

 तस्मात्प्रमाणफलानभिज्ञानामभिमानमात्रमेव केवलं पण्डितंमन्यानामित्युपेक्षणीयमिति ॥

 अनुमानमथोच्यते-अनुमेयस्य तुल्यजातीयेष्वनुवृत्त इति । अनुमेयस्य [जिज्ञासित]धर्मविशिष्टस्य । तद्धर्मवत्तया तुल्यजातीयेष्वनुवृत्तः सद्भावमात्रेण, [भिन्नजातीयेभ्यः] तद्विरुद्धधर्मकेभ्यो व्यावृत्तः-तेष्वसन् इत्यर्थः । सम्बन्ध इति । कः सम्बन्धः ? कयोर्वा ? न हि सम्बन्धिनावनपेक्ष्य सम्बन्धः सम्बन्धतामियात्, यदसौ प्रसिद्धवच्चोच्यते ‘य’ इति ॥

 ननु च अनुमानस्य प्रकृतत्वात्, लिङ्गलिङ्गिनोः सम्बन्धः प्रसिद्ध एव—न—अगमकत्वात् । न केवलः सम्बन्धो गमकः । उच्यते - लिङ्गस्यैव सम्बन्धो व्यावृत्त्यनुवृत्त्योः । कः पुनरसौ ? लिङ्गमेव । न हि लिङ्गादन्यदनुवृत्तं व्यावृत्तं च । तच्च गमकम् । ननु लिङ्गमपि नैव गमकं

व्यासभाष्यम्

तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत् ।

विवरणम्

लिङ्गिसम्बन्धानपेक्षं, यदि चानपेक्षितलिङ्गलिङ्गिसम्बन्धं गमकं, यत्किञ्चिद्गमकं स्यात्, तस्मात् लिङ्गलिङ्गिसम्बन्धो वक्तव्यः ॥

 न-उक्तत्वात् ॥ 'अनुमेयस्य तुल्यजातीयेष्वनुवृत्तः' इत्यादिनैवोक्तत्वात् । न ह्यनुमेयेनासम्बद्धं लिङ्गिना तत्सदृशजातीयेष्वनुवर्तते, भिन्नजातीयेभ्यो वा निवर्तते । तस्मात् य इति च प्रसिद्धमेव संबन्धमनुवदति ॥

 तद्विषया-एवमन्वयव्यतिरेकविशिष्टसंबन्धसंबन्धिविषया वृत्तिः सामान्यावधारणप्रधाना-लिङ्गसामान्यावधारणप्रधाना, अनुमानम् ॥

 यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवदिति ॥ यद्यपि लक्षणाभिधानमात्रेण तदभिव्यक्तिः, तथाप्युदाहरणप्रत्युदाहरणप्रदर्शनादतितरामित्युदाहरणप्रतिपादनम् । तत्र गतिमच्चन्द्रतारकमिति चन्द्रतारकस्य गतिमत्त्वमनुमेयम् । तत्समानजातीयेष्वनुवृत्ता देशान्तरप्राप्तिर्गतिमत्सु चैत्रादिषु, भिन्नजातीयेभ्यश्चागतिभ्यो विन्ध्यादिभ्यो व्यावृतेति अव्यभिचरन्ती । नित्यं गतिमत्ता संबन्धात् ।

 तस्मादित्थंजातीयकमविनाभावेन संबद्धं संबन्ध्यन्तरं गमयति । यथा वध्यघातक(कृदि)कार्यकारणादि ॥

 भवतु तावदविरुद्धानां नित्यसंबन्धाद्देशान्तरप्राप्त्यादीनां गम्यगमकता, वध्यघातकादीनां तु संबन्धाभावे कथमित्युच्यते गम्यगमकभावः (भावेन) ?

 तत्रापि नित्यसंबन्धाददोषः । न ह्यन्यत्रापि प्राप्तिलक्षणः संबन्धोऽभिप्रेयते । सामान्यतो दृष्टा(नु)भावप्रसङ्गात् । न हि चन्द्रतारकादिषु देशान्तरप्राप्तेः प्राप्तिलक्षणसंबन्धः प्रत्यक्षेण गृह्यते । अगृह्यमाणश्चेद्गमकः सर्वं सर्वस्य गमकं स्यात् । न हि किंचित्केनचिदसंबद्धम्, आकाशादीनां सर्वत्र भावात् ॥

 तस्माद्गम्यगमकबुद्ध्युत्पत्तिहेतुरेव संबन्धोऽनुमानविषये । तथा च वध्यघातकयोरपि अन्यतर(रा)भावदर्शनेऽन्यतराभावो गम्यत इत्यनुमानमेव । यस्याप्युचिते देशे अभावदर्शनादन्यत्र भावो गम्यते । यथा घातकदर्शनेन वध्याभावोऽनुमीयते । चैत्रस्य जीवतो गृहे अभाव(गृह्यभाव)दर्शने बहिर्भावश्चेति ॥

 ननु चाभावार्थापत्ती एते, नानुमाने, (न) लक्षणासङ्गतेः, गवादिवत् ॥

 न---यथोक्तलक्षणोपपत्तेः- वध्यघातकयोर्विरोधलक्षणः संबन्धः । यत्र यत्र घातकभावस्तत्र तत्र वध्याभाव एवेत्यविनाभावः । न हि वध्यस्याभावं घातक(का)भावो व्यभिचरति । वध्यस्य वा भावो घातका(क)भावम्, अग्निभावमिव धूमभावः ॥

 कथं पुनरवगम्यते घातकभावदर्शनादेव तद्गोचरे वध्यस्याभावबुद्धिरिति ? न पुनः सदुपलम्भकप्रमाणानां घातक इव वध्ये व्यापाराभावादिति ॥

 उच्यते-घातकभावे व्यापृ(प्यावृ)तप्रमाणस्यैव वध्याभावबुद्ध्युत्पत्तिः, धूमभावे व्यापृ(वृ)तप्रमाणस्येवाग्निभावबुद्ध्युत्पत्तिः, तथा घातकविशेषव्यापृ(वृ)तप्रमाणस्य वध्यविशेषाभावबुद्ध्युत्पत्तिः, धूमविशेषव्यापृ(वृ)तप्रमाणस्येवाग्निविशेषबुद्विरिति ॥

 अभावप्रमाणवादिनस्तु सर्वत्र प्रमाणाभावस्याविशिष्टत्वाद्विरोधिविशेष दर्शनानुविधानं विरोध्यन्तराभावदर्शनस्यानुपपन्नं, लिङ्गविशेषानुविधानमिव लिङ्गिविशेषदर्शनस्य । न हि सदुपलम्भकप्रमाणव्यापाराभावस्य कश्चिद्विशेषः, येन विशेषबुद्धिस्तद्विशेषमनुविधीयते ॥

 अथ जिज्ञासिते विशेषे सदुपलम्भकप्रमाणाभावादिति चेत्—तन्न— असतः स्मृतीच्छादिसहभावापेक्षानुपपत्तेः । न ह्यसत् सहायापेक्षया कार्यं निर्वर्तयद्दृष्टं शशविषाणादि । दृष्टमिहेति चेत्-न-विप्रतिपत्तिस्थानत्वे दृष्टान्ताभावात् । तुल्यमिति चेत्-न-घटादेः सतोऽपेक्षादर्शनात् ॥

 न चापि निर्व्यापारस्यावस्तुत्वादभावस्य प्रमाणभावो युक्तः । न हि निरस्तव्यापारकं किंचित् कार्यारम्भकं दृश्यते लोके । तस्माद्व्यापाररूपप्रमाणजनिता प्रमेयाभावबुद्धिः, प्रमेयविषयत्वात् घटादिबुद्धिवत् । तथा च वस्तुत्वात् प्रवृत्तिनिवृत्तिहेतुत्वात् । विपक्षः शशविषाणादिः । तथा अभाव[प्रमा]प्रमाणा(ण) भावजनिता न भवति, यथाऽभिहितहेतुदृष्टान्तदर्शनात् । (नेन) ॥

 घातकदर्शनं वध्याभावबुद्धेर्लिङ्गं तद्भावभावित्वादग्न्यादिबुद्धिनिमित्तधूमादिबुद्धिवत् संशयनिवर्तकत्वाच्च । वध्याभावबुद्धिर्वा लिङ्गजनिता निश्चयरूपत्वादग्निबुद्धिवदिति ॥

 इह घटो नास्तीति किल नानुमानं लिङ्गलिङ्गिसंबन्धाग्रहणात् । न हि यथाऽग्न्यादिबुद्धेर्धूमादिलिङ्गान्वेषणं तथेह नास्ति घट इत्यत्र लिङ्गान्वेषणमस्ति । प्रागेव लिङ्गान्वेषणात् बुद्ध्युत्पत्तेः ॥

 नैष दोषः । इहप्रत्ययाकारस्यैव लिङ्गत्वात् । न हि प्रथममेव लिङ्गबुध्युपजनने सति लिङ्गान्वेषणं भवति । इहेत्याकारोपरञ्जिता बुद्धिर्लिङ्गम्। उपरञ्जकव्यतिरिक्तघटाद्यभावबुद्धेर्घातकबुद्धिवदेव । विरोधलक्षण एव चात्रापि सम्बन्ध : ॥

 यत्र पुनरविरुद्धान्युपरञ्जकानि तत्रास्तित्वबुद्धेः । एतेनैवार्थापत्तेरनुमानत्वं व्याख्यातमविनाभावेन संबन्धेन । तत्रापि जीवतो हि देवदत्तस्य गृहाभावे बहिर्भावः, यदा गृहे भावः न तदा बहिर्भाव इत्यन्यतरेणानुमानम् । साक्षात् दृश्यमानबहिर्भावाभ्यन्तराभावत्वं दृष्टान्तः । वृत्त्युपरञ्जकानुपरञ्जकत्वेन ह्यभावग्रहणस्याभिहितो हेतुः ॥

 अग्न्यादावपि दहनादिशक्तिग्रहणमनुमानमेव । कार्यनिर्वर्तकयोरविनाभावसंबन्धस्यात्मनि दृष्टत्वाद्भुज्यादौ । दृश्यते हि प्रत्यगात्मनि शक्तोऽहमिदं कार्यं कर्तुमशक्तोऽहमित्यात्मवदात्मविशेषणस्य शक्तेर्ग्रहणम् । शक्तिनिर्वर्त्यमेव दहनादिकार्यमपीत्यनुमानसिद्धिः ।

 ननु चाभावस्य प्रत्यक्षतामुपगायन्ति केचित् । यथा किलादर्शकेन प्रदीपादिना सति गृह्यमाणे वस्तुनि न तदवयविनि यदुपलभ्यते तन्नास्तीत्येवं सत: प्रकाशकं प्रमाणमसदपि प्रकाशयति । तथा चोदाहरन्ति-अनङ्कितं वास आनयेत्युक्तः प्रविश्य भाण्डागारम् अङ्कितानङ्कितवासस्सन्निधावङ्कितवासोग्रहणेनैव प्रत्यक्षेणाङ्काभावविशिष्टं वास उपलभ्यानयति । तस्मात् प्रत्यक्ष एवाभावो लक्षणान्तरानुपपत्तेरिति ।

 तन्न-बुद्ध्याकारेणार्थावधारणानृतत्वप्रसङ्गात्। यदाकारा हि बुद्धिस्तस्य प्रत्यक्षावध्रियमाणात्मताभ्युपगम्यते । यथा नीलं वस्तु पीतमित्यत्रापि विशेषणविशेष्यसंबन्धप्रत्ययो मिथ्या प्राप्नोति ! तद्यथेह घटे नास्तीति इहप्रदेशस्य घटाभावेनासति संबन्धे संबन्धप्रत्ययः ; न हि घटाभावस्येहप्रदेशस्य चा[प्राप्त]प्राप्तिलक्षणः समवायाभिधानो वा संबन्धस्तैरभ्युपेयते । यथेह देवदत्त इति । तस्मादभाव(वे)प्रत्ययव(या)न्नीलं वस्त्विति विशेषणविशेष्यसंबन्धप्रत्ययोऽपि संबन्धप्रत्ययत्वान्मिथ्या प्रसज्येत ॥

व्यासभाष्यम्

  विन्ध्यश्चाप्राप्तेरगतिः ॥

विवरणम्

 यथा चासत्यपीहदेशघटाभावसंबन्धे संबन्धप्रतीतिस्तथैवानीलेऽपि वस्तुन्यसत्येव नीलत्वसंबन्धे नीलत्वसंबन्धप्रत्ययः प्राप्नोति, तथा संबन्धिष्वपि । अथास्त्येव संबन्धः, द्विष्ठता विरुध्येत संबन्धस्य । अभावस्यावस्तुत्वाभ्युपगमात् ॥

 अथाप्येकशतं षष्ठ्यर्था इति यावत् षष्ठ्यर्थः संबन्ध इष्येत, तदा द्विविध एव संबन्धः समवायाख्यः संयोगाख्यश्चेति न युज्यते ॥

 अथै(तथै)कशतस्यापि षष्ठ्यर्थानामुभयान्त:पातित्वमुच्येत-न- अभावेऽन्यतरस्याप्यसम्भवात् ।

 किञ्च(न्त्व)न्यत् । इह नभसि कुसुमं नास्तीति संबन्धिनो नभसोऽप्यप्रत्यक्षत्वात् गगनकुसुमाभावस्याप्रत्यक्षत्वं प्राप्नोति । अथाप्रत्यक्षत्वमेवेति चेदापतितं गगनकुसुमाभाववदप्रत्यक्षत्वमिह भूप्रदेशे घटाभावस्यापि । विशेषो वक्तव्यः ॥

 अथ व्योम्नोऽप्रत्यक्षत्वादिति---तन्न-पुष्पस्य पततो नभस्यस्तित्वदर्शनाद्व्योमाप्रत्यक्षत्वमहेतुः । यथैव निपतत्कुसुमसद्भावे व्योमाप्रत्यक्षत्वमहेतुस्तथा सद्भावविरुद्धग्रहणेऽप्यहेतुः स्यात् । अथाकाशाप्रत्यक्षत्वादेवेति चेत्, असंबन्धमपि यत्किञ्चिद्व्यवहिताप्रत्यक्षत्वादि सोऽपि हेतुः स्यात् । अथ नभःकुसुमाभावः प्रत्यक्ष इति चेत्--इन्द्रियार्थसन्निकर्षानर्थक्यं सर्वत्र प्रसज्येत । तथा च सत्यसन्निकृष्टोपलब्धेः सर्वेषां सर्वज्ञत्वं प्रसक्तम् ॥

 अथानुमेयं तत्रेति चेत्-नभःकुसुमाभाववदिह घटाभावस्याविशेषादानुमानिकत्व(कीय)मेव सिद्धम् । एवं च सत्यभावप्रमाणवादिनोऽपि व्यवहितविप्रकृष्टोदकादावनलाद्यभावस्यानुमेयत्वादिह घटाभावोऽपि तत्सामान्यादनुमानग्राह्य एवेति निश्चेतुं युक्तम् ॥

 विन्ध्यश्चाप्राप्तेरगतिरिति च प्रयोगान्तरम् । अगतिर्विन्ध्य इति प्रतिज्ञानम् । अप्राप्तेरिति हेतुः । चैत्रवदिति काकलोचनवदुभयत्र संबध्यते । गतिमच्चन्द्रतारकमित्यनेन साधर्म्येण, विन्ध्यश्चाप्राप्तेरित्यनेन वैधर्म्येण संबन्धः । एवं च सत्यन्वयव्यतिरेका(क)दर्शनकृतो न दोषः ॥

व्यासभाष्यम्

 आप्तेन दृष्टोऽनुमितो वाऽर्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते, शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः ।  यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात् ॥ ६ - ७ ॥

विवरणम्

 अथवैतस्मिन् प्रयोगे व्यतिरेकविपर्ययदर्शनेन दोषाभाव इत्युपन्यस्तम् । लक्षणस्य च लक्ष्यविशेषेणोह्यत्वाददोषः ॥

 आप्तः परानुजिघृक्षाप्रयुक्तो दोषरहितो दृष्टानुमितार्थः । तेन दृष्टो वा अनुमितो वार्थः परत्र श्रोतृविशेषे स्वबोधसङ्क्रान्तये स्वाधिगमसंक्रमणाय शब्देन शब्द इति वाक्यं ततो विशिष्टार्थप्रतिपत्तेः । तस्मात्तदुपदिष्टाद्वाक्यात् । [तदर्थविषया] वाक्यार्थविषया या चित्तवृत्तिः सा अनुमानवदेव "सामान्यावधारणप्रधाना" ॥

  इत्थमाप्त्यादिधर्मग्रहणपूर्विका श्रोतुरागमः, न वक्तुः । दृष्टानुमितार्थो हि वक्ता, तस्य लैङ्गिकमैन्द्रियकं वा तज्ज्ञानम् । श्रोतुरेव तु श्रवणपूर्वकं निश्चितं विज्ञानं लैङ्गिकैन्द्रियकव्यतिरिक्तम् । स आगमः [न] प्रत्यक्षमिन्द्रिया[विषय]- विषयत्वात् यथाभिहितलिङ्गलिङ्गिसंबन्धनिरपेक्षत्वाच्च नानुमानम् । न हि स्वर्गापूर्वदेवतादिशब्द(ब्देऽ)र्थान्वितं ज्ञानमासादितलिङ्गलिङ्गिसंबन्धपुरस्सरमुपजायते । फलं तु सर्वत्र पौरुषेयो वृत्तिबोध एव ।

 यस्य आगमस्य वक्ता आगमाख्यवृत्त्युत्पत्तिनिमित्ते शब्दोच्चारणात् आगमस्य प्रयोगोपन्यासेन प्रतिपादितं फलं तु पूर्ववदेव। यदप्येक एव प्रयोगस्त(था)- दापि साध्यसाधनाभावमात्रस्य विवक्षितत्वान्न विपरीतव्यतिरेकदर्शनादित्युच्यते ॥

 अश्रद्धेयार्थवक्त्रभिहितत्वेनागम एव विशेष्यते । कथमसावश्रद्धेयार्थो वक्तेत्यत अह--न दृष्टोऽनुमितो वार्थः तेन वक्त्रा । शिष्टलोकप्रसिद्धान्यथाप्रतिपादनात् बुद्धार्हतादिः । न हि रागादिदोषानुपहतान्त:करण: प्रसिद्धमन्यथा निर्वर्णयति । स आगमः प्लवते आभासीभवति ॥

 यद्यपि प्रत्यक्षानुमानविषयाभासदर्शनं स्वशब्देन न कृतं, तथाप्यागमाभासोपप्रदर्शनेनैव पूर्वत्रापि यथाभिहितलक्षणविपरीतत्वेन प्रत्यक्षानुमानाभासादि द्रष्टव्यमर्थादुक्तम् ॥

 मूलवक्तरि तु आद्यवक्तरीश्वरे तन्निमित्तो य आगमः स विप्लवनिमित्ताभावान्निर्विप्लवः स्यात् । यथार्थ(य)वक्तृवत् ।

 उपमानं (मानं) शब्दपूर्वकम् । तदागमान्तःपतित्वान्न प्रमाणान्तरम् । यथा गौरिव गवय इति वनेचराभिहितादेव वाक्यादवधृतसादृश्यस्य पुनर्वने गवयदर्शनेऽपि पूर्वश्रुतवाक्योपस्थापितसादृश्यस्मरणमात्रमेव नाधिकम् । सादृश्यं तु वाक्यादेव पूर्वप्रतिपन्नम् ॥

 नापि संज्ञासंज्ञिसंबन्धप्रतिपत्तित एव मानं, तस्या अपि तद्वाक्यादेवावगतत्वात् । न हि गौरित्येतावतानवगतगवयनामकस्य वनगतगवयदर्शिनोऽपि गवयोऽयमिति संज्ञासंज्ञिसंबन्धावबोधो भवति ॥

 तस्माद्गौरिव गवय इति गवयशब्दोऽपि तद्वाक्येऽपेक्षितव्यः । तथा च सति पूर्वश्रुतादेव वाक्यात् सर्वं प्रतीतम् । अथापि स्यादयं(दस्य)गवय इति न पूर्वबुद्धिविषयमिति—तदापि तत्रभवतामपि परिचोदनपरिहारमवपश्यतामपि पण्डितंकैवले[कौले]यकवृत्तिकोणेऽवस्थानमिव लक्ष्यते ॥

 तथा हि-देशकालसन्निकर्षविप्रकर्षादिभेदेनानेकोपमानभेद: प्रसज्येत । तथास्त्विति चेत्-तत्पूर्वधियैवातत्वमन्तर्निहितसमस्तविशेषमेव हि वा नेयौ पूर्वमुपपादितम्। नहि गौरित्युक्ते देशकालादिविशेषाभावे न गोशब्दादर्थप्रतिपत्तिः ॥

 किं चान्यत्-न हि संज्ञासंज्ञिसंबन्धप्रतिपत्तिरुपमानं, येन ह्युपमीयते तदुपमानं, सादृश्यज्ञानं हि तत् । न हि नामिनामसंबन्धप्रतिपत्त्या किंचिदुपमीयते उत्तरकालत्वात् । अवधृतसादृश्यस्य हि पश्चाद(स्य)यं गवय इत्येवं सोऽपि निपतति ॥

 एवं तर्हि स्यादशब्दपूर्वकं प्रमाणान्तरं, यथा गवयदर्शनादेतत्सदृशो गौरिति ग्रामीणस्य बुद्धिः---तदपि न—प्रमेयाभावात् । सति हि प्रमेये सदुपलम्भकत्वाभिमतस्य प्रमाणस्य व्यापारः, न हि गोगवययोर्व्यावृत्तमनुवृत्तं च वस्तुतः सादृश्यं नामैकमस्ति ॥

 ननु च सादृश्यबुद्धिरस्त्येव, नासौ निरालम्बना भवितुमर्हति । सत्यमेवं तत्रैव विचारणा-किमसौ वनयूथादिप्रत्ययवत् ? अथ घटादिबुद्धिवदिति। किं चातः ? यदि वनप्रत्ययवद्भवेत्तदा यथैव विशिष्टसन्निवेशानुगता महीरुहा एवात्मव्यतिरेकेणाविद्यमानवनप्रत्ययहेतवस्तथैव गोगवयावयवा एव द्वयदर्शनस्मृत्यपेक्षया स्वात्मव्यतिरेकेणासतः सादृश्यस्य प्रतीतौ कारणमिति प्राप्तमवस्तुत्वम् ॥

 अथ पुनर्घटादिप्रत्ययवद्वस्तुत्वं प्रमाणत्वं च, तदा स्यादिति ॥

 तत्र कीदृशं वस्त्विति विचार्यते -

 किं गोगवययोरनुवृत्तमेकं सादृश्यं गोत्वगवयत्वाभ्यामन्यत् ? ते एव वान्योन्यविशिष्टे, यदि वा ताभ्यां भिन्ने गोगवयाधारे द्वे सादृश्ये परस्परानपेक्षे, सापेक्षे वा ?

 किं व्यक्तिरेव साऽन्यतरजातिविशिष्टा वा, किं जातिः,सा चान्यतरव्यक्तिविशिष्टा, व्यक्तिद्वयविशिष्टा वा, संबन्धो वैतेषां यथाविकल्पयोगमित्येकैकान्योन्यविशिष्टविशेषणत्वादिना भूयांसोऽन्येऽपि विकल्पा उद्भावयितव्याः । तत्र यद्येकं सादृश्यमुभयगतं, तदा नोपमेयत्वमेकत्वात्, यथा गौरिव गौरिति ।

 अथ तेनान्यतरव्यक्तिरुपमीयेत-नैतदपि-स्वात्मगतत्वात् गौरिव गोत्वेन । अथ तद्वत्या व्यक्त्या व्यक्त्यन्तरमुपमीयेत-नैतदपि-- न हि गोत्वं खण्डमुण्डोपमेयत्वकारणम् । अथ धर्मान्तरापेक्षया सादृश्यं तद्बुद्धेः कारणमिति, नष्टं तर्हि सादृश्यं, स एवास्तु धर्मः तद्बुद्धेः किं ते सादृश्यहतकेन कल्पितेन ॥

 किं च---स चाप्यपेक्ष्यमाणो ' धर्मः किमेकः सादृश्यवदुभयत्र, अथ भिन्न इत्येवमादिविकल्पाः स्युरित्यसम्भवः पूर्ववदेव । अथ भिन्नं सादृश्यमुच्येत-तच्च न-भेदादेव, न हि भवति गौरिवाश्व इति । यथैवैकैकत्वादघटमानता तथा बहुभिरपेक्ष्यमाणैः । एतेन जातिव्यक्तिसम्बन्धादयः पूर्वविकल्पिताः प्रत्युक्ताः ॥

 अथ बुद्ध्युत्पत्त्यन्यथानुपपत्त्या सादृश्यकल्पना, सत्येवं वनविवरपूर्वदक्षिणोत्तरादिबुद्धियोगान्यथानुभवात् [न्यथानुपपत्त्या]वस्तुत्वं किं न कल्प्यते । स्यादेषा तव बुद्धिर्वृक्षादय एव तत्र तद्बुद्धिजन्महेतव इति । यद्येवं मिथ्याप्रत्ययो गवयेन सदृशी गौरिति वनबुद्धिवत् । अथ ये व्यावृत्ताः क इहोपमार्थः गौरिवाश्व इति । अथोभयेऽपि तेऽवयवा व्यावृत्तानुवृत्तात्मानस्तद्बुद्धिहेतवः, तथापि वनप्रत्ययवदेव प्राप्तम् ॥

 तस्मात् परीक्ष्यमाणं नातिविमर्दनक्षममिति त एवावयवा उभयत्रोपलभ्यमाना भूयांसः सादृश्यबुद्धेः कारणं वनबुद्धेरिव पादपाः [इति] नोपमानं नाम प्रमाणान्तरमिति सिद्धम् ॥

 नापि प्रमेयद्वित्वात् प्रमाणद्वित्वकल्पनम्। कुतः ? प्रमाणवशादर्थप्रतीतेः । न ह्यर्थवशात् प्रमाणकल्पना । यदि चार्थवशात् प्रमाणकल्पना स्यात्, अधुना

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८ ॥

विवरणम्

 तन्न शक्यं जनानामसर्वज्ञत्वात् । चैत्यवन्दनात् स्वर्गो भवतीत्यत्र चैत्यवन्दनस्य स्वर्गहेतुत्वबुद्धेः प्रत्यक्षानुमानाविषयत्वान्मिथ्यात्वं स्यात् । तदर्थं वा प्रमाणान्तरकल्पनम् ॥

 अथ सा बुद्धिरनुमानफलमिति चेत्---प्रमाणादन्यत्र फलप्रसङ्गः, एवं श(क)रणत्रयादिवाक्यार्थविषयबुद्धिरपीति ||

 नापि चात्र प्रमाणलक्षणनिरूपणतात्पर्यं, प्रसिद्धप्रमाणादिवृत्तिनिरोधाभ्युपायाभिप्रदर्शनपरत्वात् । अत एव न सूत्रकारः सूत्रयाञ्चकार । भाष्यकारेण तु किञ्चित्प्रसिद्धानुवादमात्रमवलम्बितमिति तदनुसरणेन किमपि जल्पितमिति ॥ ६ - ७ ॥  प्रमाणाख्यां वृत्तिं व्याख्याय विपर्ययाभिधानां वृत्तिमिदानीमुपव्यचिख्यासमान आह--विपर्ययो मिथ्याज्ञानमिति ॥  ननु निरोधस्य प्रकृतत्वात्तस्य च हानत्वाद्धानस्य च हेयपक्षत्वाद्धेयस्य चाविद्यामूलत्वादविद्या च विपर्यय इति स एव प्राधान्येन निरोद्धव्यः । तत्प्रभवत्वाद्धेयस्य | कारणनिरोधे हि कार्यमर्थादेव निरुद्धं स्यात् । तस्माद्विपर्ययः प्राधान्यात् प्रमाणात् पूर्वं व्याख्यातव्यः ॥

 सत्यमेवमस्त्येव प्राथम्यं विपर्ययस्य निरोधनीयतया, तथापि गुणदोषज्ञानापेक्षत्वान्निरोधं प्रति पुरुषप्रवृत्तेः । प्रमाणमेव हि गुणदोषज्ञानम् । न ह्यप्रमाणेन विपर्ययस्य दुष्टत्वं गम्यते, निरोधतत्फलसाधनानि वा ज्ञायन्ते । तस्मात् प्रमाणवृत्तेरेव प्राथम्यं युक्तम् । ज्ञायते च गुणदोषौ प्रमाणेनेति तदनन्तरं विपर्ययाभिधानम् । वृत्त्यन्तरापेक्षया तु विपर्ययस्य प्राथम्यम्। तन्मूलत्वाच्च वृत्त्यन्तराणां तन्निरोधपूर्वमेवान्यनिरोधोपपत्तेः ||

 विपर्ययो मिथ्याज्ञानमिति पर्यायकथनम् । अतद्रूपप्रतिष्ठमिति लक्षणोक्तिः | तस्य रूपं तद्रूपं न तद्रूपमतद्रूपं, यदाभासं विज्ञानं तस्य विज्ञानस्य च सा प्रतिष्ठा आलम्बनम् । अगृहीतविशेषस्य सामान्यमात्र-- बुद्धिरुपलब्धपूर्वान्यवस्तुस्मृत्युपसंहिता निश्चयाकारेणोपसंहिता निश्चयाकारेणोपजायमाना विपर्ययः ||

व्यासभाष्यम्

 स कस्मान्न प्रमाणम् । यतः प्रमाणेन बाध्यते । भूतार्थविषयत्वात् प्रमाणस्य । तत्र प्रमाणेन बाधनमप्रमाणस्य दृष्टम् । तद्यथा—द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति ।

विवरणम्

 संशयो ह्युभयोरिदं सामान्यमित्येवं गृहीतसामान्यस्य विशेषमेव बुभुत्समानस्य जायत इति स्मृतावेवान्तर्भवति । यथा स्थाणुः किं वा पुरुष इति गृहीतपूर्वस्यैव विशेषस्य स्मरतः संशयो जायते, न तथा विपर्ययः । अन्यतरस्मरणमात्रेणैवावसितत्वात् । तद्यथा—स्थाणौ पुरस्तादवस्थिते परिणाहारोहणादिसामान्यमात्रोपलम्भेन समुपजातपुरुषस्मरणस्य पुरुष एवायमिति निश्चिता बुद्धिरुत्पद्यते ॥

 सा यद्यपीन्द्रियमार्गेणोपलभ्यमानवस्तुसामान्यप्रधाना, तथापि स्मर्यमाणातद्वस्तुप्रतिष्ठत्वान्न प्रमाणम् । स्मृत्यवसाना हि सा, यतः प्रमाणेन प्रबाध्यते अ(आ)भूतार्थ(र्थादि)विषयत्वात् । (इत्यतः प्रतिष्ठत्वादित्येतत्) अभूतो हि स्मर्यमाणोऽर्थस्तदा । यद्येवं स्मृतिरेव प्राप्नोति-न—विशिष्टत्वात् । उपलभ्यमानं वस्तु निमित्तीकृत्यान्यत्र स्मृतिर्जायते यथानुभूतवस्तुविषया । न विपर्ययस्तथा । सन्निहितसामान्यमात्रे देशकालादिविशेषानुगते वस्तुनि स्मरणपर्यवसानत्वे सत्यप्ययमिति विशेषरूपेण विपर्ययप्रत्ययो जायते । तस्मादेवं न प्रमाणधर्मो नापि स्मृतिधर्म इति वृत्त्यन्तरत्वम् ॥

 तत्राप्रमाणस्य प्रमाणेन बाधसंदर्शनार्थमुदाहरणं दर्शयति—तद्यथा द्विचन्द्रदर्शनमिति ॥ यथा काचकामलाद्युपहतदर्शनस्याभूतार्थविषयत्वाद्धि द्विचन्द्रदर्शनस्य सद्विषयेण भूतार्थविषयेण एकचन्द्रदर्शनेन द्वितीयचन्द्राभावोपपत्तिज्ञानस्मृत्यनुगृहीतेन बाधनम् ॥

 ननु च द्विचन्द्रमिति द्विपूली पञ्चपूलीतिवत् द्विगुसमासत्वात् “द्विगुरेकवचनम्' इति प्रतिलब्धे तद्भावात् ‘अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः’ इति द्विगोरकारान्तात् (इति) द्विचन्द्रशब्दादीकारः प्राप्नोति-नैष दोषः-पात्रादिप्रतिषेधात्। तत्र चादिशब्दस्य प्रकारवचनत्वात्। प्रकारस्य च शिष्टप्रयोगानुसारित्वात् ,

व्यासभाष्यम्

 सेयं पञ्चपर्वा भवत्यविद्या, अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति । एत एव स्वसंज्ञाभिः तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति । एते चित्तमलप्रसङ्गेनाभिधास्यन्ते ॥ ८ ॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९ ॥

व्यासभाष्यम्

 स न प्रमाणोपारोही,

विवरणम्

द्विचन्द्रोऽपि पात्रादिषु द्रष्टव्यः । द्वौ चन्द्रौ यस्मिन् दर्शन इति बहुव्रीहिः । एकचन्द्रशब्दस्य अद्विगुत्वादेव चोद्याभावः । सा च पञ्चपर्वा अविद्या; सा विपर्ययवृत्तिरविद्या पञ्च पर्वाणि अस्या इति ॥

 कानि पुनस्तानीत्याह-अविद्यास्मितेत्यादि । एत एव अविद्यादयः क्लेशाः स्वसंज्ञाभिः स्वाभिः शास्त्रान्तरप्रसिद्धाभिस्तमआदिसंज्ञाभिः विशिष्टाः चित्तमलप्रसङ्गेनाभिधायिष्यन्ते द्वितीयपादे ॥ ८ ॥

 इदानीं विकल्पं दर्शयति-शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ शब्दस्य ज्ञानं शब्दज्ञानम्, वाच्यवाचकनियमेन साध्वसाधुशब्दज्ञानं, तदनुपतितुं शीलमस्येति शब्दज्ञानानुपाती । वस्तुशून्य इति ॥ यथावाच्यार्थशून्यः, यस्य शब्दस्य ज्ञानमनुपतति तस्य शब्दस्य यथाभूताभिधेयेन शून्य इति यावत् । यथाभूतार्थव्यतिरेकेण हि विकल्पनं विकल्पः ॥

 तस्य हि शब्दज्ञानानुपातित्वादागमान्तःपातित्वं प्राप्तम्, अत आह—स न प्रमाणोपारोहीति ॥ न प्रमाणान्तःपाती वस्तुशून्यत्वात् । न ह्यागमस्य शब्दज्ञानानुपातित्वेऽपि वस्तुशून्यता । यतः शब्दार्थविषया वृत्तिरागमः, विकल्पस्तु वस्तुशून्यत्वान्न प्रमाणम् ॥

 किञ्च-वक्तृश्रोत्रोश्च तुल्यो विकल्पः । द्वयोरपि शब्दादुच्चरिताद्विकल्प्यैव हि बुद्धिर्जायते । न तथा आगमे । श्रोतुरेव ह्यागमः । वक्ता तु दृष्टानुमितार्थः ॥

 किञ्च-निर्वितर्कसमापन्नस्य विकल्पो निवर्तते नागमः । तस्मान्न प्रमाणोपारोही ॥

व्यासभाष्यम्

  न विपर्ययोपारोही च । वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते । तद्यथा---चैतन्यं पुरुषस्य स्वरूपम्” इति । यदा चितिरेव पुरुषः तदा किमत्र केन व्यपदिश्यते? भवति च व्यपदेशे वृत्तिः,'यथा - चैत्रस्य गौः?' इति |

विवरणम्

 यद्येवं वस्तुशून्यत्वाद्विपर्ययान्त:पातित्वं प्राप्तम्, अत आह-न विपर्ययोपारोहीति । कुतः ? शब्दज्ञानानुपातित्वात् । न हि वस्तुशून्यत्वेऽपि विपर्ययः शब्दज्ञानमपेक्षते । यतः "विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्" इत्युक्तम् ।प्रमाणपरिच्छेद्यप्रत्ययं प्रत्यतिगुणभूतत्वाच्च विकल्पस्य। न हि यथा सर्वेषां विपर्ययो विरोधाद्वाध्यते, तथा विकल्पः । प्रमाणप्रत्ययगुणभावादेव ॥

 तस्माद्वस्तुशून्यत्वग्रहणेन शब्दज्ञानानुपातित्वग्रहणेन च परस्परसंबन्धेन प्रमाणविपर्ययाभ्यां प्रमाणविपर्ययगन्धमात्रानुलिप्तमपि भिन्नं विकल्पाख्यं वृत्त्यन्तरं दर्शितम् ! तद्गन्धानुलेपनादेव तदानन्तर्येण विकल्पस्यारम्भः ! नापि स्मृतित्वम् । स्मृतेः केवलानुभूतास्पदत्वातू॥

 अथ न त्वीदृशी चित्तवृत्तिः प्रसिद्धा । न हि स्वभावं किंचिद्वृत्तिनिमित्तमिति चेदाह-वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्य[मात्र]निबन्धनो व्यवहारो दृश्यते इति । मात्रग्रहणं शब्दज्ञानव्यतिरिक्तकारणाभावख्यापनार्थम् । क्व दृश्यत इति चेदाह-तद्यथा चैतन्यं पुरुषस्य स्वरूपमिति । चितिशक्तिरपरिणामिनीत्युक्तत्वाचैतन्यमेव पुरुषः, तदेव च स्वरूपमिति व्यतिरेकाभावाद्वयतिरेकोपनिबन्धनो व्यपदेशो न स्यात्-'पुरुषस्य चैतन्यम्' इति । तथा चेममेवार्थमुपाश्रित्य शब्दविदा वार्तिककारेणोक्तम्-‘सिद्धं तु व्यपदेशिवद्भावात्' इति । तथैवेहापि यथा सति व्यतिरेके चैत्रस्य गौरिति तद्वदेव चैतन्यं पुरुषस्येति । न हि यथा गोरन्यश्चैत्रो व्यपदेशहेतुः, तथा चितेरर्थान्तरं पुरुषोऽस्ति, येन व्यपदिश्येत । नापि चितिः पुरुषादर्थान्तरं व्यपदिश्येत । तथाऽपि व्यतिरेकसंबन्धविषये भवति "चैतन्यं पुरुषस्य स्वरूपम्" इति व्यपदेशे वृत्तिः ॥

व्यासभाष्यम्

 तथा, प्रतिषिद्धवस्तुधर्मो[र्मो] निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति, गतिनिवृत्तौ धात्वर्थमात्रं गम्यते । तथा, अनुत्पत्तिधर्मा पुरुष इति, उत्पत्तिधर्मस्याभावमात्रमवगम्यते, न पुरुषान्वयी धर्मः। तस्मात् विकल्पितः स धर्मः, तेन चास्ति व्यवहार इति ॥ ९ ॥

विवरणम्

 प्रतिषिद्धवस्तुधर्मेति । वस्तुनो धर्मो वस्तुधर्मः । प्रतिषिद्धो वस्तुधर्मोऽस्येति प्रतिषिद्धवस्तुधर्मा ।। "धर्मादनिच् केवलात्" इति वचनात् समासान्तश्चिन्त्यसमाधिः । वस्तुशब्देन सत्त्वादिगुणा उच्यन्ते, तेषां धर्माः प्रतिषिद्धा अस्येति ।।

 न हि प्रतिषिद्धाः सत्त्वादिधर्माः प्रतिषिद्धत्वादेवास्य पुरुषस्य संबन्धिनो भवन्ति । येन ते पुरुषेण अस्येति व्यपदिश्येरन् । तदभावमात्रमेव तु तत्रार्थः । तथापि यथा चित्रा गावोऽस्येति व्यपदेशे बुद्धिः तथा प्रतिषिद्धा वस्तुधर्मा अस्येति व्यपदेशे बुद्धिः ॥

 निर्गता क्रिया अस्मादित्यत्रापि निर्गतिरपायः । अपायश्च सम्बन्धपूर्वः । यथा चैत्रानिर्गता क्रिया । न चैवं पुरुषे क्रियाया असम्भवानिर्गतिः पुरुषात् सम्भवति । तथाऽपि ‘निष्क्रियः पुरुष' इति व्यपदेशे भवति वृत्तिः ॥

 तथाऽनुत्पत्तिधर्मा पुरुष इति ॥ न विद्यते उत्पत्तिधर्मोऽस्येति पूर्ववदेव । अत्र स्वयमेवार्थमाचष्टे भाष्यकारः---उत्पत्तिधर्मस्याभाव(ज्ञान)मात्रमव(मत्र)गम्यते । यथा निर्गुणो निरञ्जनो निष्कल इत्येवमादीन्यप्युदाहरणानि ॥आत्मविषयानेकोदाहरणप्रदर्शनमात्मतत्त्वनिर्धारणार्थत्वात् ॥

 तिष्ठति बाण इति लोकप्रसिद्धोदाहरणप्रतिपादनमप्रसिद्धयाशङ्कानिवृत्त्यर्थम् ॥ तिष्ठतीति गतिनिवृत्तिर्गत्यभावः । न चाभावस्य कालत्रययोगो भवति । नापि बाणस्य क्रियानिरपेक्षस्य द्रव्यस्य । नापि चाभावेन गतिनिवृत्त्या बाणस्य वस्तुनः संबन्धः । तिष्ठति बाणः [स्थास्यति स्थितः] इत्येवं त्रीण्युदाहरणानि ॥

अभावप्रत्ययालम्बना वृत्तिर्निद्रा १० ॥

व्यासभाष्यम्

  सा च सम्प्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः । कथम् ? "सुखमहमस्वाप्सम् , प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति” ‘दुःखमहमस्वाप्सम् , स्त्यानं मे मनो भ्रमत्यनवस्थितम्" ‘गाढमूढोऽहमस्वाप्सम् , गुरुगुरूणि मे गात्राणि, क्लान्तं मे चित्तम् अलसं मुषितमिव तिष्ठति" इति । स खल्वयं प्रबुद्धस्य प्रत्यवमर्शो न स्यादसति प्रत्ययानुभवे । तदाश्रिताः स्मृतयश्च तद्विषया न स्युः । तस्मात् प्रत्ययविशेषो निद्रा । सा च समाधावितरप्रत्ययवन्निरोद्धव्या इति ॥ १० ॥

विवरणम्

 गतिनिवृत्तौ धात्वर्थ इति ॥ ननु गतिनिवृत्तिरेव धात्वर्थः, तत्र कथं गतिनिवृत्तावित्याधारः ? अत एवोदाहरणान्तरमेतत् । असति व्यतिरेके आधाराधेयभावस्याभावात् । अस्ति च गतिनिवृत्तौ धात्वर्थ इति व्यपदेशे शब्दसामर्थ्यसमुत्थापिता बुद्धिराधाराधेय[भाव]संबन्धावलम्बिनी । तस्मादित्थंजातीयं विकल्प, विषयमनेकमुदाहरणं द्रष्टव्यम् || ९ ||

 निद्राख्यां वृत्तिमिदानीमाचष्टे-अभावप्रत्ययालम्बना वृत्तिर्निद्रा । जाग्रद्विषयत्वात् प्रागुक्तस्य वृत्तित्रयस्य तदुपमर्देन च निद्रासमुद्भव इति, तदनन्तरं निद्राख्या वृत्तिर्व्याख्यायते ।

 अभाव इति जाग्रद्विषयाभावः, न त्वत्यन्ताभाव एव । तत्र प्रत्ययानुपपत्तेः । अभावे प्रत्ययः अभावप्रत्ययः । स एव आलम्बनं यस्याः सा वृत्तिरभावप्रत्ययालम्बना । सा निद्रा सुषुप्तावस्था ॥  ननु च स्वप्नावस्थाऽपि निद्रैव--नैष दोषः--"स्वप्ननिद्राज्ञानालम्बनं वा" इति सूत्रकारेण भेदेनोपदिष्टत्वादिह सुषुप्तावस्थैव निद्राऽभिप्रेता ॥

 किंच--अभावप्रत्ययालम्बनत्वाच सुषुतमेव । न हि स्वप्नस्याभावप्रत्ययालम्बनता, स्मृतित्वात् | स्मृतेश्चानुभूतविषयत्वात्| तथा भाष्यकारः स्वप्ने भावितस्मर्तव्या?" इति स्मृतित्वं दर्शयति ॥

अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ ११ ॥

विवरणम्

 किञ्च-स्वप्नस्य चित्तवृत्तिता स्वसंवेद्येति नाशङ्कैवोपपद्यते । तथा च चित्तवृत्तितामाशङ्क्याह-सा तु[च सं]प्रबोधे प्रत्यवमर्शादित्यादि । तस्मात् प्रत्ययविशेषो निद्रा । न ह्यसति प्रत्ययविशेषे परामर्शो युक्तः ! अस्ति चायं प्रबुद्धस्य प्रत्यवमर्शः ‘सुखमहमस्वाप्सम्' इत्यादिः । प्रत्यवमर्शो नाम किमप्यन्वभूर्वामिित प्रत्ययालोचना । नानुभवाभावे सा भवेत् । नापि तद्विषयाः स्मृतयो युक्ताः । निद्राया अप्रत्ययत्वे-प्रज्ञां विशारदीकरोति मनः, मनसः कर्तृत्वं, स्त्यानं स्तिमितम् अकर्मण्यम्, गुरुगुरूणीति प्रकारे गुणवचनस्य इति द्विर्वचनं गुरुप्रकाराणि, अलसं मुषितमिव मल्लेनापहृतमिव, एतानि प्रत्ययानुभवकार्याणि न स्युः । काश्चन स्मृतयः कानिचित् कार्याणि केचन प्रत्यवमर्शाः । तदेतत्त्रयमपि भाष्यकारोपन्यस्तं प्रत्ययविशेषत्व एवोपपद्यते ॥

 किञ्च—गर्भगृहादिषु चादृष्टबाह्यनिमित्तानामसति विशेषे चिरमहं सुप्तवान् क्षिप्रमिति च परामर्शोऽन्यथा न युज्यते ॥

 ननु च नात्र स्मृतयः, स्मृतीनाम् अन्वभवमित्येवंविशिष्टत्वात् । न हि सुषुप्तादुत्थितो विशेषं स्मरति--अत्रोच्यते--बालस्येह जन्मन्यननुभूतस्तन्यसंबन्धस्य जन्मानन्तरमेव तस्याभिलाषो दृश्यते । न च| [स] स्वाभाविकः | अबालानां स्मृतिपूर्वप्रवृत्तिदर्शनात् । तथेहापि । तस्मात् प्रत्ययपूर्वकः सुषुप्तविषयः प्रत्यवमर्शः, प्रत्यवमर्शत्वात् जाग्रदुपलब्धविषयप्रत्यवमर्शवत् । तथा सुषुप्तोत्थितस्य गात्रगौरवादि कार्य दुःखाद्यनुभवपूर्वं, गात्रादिविषयगौरवादिकार्यत्वात् प्रसिद्धदुःखानुभवकार्यगात्रगौरववदिति प्रत्ययविशेषो निद्रेति सिद्धम् ॥ १० ॥

 स्मृतिमिदानीं व्याचष्टे--अनुभूतविषयासम्प्रमोषः स्मृतिः । स्मृतेः प्रमाणादिसर्ववृत्तिकार्यत्वादन्ते निवेशः । अनुभूतश्चासौ विषयश्च अनुभूतविषयः । योऽसावनुभूतः स एव विषयः, न पुनर्यो विषयः स एवानुभूत इति । तथा च स्मृतेरशब्दादित्वात् स्मृतिविषयायाः स्मृतेरस्मृतित्वं प्राप्नोतीति । इष्यते च स्मृतिविषयाऽपि स्मृतिः स्वसंवेद्यत्वात् । अ अनुभूतविषयस्यासंप्रमेषोऽनपहरणमतिरोभावुः । पारोक्ष्येऽपि सादृश्यादिनिमित्तापेक्षयाऽनुभूतस्य विषयस्य दृश्यमानवदवभासः स्मृतिः॥

व्यासभाष्यम्

 किं प्रत्ययस्य चित्तं स्मरति, आहोस्वित् विषयस्येति । ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः तञ्जातीयकं संस्कारमारभते । स संस्कारः स्वव्यञ्जकाञ्जनस्तदाकारामेव ग्राह्यग्रहणोभयात्मिकां स्मृतिं जनयति ॥

विवरणम्

तत्र प्रत्ययस्मरणयोर्विषयाकारावभासाविशेषात्, किङ्कृतस्तयोर्भेद इति तद्विवेकं प्रदर्शयितुकाम आह--किं प्रत्ययस्य चित्तं स्मरतीत्यादि ॥

 यद्यप्यनुभूताननुभूयमानविषयत्वेन विवेकः, तथापि सादृश्यनिमित्तां भ्रान्तिं तयोः कार्यकारणत्वप्रदर्शनाय निवर्तयति । एतदेव च वैनाशिकानां बहिरर्थानुपपत्तेर्बुद्धिकारणम् । किं प्रत्ययस्य स्मरतीति कर्मण्युभयत्र षष्ठी । चित्तं स्मरतीति पुरुषकर्तृत्वं निवारयति स्मृतिप्रत्यययोरेककर्तृत्वप्रदर्शनार्थम् । न हि पुरुषस्य प्रत्ययकर्तृत्वं स्मृतिकर्तृत्वं च । दृश्यत्वात् प्रत्ययानाम् । दृश्यानां च स्वात्मातिरिक्तदृश्यत्वं घटादिवदिति वक्ष्यामः |

 किञ्चातः ? यदि विषयस्य स्मरति, प्रत्ययस्यापि विषयविषयत्वादनर्थान्तरै स्मृतिः प्रत्ययात् । अथ प्रत्ययस्य स्मरति, तदा त्विदमयुक्तम् अनुभूतविषयासम्प्रमोष इति । तदा ह्यनुभवासम्प्रमोष इति स्यात्तत्राह-ग्राह्योपरक्तः ग्राह्यो विषय आलम्बनम् , तेनोपरक्तः लाक्षाद्युपरक्तस्फटिकवत् । ग्राह्यग्रहणोभयाकारनिर्भासः ग्राह्यस्य च घटादेः पृथुबुध्नाद्याकारेण स्वेन चावभासरूपेणोपञ्जायमानत्वादुभयनिर्भसः ॥

 स च प्रत्यय उत्पद्य विनिवर्तमानः स्वाश्रये प्रत्ययिनि संस्कारमादधाति । स च संस्कारः कारणानुविधायित्वादुभया(पात)कार एव । स्वव्यञ्जकाञ्जन इति । संस्काराधायिनः प्रत्ययस्य हेतुभूतं यत् कर्म दत्तफलं तत्तुल्यजातीयं यत्कर्मान्तरं फलप्रदानायाभिमुखीभवति तत् स्वव्यञ्जकम् । तथा च वक्ष्यति "ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम्" इति । तत्कर्मप्रत्युपनीतं वा सादृश्यप्रणिधानादि । स्वेन व्यञ्जकेनाभिव्यज्यत इति स्वव्यञ्जकाञ्जनः | ग्राह्यग्रहणात्मिकां स्मृतिं जनयति । अन्यथा तद्व्यञ्जकस्य कर्मणो विपाकानुपपत्तिः ॥

व्यासभाष्यम्

 तत्र ग्रहणाकारपूर्वा बुद्धिः । ग्राह्याकारपूर्वा स्मृतिः । सा च द्वयी भावितस्मर्तव्या च अभावितस्मर्तव्या च । स्वप्ने भावितस्मर्तव्या । जाग्रत्समये त्वभावितस्मर्तव्येति । सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात् प्रभवन्ति । सर्वाश्चैता वृत्तयः सुखदुःखमोहात्मिकाः । सुखदुःखमोहाश्च क्लेशेषु व्याख्येयाः—सुखानुशयी रागः, दुःखानुशयी द्वेषः, मोहः पुनरविद्या इति । एताः सर्वा वृत्तयो निरोद्धव्याः । आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवति असम्प्रज्ञातो वा इति ॥ ११ ॥

विवरणम्

 तत्र ग्रहणाकारपूर्वा बुद्धिः, ग्रहणम् [स्वी]करणं[स्वी]करणमेव पूर्वं प्रथममुत्पद्यमानस्य प्रत्ययस्य । न हि विषयविशेषमपेक्षते पूर्वमिष्टानिष्टग्रहणात् , निर्भग्नघटप्रदीपविनिर्गतप्रभाजालवत् ॥

 ग्राह्याकारपूर्वा स्मृतिः अनुभूतापेक्षत्वात् । यदि च ग्रहणपूर्विका स्मृतिः प्रत्ययवदभविष्यत्, अनुभूतं नापैक्षिष्यत । अपेक्षते तु । तस्माद्ग्राह्यो विषयः पूर्वोऽस्या न ग्रहणम् । तथापि तूभयात्मिकैव । स्मृतिसंस्कारयोरेकरूपत्वात् । नाप्यन्यतरप्रत्याख्यानेन सम्भवति । तथा चानुभूतविषयासम्प्रमोष इत्युपपद्यते । स्मृतिप्रत्यययोरपि[समान]विषयत्वात्, ग्रहणत्वस्य च सर्वत्र सम्भवात् । तस्मात् पक्षद्वयेऽप्यभिहेितदोषो न दृश्यत इति ॥

 सा च द्वयी । कथम् ? भावितस्मर्तव्या भावितं परिनिष्पन्नं असकृद्भावितत्वात् । यथा द्रव्यान्तरेणासकृद्भावितं तैलादि । असकृद्भावितत्वादेव प्रणिधानादिप्रयत्नान्तरं नोपेक्षते । भावितं स्मर्तव्यं प्रणिधानादियत्नान्तरा[न]पेक्षया यस्याः सा स्वप्ने भावितस्मर्तव्या । जा[गृ]ग्रत्समये त्वपेक्षते प्रणिधानादियत्नान्तरमिति तद्विपरीता ॥

 सर्वाश्च प्रमाणादिवृत्तिपञ्चतयानुभवादुद्भवन्ति । सर्वाश्चैताः सुखाद्या(स्सत्वाद्या)त्मिकाः। तदात्मकश्च संसारः । सुखदुःखमोहाश्च क्लेशेषु व्याख्याताः सूत्रकारेण। "सर्वं दुःखं विवेकिनः" इति हि वक्ष्यति । तद्धानं चेह विवक्षितम् ।

व्यासभाष्यम्

  अथ आसां निरोधे क उपाय इति--

अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२ ॥

व्यासभाष्यम्

 चित्तनदी नाम उभयतोवाहिनी वहति कल्याणाय वहति पापाय च । या तु कैवल्यप्राग्भारा विवेकविषयनिम्ना सा कल्याणवहा । संसारप्राग्भारा अविवेकविषयनिम्ना पापवहा । तत्र वैराग्येण विषयस्रोतः खिलीक्रियते, विवेकदर्शनाभ्यासेन विवेकस्रोत उद्धाट्यत इत्युभयाधीनश्चित्तवृत्तिनिरोधः ।। १२ ॥

तत्र स्थितौ यत्नोऽभ्यासः ॥ १३ ॥

विवरणम्

 तस्मात् सुखदुःखमोहात्मकत्वात् निरोद्धव्या वृत्तयः । किञ्च-आसां निरोधे सम्प्रज्ञातो वा समाधिर्भवत्यसम्प्रज्ञातो वा ॥ ११ ॥

 अथ आसां निरोधे क उपाय इति ॥

 उपायं प्रवेदयति-अभ्यासवैराग्याभ्यां तन्निरोध इति ॥ अभ्यासवैराग्ये वक्ष्यमाणलक्षणे । ताभ्यां यथोक्तलक्षणानां [वृत्तीनां] निरोधः विरोधात् । निरोध उपशमः । अभ्यासवैराग्ययोर्विषयविवेकप्रदर्शनार्थमेतद्भाष्यम्-चित्तनदीत्यादि । " चित्तेन नद्येव संसारिणः सततं विषये परिणीयन्ते । संसारप्राग्भारा संसारावसाना समुद्रावसानेव । खिलीक्रियते प्रतिबध्यत इति । उद्धाट्यते प्रवर्त्यते । उद्घाटः क्रियत इत्युद्धाट्यते । अन्यथा मित्वात् घटादयो मितः इति (हृतु) "मितां हृस्वः" इति स्यात् । एवं उभयाधीनः उभयतन्त्र इत्यर्थः ॥ १२ ॥

 तत्राभ्यासस्वरूपं प्रतिपादयिष्यन्नाह--तत्र स्थितौ यत्नोऽभ्यासः । तत्र तस्मिन्निरोधे । सा च निमित्तसप्तमी । निरोधनिमित्ता चित्तस्य या स्थितिः यत्नस्य फलभूता तस्या निमित्तो[क्तभूतो]यो यत्न: सोऽभ्यासः । तथा चाह--

_______________________________________________________________________________________

व्यासभाष्यम्

 चित्तस्यावृत्तिकस्य प्रशान्तवाहिता स्थितिः । तदर्थः प्रयत्नः-- वीर्यम्--उत्साहः । तत्सम्पिपादयिषया तत्साधनानुष्ठानमभ्यासः॥ १३ ॥

[स तु] दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४ ॥

दीर्घकालासेवितः, निरन्तरासेवितः, सत्कारासेवितः-तपसा ब्रह्मचर्येण विद्यया श्रद्धया च सम्पादितः सत्कारवान्, दृढभूमिर्भवति-- व्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः ॥ १४ ॥

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥

विवरणम्

अवृत्तिकस्य प्रशान्त[पङ्क:]कर(ङ्ग)ञ्जस्येवाभ्भसः प्रशान्तवाहिता प्रसन्नरूपतया परिणामो १निरुद्धवृत्तिकस्य २ चित्तस्य । यत्नो वीर्यमभ्युत्साह इति पर्यायाः । स्थितिसंपिपादयिषया यमनियमादियोगसाधनानुष्ठानमभ्यास इति ॥ १३ ॥

सतु कथं स्थिरीभवतीत्यत आह--दीर्घकालनैरन्तर्यसेवितः दीर्घकाल त्ववर्जितो वा [नैरन्तर्यवर्जितो वा न] दृढभूमिर्भवत्यभ्यासः । तस्मादुभयोरपि (विशेष्य)विशेषणत्वमेव । संस्कारासेवित इति त्वभ्यास एव विशेष्यते । दृढभूमिरित्यस्य व्याख्यानं व्युत्थानसंस्कारेणेति । व्युत्थानजेन संस्कारेण द्रागिति सहसा नाभिभूयते ॥ १४ ॥

वैराग्यप्रतिपादनार्थमाह-दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञावैराग्यम्। विषयशब्दः प्रत्येकमभिसंबध्यते वितृष्णस्य इति च, दृष्टविषयवितृष्णस्य आनुश्रविकविषयवितृष्णस्य चेति ।

व्यासभाष्यम्

स्त्रियोऽन्नं पानमैश्वर्यमिति दृष्टविषये वितृष्णस्य, स्वर्गवैदेह्यप्रकृतिलयत्वप्राप्तावानुश्रविकविषये वितृष्णस्य दिव्यादिव्यविषयसम्प्रयोगेऽपि चित्तस्य विषयदोषदर्शिनः प्रसंख्यानबलात् अनाभोगात्मिका हेयोपादेयशून्या वशीकारसंज्ञा वैराग्यम् ॥ १५ ॥


तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६ ॥

विवरणम्

 दृष्टश्चासौ विषयश्च तस्मिन् ॥ कः पुनरसौ ? स्त्रियोऽन्नं पानमैश्वर्यमिति व्यक्त्यपेक्षया । शब्दादीनामानन्त्येऽपि रागप्रबलत्वमेतेष्वतितरामिति स्त्र्यादिग्रहणं प्राधान्यात् । अत्र हि प्रबलतरो रागः । स प्रयत्नतरेण निषेद्धव्यः । एवम् आनुश्रविकविषयः । आनुश्रविको नाम आगमिक इह । स च स्वर्गादिप्राप्त्यानुभवनीयः प्रकृतिलयगतभोग्यो वैदेह्यप्राप्तौ उपभोग्यश्च ॥


 ननु च वैतृष्ण्यमेव वैराग्यम् , तथा १रागस्तृष्णा गर्द्धः इति हि वक्ष्यति२ । न-अवस्थाविशेषस्य विवक्षितत्वात् । तथा च यतमानसंज्ञा, व्यतिक्रान्तसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञेति चतसृणामासां सामान्यसंज्ञा वैराग्यमिति । एवं सति दृष्टानुश्रविकविषयवितृष्णस्येत्येतदुक्तं भवति- अधिगतपूर्वावस्थात्रयस्य चतुर्थी या अवस्था सा त्विह वैराग्यमिति विवक्षितम् । तस्मादिह वैतृष्ण्यादन्यवैराग्यमभिप्रेतम् । तथा च दर्शयति--विषयदोषदर्शिनः दोषदर्शनस्य विषयनिवृत्तिहेतुत्वात् तद्गुणदर्शनं हि रागकारणम् । प्रसंख्यानबलात्-तदोषदर्शनाभ्यासबलात् । अनाभोगात्मिका विषयाव्यतिकरात्मिका । दिव्यादिव्ययोः सम्प्रयोगेऽपि हेयोपादेयशून्या रञ्जनावमुक्तस्येव स्फटिकस्य विषयरागविमुक्तस्य चित्तस्यावस्थानम्। वशीकारसंज्ञा-वशीकर्तुं शक्यन्तेऽस्यामवस्थायां सर्वे गौणाः पदार्थाः वशीकर्तव्यत्वेन संज्ञायन्ते, वशीकृतानि च तस्यामवस्थायामिन्द्रियाणि संज्ञायन्ते, वशीकरणं वा संज्ञायतेऽस्यामिति ॥ १५ ॥


 तच्च द्विविधम्-परं चापरं च विषयनिमित्तभेदेन । अपरं व्याख्यातम् । अधुना परमुच्यते--तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् । तदिति वैराग्यं परामृश्यते ।

व्यासभाष्यम्

 दृष्टानुश्रविकविषयदोषदर्शी विरक्तः पुरुषदर्शनाभ्यासात् तच्छुद्धिप्रविवेकाप्यायितबुद्धिः गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यो विरक्त इति । तद्द्वयं वैराग्यम् । तत्र यदुत्तरं तज्ज्ञानप्रसादमात्रम् । यस्योदये सति योगी प्रत्युदितख्यातिरेवं मन्यते---प्राप्तं प्रापणीयं, क्षीणाः क्षेतव्याः क्लेशाः, छिन्नः श्लिष्टपर्वा भवसङ्क्रमो यस्याविच्छेदाञ्जनित्वा म्रियते मृत्वा च जायत इति । ज्ञानस्यैव परा काष्ठा वैराग्यम् । एतस्यैव हि नान्तरीयकं कैवल्यम् इति ॥ १६ ॥

विवरणम्

परमिति पूर्वोक्तवैराग्यादुत्तरकालभावीति । यदि वा-तस्य विषयनिमित्ताभ्यामुत्कृष्टनिमित्तविषयत्वात् , कैवल्यस्य वा प्रत्यासन्नतरत्वात् परमुत्कृष्टम् ॥

  किं निमित्तमस्येत्याह—पुरुषख्यातेर्निमित्तात् । किंविषयमित्याह— गुणवैतृष्ण्यमिति। गुणेषु सत्त्वादिषु वैतृष्ण्यम्। दृष्टानुश्रविकविषयदोषदर्शीति। पूर्ववैराग्यनिमित्तविषयपरामर्शनमस्य विषयनिमित्तभेदविवेकार्थम् । पुरुषदर्शनाभ्यासात् निमित्तात् । तच्छुद्धिप्रविवेकाप्यायितबुद्धिः । तदिति पुरुषदर्शनं परामृश्यते । तस्य शुद्धिः तच्छुद्धिः निर्णिक्तक्लेशादिमलत्वम् । अथवा तस्य पुरुषस्य शुद्धिस्तच्छुद्धिः । तच्छुद्धेस्तदालम्बनदर्शनं प्रविविच्यते । तत्प्रविवेकेनाप्यायिता बुद्धिरस्य योगिनः ॥

  गुणेभ्य इति विषयप्रतिपादनम् । पूर्वस्तु दृष्टानुश्रविकविषयभ्यो(ऽपि) विरक्तः । एष तत्कारणेभ्यो गुणेभ्य एव । व्यक्ताव्यक्तधर्मकेभ्यः महदादिसंस्थिता व्यक्तधर्मकाः । प्रधानावस्थिता अव्यक्तधर्मकाः । तेभ्यो विरक्त इति । तत् द्वयं वैराग्यं पूर्वमिदं च । तत्र यदुत्तरं पुरुषदर्शननिमित्तं गुणविषयं तज्ज्ञानप्रसादमात्रम् । पुरुषदर्शनस्यैव परः प्रविवेक इति यावत् ॥

  पुरुषदर्शी हि हेयोपादेयशून्यचित्तो भवति । तदाह---*'प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः' इति ॥

  यस्योदये यस्य वैराग्यस्योदये । प्रत्युदितख्यातिः प्रत्युत्पन्नदर्शनः । एवं मन्यते प्राप्तं प्रापणीयम् इत्यादि । एतस्य हि नान्तरीयकं केवल्यं ततः

व्यासभाष्यम्

अथोपायद्वयेन निरुद्धचित्तवृत्तेः कथमुच्यते सम्प्रज्ञातः समाधिरिति ।

विवरणम्

 परं साधनानपेक्षत्वात् । वैराग्यस्य ज्ञानप्रसादमात्रत्वे ज्ञानवैराग्ययोरनन्यत्वात् तद्विपरीतयोश्च रागाज्ञानयोरनर्थान्तरत्वमेव सिद्धम् । एवं सति रागोऽप्यविद्याया एवावस्थान्तरमिति पञ्चपर्वा अविद्येत्युपपन्नं भवति ॥

 ननु चैवं बुद्धेरष्टगुणत्वं बाध्येत । षड्गुणत्वं हि ध्यानावस्थाभेदाभ्युपगमात् । ज्ञानत्वेऽपि वैराग्यस्य प्रसन्नतरत्वाभ्युपगमः । रागोऽप्यज्ञानस्यावस्थान्तरविशेषः ।

 ननु चैवं सति ज्ञानाज्ञानयोरनेकावस्थाभेदादष्टगुणत्वं पुनरपि न प्राप्नोति । नैष दोषः । फलवत्त्वप्रत्यनीकत्वनियमात् । ज्ञानावस्थाचतुष्टयस्य फलवत्त्वेन भेदनियमः । तथा अज्ञानावस्थाचतुष्टयप्रत्यनीकत्वेनाधर्मदिचतुष्टयनियम इत्यष्टगुणत्वसिद्धिः । धर्मादिप्रतिद्वन्द्विन एव हि गुणत्वेन नियम्यन्ते, नाज्ञानभेदाः सर्व एव ॥ १६ ॥

 उक्तं पुरस्तात् सम्प्रज्ञातः समाधिर्वितर्काद्यनुगत इत्युपरिष्टात् प्रवेदयिष्यामः इति । सोऽवसरप्राप्त इदानीं लक्ष्यते । उपायद्वयेन निरुद्धवृत्तेः वैराग्यद्वयं परापरत्वेन व्याख्यातम् । अभ्यासस्यापि द्वित्वं सामर्थ्यादवसीयते । कथम् ? विशिष्टमसम्प्रज्ञातसमाधेरभ्यासं सूत्रेणैव वक्ष्यति-- विरामप्रत्ययाभ्यासपूर्वः इति । तेन सालम्बनविषयः पूर्वाभ्यास इति निश्चीयते । वक्ष्यति च -तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः इति ॥

 भाष्यकारोऽप्यवादीत्-‘वैराग्येण

विषयस्रोतः खिलीक्रियते । विवेकदर्शनाभ्यासेन कल्याणस्रोत उद्धाट्यते"' इति । नावोचत वृत्तिस्वरूपतिरस्कारमेव सम्प्रज्ञातसमाधेः । वृत्तिनिरोधप्रभवत्वमनिष्टविषयप्रवृत्त्युपरमोत्तरकालभावित्वापेक्षया, वृत्तिविषयविशेषानुगत एव हि सः ।

 तथा च द्वितीयसूत्रे सम्प्रज्ञातस्य निरोधो न लक्षणमिति व्याख्यातम् । अतः पूर्वोक्ताभ्यासवैराग्योपायद्वयेन निरुद्धवृत्तेश्चित्तस्य कथमुच्यते-कथं

वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः॥ १७॥

व्यासभाष्यम्

 वितर्कः-चित्तस्य आलम्बने स्थूल आभोगः ।। सूक्ष्मो विचारः । आनन्दो ह्लादः । एकात्मिका संवित् अस्मिता ।

विवरणम्

लक्षणमुच्यत इति यावत्। वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः । अनुगमशब्दः प्रत्येकं संबन्धनीयः । वितर्कानुगमाद्विचारानुगमादानन्दानु गमादस्मितारूपानुगमादिति । रूपशब्दो मात्रार्थो वितर्कादिपूर्वधर्मत्रयवर्जितत्वख्यापनार्थः ॥

 वितर्कश्चित्तस्यालम्बने स्थूल आभोगः । स्थूल(पि)मिश्रीभावः प्रथममालम्बनाकरेण परिणममानस्य चित्तस्य य आलम्बनव्यतिकरः स वितर्कः ॥ सूक्ष्मो विचारः आभोगः सूक्ष्म इति संबन्धः । आनन्दो ह्लादः विचारः सूक्ष्मतर आभोगस्तृतीयः । सानन्दता विशेषः । एकरूपात्मिका संविदस्मिता स्वस्यां प्रकृतावस्मितायां समापन्नस्य अस्मिता प्रत्ययमात्रता एकरूपात्मकत्वम् । तथा चोदाहरिष्यति— तमणुमात्मानमन्ववेत्यास्मीत्येतावत्संजानीत इति ॥

 ननु चास्मितां क्लेशेषु पठिष्यति 'दृग्दर्शन शक्त्योरेकात्मतेवास्मिता' इति । तत्कथमिवास्मितारूपेण क्लेशेन समाधिरनुगम्यत इति । सत्यमेवं—प्रकृष्टस्वकारणाकारावभासकत्वादन्यविषयविनिवृत्तात्मकत्वाच्चास्मितायाः समाधिरूपत्वेऽप्यदोषः॥

 यदि वा अस्मितारूपस्यालम्बनस्याविद्यात्वेऽपि न योगिप्रत्ययस्याविद्यात्वम् । न हि खलु परचित्तविविदिषायां परस्याविद्यात्वम् । न हि खलु परचित्तप्रत्ययं गृह्णन् परकीयाविद्याप्रत्ययरूपालम्बनदोषेण स्वयमविद्यावान् भवति ॥

व्यासभाष्यम्

 तत्र प्रथमः चतुष्टयानुगतः समाधिः सवितर्कः । द्वितीयो वितर्कविकलः सविचारः । तृतीयो विचारविकलः सानन्दः । चतुर्थः तद्विकलोऽस्मितामात्र इति । सर्वे एते सालम्बनाः समाधयः ॥ १७ ॥

अथासम्प्रज्ञातः समाधिः किमुपायः ? किंस्वभावो वा ? इति—

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८ ॥

विवरणम्

 यः पुनः क्लेशः स विपर्ययविशिष्ट एव । यथा---अहं गच्छामि कृशोऽहमिति । योगिचित्तस्य तन्न्यग्भूते रजस्तमसी इति न तथा ॥

 तत्र पूर्वः पूर्वः स्वकीयोत्तरोत्तरधर्मानुगतः । परः परस्तु पूर्वपूर्वधर्मविकलः । यस्माच्चैतद्धर्मचतुष्टयानुगत एवायं सम्प्रज्ञातः समाधिस्तस्मादेतल्लक्षण इति लक्षणार्थं सूत्रम् । लोकेऽपि यो यदसाधारणधर्मानुयातः स तल्लक्षणः, यथा सास्नादिलक्षणो गौरिति ॥

 अस्मितामात्रग्रहणान्निरालम्बनतामेषां समाधीनां मा कश्चिदाशङ्किष्टेत्याह-सर्वे एते सालम्बना इति । यः पुनर्मन्यते निर्विकल्पत्वमस्मितेति--तदसत् । अस्मिताशब्दस्याहङ्कारे प्रसिद्धत्वात् । तथा चाह--अस्मिभावोऽस्मिता ॥ १७ ॥

 अथ असम्प्रज्ञातः 'योगश्चित्तवृत्तिनिरोध इत्युपपादितलक्षणः किमुपायः किंसाधनः केनोपायेनोपेत्य इत्यर्थः । किंस्वभावः किंस्वरूपः किमवस्थ इति स्वभावविशिष्टसाधनसंबन्धप्रदर्शनार्थमाह-विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥

 विरामप्रत्ययाभ्यासपूर्व इत्येतावता साधनसम्बन्धमाचष्टे । संस्कारशेष इति तु स्वभावव्याख्यानम् । अन्य इति अनन्तरोक्तलक्षणात् सम्प्रज्ञातान्योऽयं निर्बीजः असम्प्रज्ञातः ॥

 अन्य इत्युभाभ्यां संबध्यते --विरामप्रत्ययाभ्यासपूर्वश्च संस्कारशेषश्च । कोऽसावुभयविशिष्ट इत्याह-अन्य इति ॥

व्यासभाष्यम्

 सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः । तस्य परं वैराग्यमुपायः । सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चार्थशून्यः । तदभ्यासपूर्वकं हि चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसंप्रज्ञातः ॥ १८ ॥

विवरणम्

 विरमणं विरामः । विरामश्चासौ प्रत्ययश्च विरामप्रत्ययः । विरामरूपत्वात्स एव प्रत्ययो विराम इत्युच्यते । सर्वविषयेभ्यो विनिवर्तमानस्य विनिवर्तनकाले प्रागप्रत्ययापत्तेः प्रत्ययरूपत्वम् । एतद्यथा-पावकस्य ज्वलतः प्रक्षीयमाणेन्धनस्य शनैश्शनैरुपशाम्यतः प्रागङ्गारतापत्तेर्ज्वलात्मकता ॥

 तस्माद्विरामरूपः प्रत्ययो विरामप्रत्ययः तस्य अभ्यासः पूर्वो मुखं यस्य सः विरामप्रत्ययाभ्यासपूर्वः । संस्कार एव शेषो यस्य स संस्कारशेषः । । प्रत्ययोपरमे तु प्रत्ययसंस्कार एवावशिष्यते । विषयप्रत्ययेभ्य उपरतं चित्तं संस्कारशेषमेवेत्यर्थः । तस्य परं वैराग्यमुपायः तस्य समाधेः परमुत्तरम् ॥

 ननु च परं वैराग्यं चेति वक्तव्यम्, अभ्यासवैराग्याभ्यां वृत्तिनिरोधस्याभिप्रेतत्वात् । नैष दोषः । विरामप्रत्ययाभ्यासस्य सूत्रोपात्तत्वादनाशङ्कयस्तदभ्यासः । वैराग्यं पुनरनुपात्तत्वादाशङ्कयेत । तस्मात्तदेव प्रापयता न चा [चः] पठितः ।

 यद्येवं कस्मान्न सूत्र एव वैराग्यग्रहणं कृतम् ? पूर्वत्र पठितत्वात् । तत्र किमर्थं पठितमिति चेत्--वैराग्यप्रसङ्गात् । पूर्ववैराग्यविशेष एवोत्तरं वैराग्यमिति प्रसङ्गादुत्तरम् [दुक्तम्] । पूर्वस्य च वैराग्यस्य सम्प्रज्ञातविषये(ऽपि)विनियोगादवशिष्टत्य परस्य साधनसत्वादन्यविषयत्वाच्च निर्बीजेनैव सम्बन्ध इति न सूत्रे वैराग्यग्रहणं कृतम् । सामर्थ्यप्राप्तं तु भाष्यकारो दर्शयति॥

 “अभ्यासवैराग्याभ्यां तन्निरोध’ इति हि प्रतिपादितम् । सालम्बनो ह्यभ्यासो विरुद्धत्वान्निरालम्बनस्य समाधेः साधनत्वाय न कल्पत इति निर्वस्तुकोऽपि विरामप्रत्ययो निरालम्बनसमाध्यनुरूपत्वादालम्बनीक्रियते । तस्मात्तदभ्यासवैराग्योपायपूर्वकं चित्तं निरालम्बनमभावप्राप्तमिव भवति। स एष निर्बीजः संस्कारशेषस्वभावः समाधिरसम्प्रज्ञात इति ॥ १८ ॥

व्यासभाष्यम्

 स खल्वयं द्विविधः-उपायप्रत्ययो भवप्रत्ययश्च । तत्रोपायप्रत्ययो योगिनां भवति ।

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९ ॥

व्यासभाष्यम्

 विदेहानां देवानां भवप्रत्ययः । ते हि स्वसंस्कारमात्रोप(यो)भोगेन चित्तेन कैवल्यपदमिवानुभवन्तः स्वसंस्कारविपाकं तथाजातीयकमतिवाहयन्ति । तथा प्रकृतिलयाः साधिकारे चेतसि प्रकृतिलीने कैवल्यपदमिवानुभवन्ति, यावन्न पुनरावर्ततेऽधिकारवशाच्चित्तम् इति ॥ १९ ॥

विवरणम्

 स खल्वयं द्विविधः । सः निर्बीजः समाधिः उपायप्रत्ययो भवप्रत्ययश्च ।। " उपायेन प्रतीयते प्राप्यत इत्युपायप्रत्ययो योगिनां भवति । यद्यपि विदेहा अपि योगिन एव । तथापि यमादियोगसाधनानुष्ठायिनोऽभिप्रेताः । तेषां श्रद्धावीर्याद्युपायलभ्यः समाधिः ॥

 विदेहप्रकृतिलयानां तु जन्मनैव लभ्यः । ते हि तनुतरप्रतिबन्धावशेषाः । स तु प्रतिबन्धावशेषस्तेषां सकृदासादितपुनर्जन्मनां समाधिव्याघाताय न पर्याप्नोति । स तु जन्मप्रतिलम्भमात्रनिमित्तम् । (त्वात्)ज्ञानवैराग्याद्यनुष्ठानकार्यत्वाद्विदेहप्रकृतिलयत्वस्य तदनुष्ठानस्तुत्यर्थं सूत्रम् । इदृशं हि तदनुष्ठानमाहात्म्यम् । यदुत सामर्थ्यादिवैकल्यादभीप्सितफलानवाप्तावपि महनीयंतरं विदेहप्रकृतिलयत्वं प्राप्यते ॥

 विदेहा नाम देवाः पुर्यष्टकशरीरोपबन्धाः । ते स्वसंस्कारमात्रोपभोगेन वैराग्याभ्यासाहितः संस्कारशेषस्तन्मात्रोपभोगेन चित्तेन कैवल्यमिहानुभवन्त इति । सत्त्वगुणविनिर्मोकात्तथाजातीयकं स्वसंस्कारपरिपाकं क्षपयन्ति ॥

 प्रकृतिलयाः--साधिकारे अपर्यवसिता[धि]कारे । यावद्धि न कृता गुणपुरुषान्तरख्यातिः, तावदपरिसमाप्ताधिकारमेव चित्तं तस्मिन् प्रकृतिलयापन्ने कैवल्यमिवानुभवन्तीति । पूर्ववत् । यावन्न पुनरावर्ततेऽधिकारवशात् विद्याकर्तव्यतावशात् तावदनुभवन्ति कैवल्यमिव ॥ १९ ॥

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥

व्यासभाष्यम्

 उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः सम्प्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरुपतिष्ठते । स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते, येन यथार्थं वस्तु जानाति । तद्भ्यासात्तद्विषयाच्च वैराग्यात् असम्प्रज्ञातः समाधिर्भवति ॥२०॥

 ते खलु नव योगिनो भवन्ति मृदुमध्याधिमात्रोपायाः । तद्यथा-मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र मृदूपायास्त्रिविधः-मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेग इति । तथा मध्योपायस्तथाऽधिमात्रोपाय इति । तत्राधिमात्रोपायानाम्—

विवरणम्

 येषामुपायप्रत्ययो योगिनां, तेषां श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वकः समाधिः, श्रद्धा नामापवर्गप्राप्तौ तत्साधनश्रवणे च कतकफलसंपर्क इव सलिलस्य चेतसः [सम्प्रसादः] संप्रसत्तिः । सा हि जननीव कल्याणी योगिनं पाति रक्षत्यशुभेभ्यः । तस्य हि विवेकार्थिनः सम्यग्दर्शनार्थिनो वीर्यम् उत्साह उपजायते योगसाधनानुष्ठानं प्रति । सञ्जातवीर्यस्यागमज्ञानादिविषया दृढतरा स्मृतिरुपतिष्ठते । विवेकार्थिन इति सर्वत्रानुषज्यते ॥

 दृढस्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाया बुद्धेः विविक्तता सर्वार्थप्रकाशनसामर्थ्यम् । त(था)त् विशिनष्टि-येन यथाभूतम् आत्मादि वस्तु जानाति इति ॥

 तद्भ्यासात्--एतदुक्तं भवति--आत्मदर्शनविरामप्रत्ययाभ्यासादिति । तद्विषयाच्च वैराग्य(ख्याद्विषया)त् परस्माद्वैराग्यादिति । असम्प्रज्ञातः समाधिः इति॥२०॥

 तेऽपि श्रद्धादिसाधना नव(नुप)योगिनो भवन्ति । तद्दर्शयति--तद्यथा मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तेषामेकैकस्त्रिधा भिद्यते--तत्र मृदूपाय इति । साधनानुष्ठानं प्रति मन्दोपक्रमो मध्योपक्रमः ती(व्रसंवेगो)व्रोपक्रम इति । एवमितरत्रापीति । नात्र तिरोभूतम्(त्) ॥

तीव्रसंवेगानामासन्नः ॥ २१ ॥

व्यासभाष्यम्

समाधिलाभः समाधिफलं च भवति इति ॥ २१ ॥

मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥

व्यासभाष्यम्

  मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । ततोऽपि विशेषः तद्विशेषादपि, मृदुतीव्रसंवेगस्यासन्नः, ततो मध्यतीव्रसंवेगस्यासन्नतरः, तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलं चेति ॥ २२ ॥

व्यासभाष्यम्

  किमेतस्मादेवासन्नतरः समाधिर्भवति, अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वा इति

ईश्वरप्रणिधानाद्वा । २३ ॥

विवरणम्

  तत्राधिमात्रोपायानां तीव्रसंवेगानामासन्नः समाधिलाभः समाधिफलं च ॥ २१ ॥   तेषामपि मृदुमध्यतीव्रोपक्रमतया विशिष्यमाणत्वात्ततो[ऽपि]विशेषः साधनानुष्ठानसंस्कारस्य । तद्विशेषादप्युत्तमस्य समाधिलाभः प्रत्यासीदतितराम् ॥ एतदस्य सूत्रस्य प्रयोजनम्-योगसाधनानुष्ठानं प्रति योगिनः कथमुपबृंहितोत्साहा भवेयुरिति । यथा लोके द्रुततरं सीमान्तं परि[प्रति]धावतामेतत्फलं भवतीति तद्वत् । अथवा-मन्दमन्दतरोपक्रमाणामपि योगिनामभिमतफलावाप्तिप्रकाशनादनवसन्नचेतसः प्रवर्तेरन्निति । इतरथा तीव्रतरायासजनितभीतयोऽवसीदेयुरिति ॥ २२ ॥

  किमेतस्मादेवासन्नतरो भवति ? अथ (तस्य) अस्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वेति । उपायान्तरमस्तीत्याह--ईश्वरप्रणिधानाद्वा । ईश्वरशब्दार्थमुत्तरत्र व्याख्यास्यति । प्रणिधानमिह व्याचष्टे-भक्तिविशेषा

व्यासभाष्यम्

 प्रणिधानात् भक्तिविशेषादावर्जित ईश्वरः तमनुगृह्णात्यभिध्यानमात्रेण । तदभिध्यानमात्रादपि योगिन आसन्नतरः समाधिलाभः समाधिफलं च भवति इति ॥ २३ ॥  अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वरो नामेति ।

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः॥ २४ ॥

व्यासभाष्यम्

 अविद्यादयः क्लेशाः । कुशलाकुशलानि कर्माणि । तत्फलं विपाकः । तदनुगुणा वासना आशयाः । ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते । स हि तत्फलस्य भोक्तेति । यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते । यो ह्यनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः ।

विवरणम्

दावर्जित इति । अनुग्रहं प्रत्यभिमुखीभावमापादितः तं भक्त्यातिशययोगिनं योगिनम् अभिध्यानमात्रेण परमेश्वरत्वादेव निरायासतया सत्यसंकल्पत्वात् अनुगृह्णाति । तदनुग्रहादपि प्रत्यासन्नतरः समाधिलाभः फलं च इति ॥ २३ ॥

 अथ प्रधानपुरुषव्यतिरिक्तः कोऽयमीश्वर इति सांख्यशास्त्रे प्रसिद्धयभावादीश्वरसद्धावे चोपपत्तेिमवश्यमनवगतेश्वरविशेषो वा पृच्छति । तत्र तावत् प्रतिजानीते--क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥

 क्लेशा इति । अविद्यादयः क्लेशयन्तीति क्लेशाः । तत्पूर्वानुष्ठितानि कुशला कुशलानि कर्माणि । कुशलानि चाकुशलानि [च कुशलाकुशलानि] चेत्येकशेषः । कुशलाकुशलानीति कुशलाकुशलविमिश्राणीति यावत् । तत्फलं विपाकः जात्यायुर्भोगलक्षणः । त एव क्लेशादयः आ निर्वाणाच्छेरत इति क्लेशकर्म विपाका आशयाः । यदि वा क्लेशादीनां राशयः क्लेशकर्मविपाकाशयाः ॥

 ते मनसि वर्तमाना मनोवृत्तिप्रभवत्वात् पुरुषे व्यपदिश्यन्ते । कस्मात् ? स हि तत्फलस्य भोक्तेति । यथा राजनि जयपराजयौ योधेषु वर्तमानावपदिश्येते तत्फलं राजसंबन्धि इति ॥


व्यासभाष्यम्

कैवल्यं प्राप्तस्तर्हि ? सन्ति च बहवः केवलिनः ।

 ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ताः । ईश्वरस्य च तत्सम्बन्धो न भूतो न भावी । यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवमीश्वरस्य । यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः सम्भाव्यते नैवमीश्वरस्य । स तु सदैव मुक्तः सदैवेश्वर इति ।  योऽसौ प्रकृष्टसत्त्वोपादानात् ईश्वरस्य शाश्वतिक उत्कर्षः, स किं सनिमित्तः ? अहोस्वित् निर्निमित्तः ? इति-तस्य शास्त्रं निमित्तम् ।

विवरणम्

 या ह्यनेन भोगेनापरामृष्ट इति उच्यते । न कालविवक्षा, उपलक्षणार्थत्वं—न परामृश्यते, नापि परामृक्ष्यते, नापि परामृष्ट इति । क्लेशकर्मविपाकाशयासंबन्धी(न्धयोगी)त्यर्थः ॥

 सूत्रार्थविशुद्धिं कुर्वन्नाह-कैवल्यं प्राप्तस्तर्हीति । क्लेशाद्यपरामर्शस्य कादाचित्कतयाऽपि संभवात् । सन्ति बहवः केवलिनः किं तदी[तेऽपी]श्वरा इति ?। परामर्शस्यापि संभवान्न त एकान्तेन क्लेशादिभिरपरामृष्टाः । परामर्शापरामर्शौ हि स्तः तेषाम् । ईश्वरत्वपरामृष्ट एव । न ह्यनवधृतः शब्दार्थो लक्षणत्वेनोपादेयः अपरामृष्ट इति । तस्माद्य एकान्तेनपरामृष्टः स एवापरामृष्ट इत्युच्यते ॥

 ते हि त्रीणि बन्धनानि प्राकृतवैकृतदाक्षिणानि सम्यग्दर्शनेन हित्वा कैवल्यं प्राप्ताः । ईश्वरस्य तु तत्संबन्धः क्लेशादिसंबन्धो न भूतो यथा मुक्तस्य वा बन्धकोटिर्मुक्तत्वोपपत्तेरेव ज्ञायते। बन्धपूर्विका हि मुक्तिः। नापि भावी। यथा प्रकृतिलीनस्य । तस्य ह्यनारब्धसंसारस्य उत्तरा बन्धकोटिः सम्भाव्यते । प्रवृत्तसंसारस्य चाप्रकृतिलीनचित्तस्य सा(समा)धिकारत्वात् पूर्वोत्तरबन्धकोटी संभवतः । तदिदं सर्वमत्रापरामृष्ट इति कालाविवक्षाप्रदर्शनार्थम् । स तु सदैव मुक्तः सदैवेश्वरः ॥

 तत्र पुरुषविशेष ईश्वर इत्युक्तत्वात्, ईश्वरस्य पुरुषस्यानैश्चर्यधर्मत्वात्, चित्तस्य चैश्वर्यधर्मत्वात्, निरतिशयैश्वर्यस्य च प्रकृष्टचित्तसंबन्धापेक्षत्वात् प्राप्तमेवेत्तरार्थमनुवदति-योऽसौ प्रकृष्टसत्त्वोपादानादीश्वरस्य शाश्वतिक उत्कर्ष इति । नित्यनिरतिशयसर्वज्ञानैश्वर्यशक्तिसम्पत्तिरुत्कर्षः ॥


व्यासभाष्यम्

शास्त्रं पुनः किन्निमित्तम् ? प्रकृष्टसत्त्वनिमित्तम् ।

विवरणम्

 तत्र प्रतिज्ञाविशुद्ध्यर्थं प्रश्नपूर्वमुपक्रमते--स किं सनिमित्त अहोस्विन्निर्निमित्त इति । निमित्तशब्दः कारणपर्यायः। स किं सकारण आहोस्विन्निष्कारण इति । किञ्चातः ? यदि तावत् सकारणस्तदा सदैवेश्वर इत्ययुक्तम् , अनित्यत्वात् । अथ निष्कारणः, तथा चोत्कर्षस्य कार्यत्वादसत्त्वप्रसङ्गः । न हि निष्कारणं कार्यं दृश्यते लोके ॥

 अत्रोच्यते-न निष्कारणः शास्त्रनिमित्तत्वात् । शास्त्रं ज्ञानम् । शास्त्रस्य हेतुत्वात् । यतः सर्वविषयं ज्ञानं नित्यं द्रव्यस्वभावसाध्यसाधनव्यवहितविप्रकृष्टास्पदम् ॥

 यद्येवं ज्ञानस्यान्यतोऽधिगमपूर्वत्वात्प्रागनुत्कर्षः प्राप्त इत्यत आह-- शास्त्रं पुनः किन्निमित्तमिति । यदि स्वाभाविकं ज्ञानं, मत्तोन्मत्तज्ञानवदनुत्कर्षहेतुत्वम् । अथ पुनः सनिमित्तकं, निमित्तात् प्रागनुत्कर्ष इति मन्यते ॥

 न तावन्निर्निमित्तम् । यतः प्रकृष्टसत्त्वनिमित्तं प्रकृष्टसत्त्वाश्रयमिति यावत् । अत एव स्वभावज्ञानदोषाभावः ॥

 किञ्च- स्वाभाविकज्ञानत्वेऽपि न मत्तादिज्ञानवदपकर्षहेतुत्वम् । नित्यमुक्तक्लेशादिसत्त्वाश्रयत्वात् । तत्र यथैव ज्ञानसंस्कारस्मृतिप्रबन्धानामन्योन्यनिमित्तनैमित्तिकभावेन बीजाङ्कुरवदनादिसंबन्धः, तथैव शस्त्रप्रकर्षयोरीश्वरचेतसि नित्यप्रवृत्तप्रबन्धरूपेण प्रवर्तमानयोरनाद्यन्तः संबन्धः । तत्रोत्कर्षो ज्ञानस्य कार्यमेव । ज्ञानमपि तस्य कारणमेव ॥

 अन्येषां व्याख्यानम्--निमित्तशब्दः प्रमाणवाची । तस्य शास्त्रं निमित्तं प्रमाणम् , तेन हि तदुत्कर्षः प्रमीयते । शास्त्रं पुनः किंप्रमाणकम् ? ईश्वरनिर्मलसत्त्वप्रमाणम् । विशुद्धसत्त्वप्रणीतत्वाद्धि शास्त्रस्य प्रामाण्यम् , यथा मन्वादीनाम् । तथा च श्रुतिः-‘यत्किंचिन्मनुरभ्यवदत्तद्भेषजम्' इति । यथा च लोके गुरुणाऽभिहितमिति ॥

व्यासभाष्यम्

 एतयोः शास्त्रोत्कर्षयोरीश्चरसत्त्वे वर्तमानयोरनादिः सम्बन्धः । एतस्मादेतद्भवति- सदैवेश्वरः सदैव मुक्त इति । तच्च तस्यैश्चर्यं साम्यातिशयविनिर्मुक्तम् । न तावदैश्चर्यन्तरेण तदतिशय्यते । यदेवातिशायि स्यात्तदेव तत्स्यात् । तस्माद्यत्र काष्ठाप्राप्तिरैश्चर्यस्य स ईश्वर इति । न च तत्समानमैश्वै र्यमस्ति । कस्मात्? द्वयेोस्तुल्ययेरेकस्मिन् युगपत्

विवरणम्

 एतयोः शास्त्रोत्कर्षयोः प्रमाणप्रमेयतया निराद्यन्तः सम्बन्धः ॥ ननु च नैवेश्वरसत्त्वे[अ]वर्तमानेन शास्त्रेण तदुत्कर्षः प्रमीयते । नैष दोषः । तत्प्रभवत्वात्तत्र वर्तमानम् । वर्त(मान)त एव तत्प्रभवमपि शास्त्रं तस्मिन् सर्वज्ञत्वादेव । लोकेऽपि यतो यत्प्रभवति वर्तते तत्तस्मिन्, यथा तन्त्वादिषु पटादि । तत्प्रभवत्वमनुमानागमाभ्यामवगम्यते । शास्त्रप्रमाणकः उत्कर्षः, ईश्वरप्रमाणकं शास्त्रमिति भिन्नाश्रयत्वाच्छास्त्रोत्कर्षयोर्नेतरेतराश्रयत्वम् ॥ -

 ननु च शास्त्रादीश्वरप्रामाण्यं, तत्प्रामाण्याच्च शास्त्रप्रामाण्यमिति स्यादन्योन्याश्रयत्वम्-उच्यते-ईश्वरप्रामाण्यस्यानुमानेन सिद्धत्वाददोषः ॥

 एतस्मादेतद्भवति । कस्मात् ? ईश्वरप्रकृष्टसत्त्वाश्रययोर्निरतिशयज्ञानोत्कर्षयोः कार्यकारणरूपे प्रबन्धनित्यतया नित्यत्वादेतद्भवति--स तु सदैव मुक्तः सदैवेश्वर इति । (इत्यत्राह्) तच्च तस्यैश्चर्यं साम्यातिशयविमुक्तमिति वक्ष्यमाणप्रमाणफलम् । एतत्सूत्रपिण्डार्थो वा ॥

 अतिशयविमुक्ततां व्याचष्टे-न तावदैश्चर्यान्तरेण तदतिशय्यते । कुतः? यदेवैश्चर्यान्तरं तदतिशयानं मन्यसे तदेव तत् ऐश्वर्यं मयाऽभिहितम् । यत्रैवैश्चर्यन्तरातिशायि भवत्यैश्वर्यं स एवेश्वर इति यावत् । न च तत्समानमैश्वर्यमस्ति । समानधर्मप्रकर्षासंभवात् ॥

 न ह्येकस्मिन् राज्ये द्वयोः संभवो राज्ञोः । एकस्य वा द्वे राज्ये । तथा प्रतिपादयति-तद्द्वयोस्तुल्यत्वं प्रसक्तम् । न ह्येकस्यान्यतरत्र प्राकाम्यमबाधित्वा अन्यतरस्मिन् प्रवृत्तिरुपपद्यते । द्वयोश्च युगपदेकार्थेयोरेकस्य प्राकाम्येण प्रवृत्तिरेव नास्ति। प्रकामिते वस्तुनि समानप्रकर्षस्यार्थस्य विरुद्धत्वात्।। येन च समानप्रकर्षता तस्य तेनैव स बाध्यते ।। (ते च) तच्च न वाचा बाधनमितरस्य रूपातिशया आवृत्त्यतिशयाश्च विरुध्यन्ते । सामान्यानि त्वतिशयैः सह वर्तन्त इति वक्ष्यामः ॥

व्यासभाष्यम्

कामितेऽर्थे नवमिदमस्तु पुराणमिदमस्तु इत्येकस्य सिद्धौ इतरस्य प्राकाम्यविघातादूनत्वं प्रसक्तम् । द्वयोश्च तुल्ययोर्युगपत् कामितार्थप्राप्तिर्नास्ति । अर्थस्य विरुद्धत्वात् । तस्मात् यस्य साम्यातिशयैर्विनिर्मुक्तमैश्वर्यं स एवेश्वरः । स च पुरुषविशेष इति ॥ २४ ॥

तत्र निरतिशयं सर्वज्ञबीजम् ॥ २५ ॥

व्यासभाष्यम्

 किञ्च--यदिदमतीतानागतिप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्विवर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य, सातिशयत्वात्, परिमाणवत् इति । यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेष इति ॥

विवरणम्

 तस्माद्यस्य साम्यातिशयविप्रोषितमैश्वर्यं स ईश्वर इति प्रधानपुरुषव्यतिरिक्तः पुरुषविशेष ईश्वरः सिद्धः ॥ २४ ॥

 यथाप्रतिज्ञातस्येश्वरस्य सिद्धौ प्रमाणमुपन्यस्यते--तत्र निरतिशयं सर्वज्ञबीजम् । तत्र तस्मिन् यथाप्रतिज्ञातलक्षण ईश्वरे निरतिशयं भवितुमर्हति । किं तदिति ? यदिदम् अव्यभिचारि प्रत्यक्षानुमानज्ञानम् अतीतविषयम् अनागतविषयं (वर्तमानकाल)प्रत्युत्पन्न[विषय]मतीतादिसमुच्चयविषयम् अतीन्द्रियविषयं च । अतीन्द्रिययोरतीतानागतयोः संभवादतीन्द्रिय[ग्रहणमित्युच्यते |

 तच्चातीन्द्रियग्रहणं त्रिविधम्-सूक्ष्मविषयं व्यवहितविषयं विप्रकृष्टविषयश्च । अल्पं बह्विति । यथाप्रसिद्धमेतद्विवर्धमानं सातिशयत्वेन सर्वज्ञबीजं यथा धूमविज्ञानमग्निविज्ञानस्य । कथम् ? यत्र प्रकर्षकाष्ठां प्रतिपद्यते । ज्ञानस्य ज्ञात्राश्रयत्वात् यत्रेति ज्ञातोच्यते--यस्मिन् ज्ञातरीति । स सर्वज्ञः सिद्धः ॥

 तथा शक्तिरपि सातिशयत्वेन विवर्धमाना यत्र काष्ठां प्राप्नोति, स सर्वशक्तिः । तेन जगन्निर्माणस्थापनोपसंहारादिकर्तृत्वसिद्धिः । तथैश्वर्यस्यापि वर्धमानस्य यत्र काष्ठाप्राप्तिः, स परमेश्वरः । ततश्च अशक्त्यादिविपर्ययदोषाभावसिद्धिः ॥ 8


 अथापि स्यात्-अज्ञानस्यापि विवर्धमानस्य स्वभावसिद्धस्य काष्ठाप्राप्तस्य तस्मिन्नीश्वरे सिद्धिरिति---न-ज्ञानाविरोधात् । न हि ज्ञानाज्ञानयोर्विरुद्धयेरेकस्मिन्नभिसंयोगोऽस्ति । न हि ज्ञाने प्रकर्षवति तत्राज्ञानं संभवति ॥

 यत्र हि ज्योतिर्विवर्धते तत्र तमोऽपकृष्यत एव । विपर्ययोऽपीति चेत्--- तच्च न-सति ज्योतिषि तमसोऽनुपलम्भात् । विद्यमानं हि तमो ज्योतिषा तिरस्क्रियते, न कदाचिद्विद्यमानं ज्योतिस्तमसाऽभिभूयते ।

 यदपि जलधरोपरोधात् प्रावृषि रवेरदर्शनम्, तदपि दृष्टिव्यवधानमात्रम् । न पुनः प्रकाश एव तिरोधीयते तमोवत् । तस्मान्न, यत्र ज्ञानविवृद्धिस्तत्राज्ञानस्य भावः सवितरीव तमसः । नित्यात्यन्ततिरोहितरजस्तमोगुणसत्त्वोपादानात् ॥

 किञ्च- नाज्ञानस्यावस्तुविषयत्वाद्विवृद्धिः संभवति । ज्ञानस्य ज्ञेयवस्तुविषयत्वादभिवृद्धयुपपत्तिः । अज्ञानस्य हि वस्तुविषयत्वे ज्ञानत्वप्राप्तिः ॥

 यश्चापि स्थावरादिष्वज्ञानप्रकर्ष इति, नासौ प्रकर्षः । अत्यन्तज्ञानाभावापेक्षया हि स उच्यते । अज्ञानस्य प्रकर्षे हि सत्यज्ञानसहस्रस्य न ज्ञानेनैकेन बाधः स्यात् । तथा[दा]हि प्रत्यज्ञानं ज्ञानेनोत्पन्नेनानेकेन बाधनं स्यात् । तस्मान्नाज्ञानस्य प्रकर्षः स्वरूपेण ॥

 यस्य हि सातिशयत्वं तस्य काष्ठाप्राप्तिर्दृश्यते । यथा फलादिपरिमाणाना माकाशपर्यन्तता । तथा सर्वज्ञबीजमपि परां काष्ठां प्राप्तुमर्हति ॥

 समस्तं व्यस्तं च सर्वं वस्तुजातमेकस्य प्रत्यक्षं, ज्ञेयत्वात्, घटादिवत् ॥ ज्ञानाविषयत्वेन पुरुषार्थत्वात्, घटादिवदेव ॥ उत्पत्तिमती च पृथिवी, सावयवत्वात्, घटादिवत् ॥  प्राणिकर्मतत्साधनफलविभागविदेक(गधैक)निष्पादितं जगत्, तदुपभोग्यस्थानादिरचनाविशेषवत्त्वात्,प्रासादादिवत् ॥


 अनेकप्राण्युपभोगविज्ञानवदेकनिर्वर्तिता पृथिवी, अनेकप्राणवदुपभोग्यत्वात् व्रीहियवादिवत् ॥ अनेकप्रयोजनार्थिना एकेन निर्मिता पृथिवी, गृहादिवदेव ॥

 सर्वप्राण्याश्रयो गिरिनदीसमुदायः तन्निवासिपरिभोगयोग्यविज्ञानवदेककुशलोत्पादितः, प्रकृतहेतुनिदर्शनाभ्यामेव ॥


 अनेकप्राणभाक्प्रकाशादिसामर्थ्यज्ञानवता एकेन निर्वर्तितः सविता, प्रकाशात्मकत्वात् प्रदीपादिवत् ॥

 नियतकालमादित्योदयास्तमयादिसञ्चरणम् एतत्प्रयोजनज्ञानवदेकप्रयुक्तं, प्रतिनियतकालत्वात्, कृष्यादिवत् ॥


 बुद्धिमदेकेश्वरप्रयुक्ता सूर्यग्रहचन्द्रनक्षत्रादिप्रवृत्तिः, प्रवृत्तेर्दुःखात्मकत्वे सति नियतसमयत्वात्, धर्मज्ञशिष्यभृत्यादिप्रवृत्तिवत् ॥


 चन्द्रमसो वृद्धिक्षयौ तिथ्यादिकालज्ञानवतैकेन प्रयुक्तौ, कालपरिच्छेदकत्वात्, घटिका[हरा]दिवत् ॥


 कालपरिच्छेदज्ञानवतैकेन निर्वर्तितश्चन्द्रमाः, वृद्धिक्षययुक्तत्वात्, घटिकादिवदेव ।


 बुद्धिमदेकस्वामिकं जगत्, अन्योन्यविरुद्धसंहतानेकप्राणिनायकाधिष्ठितबहुमण्डलत्वात्, इत्थंजातीयकैकराज्यवत् ।


 सर्वमेतत्साधनसाध्यव्यापारावस्थं प्रत्यक्षं कस्यचिदेकस्य, अवान्तरविरोधानुग्रहवत्तयैकप्रयोजनत्वात्, सांग्रामवस्तुवत् ॥


 संहतत्वात्, कुलालादिवस्तुवत् । सैव प्रतिज्ञा ॥


 युगपच्च सर्वं प्रत्यक्षमेक(त)स्य, अनेकत्वे (व)सत्यन्योन्यसंबन्धात्, प्रसिद्धसम्बन्धानेकार्थवत् ।


 अग्निहोत्रादिसाधनसाधनीये कस्यचित्प्रत्यक्षे, साध्यसाधनरूपत्वात् , भुजित्तृप्तिवत् ॥


 सर्वा शक्तयः कस्यचित् प्रत्यक्षाः, वस्तुत्वात्, घटादिवत् ॥


 अ[वा]न्तरप्रतिबन्धाभावे सर्वं वस्तुजातं नैरन्तर्येण कस्यचित् प्रत्यक्षं, शब्दादिमत्त्वेन सम्बन्धात्, द्रावीयसीमिव शष्कुलीं भक्षयतः शब्दादयः ॥


 स्वतन्त्रतया केनचिदेकेन सर्वं प्रत्यक्षत उपलभ्यते, ज्ञेयत्वेनाभिमतत्वात्, नाट्यवस्तुवत् ॥


 अप्रतिबन्धेन कस्यचित् प्रत्यक्षोपलभ्यं सर्वम्, अनेक(सत्वे)त्वे सत्यन्योन्यसंबन्धात्, नाट्यसंबन्धिनर्तकादिवत् ॥


 संसाररहितः सर्वज्ञः, अज्ञानाभावात्, मुक्तात्मवत् । क्लेशादिरहित ईश्वरः,अप्रतिबन्धज्ञानत्वात्, सिद्धयोगिवत् ॥

 एतेन क्लेशादिप्रतिबन्धाज्ञानरहितत्वेन चक्षुरादीन्द्रियग्रामनिरपेक्षसर्वविषयज्ञानत्वं सिद्धम्। सर्वार्थग्रहणसमर्थस्य परमेश्वरचित्तस्य सर्वव्यापिनो युगपत्सर्वविषययोगित्वात् । एवं सति समस्तवस्तुग्रहणाभावे कारणाभा(वानु)वोपपत्तिः ॥

 नापि मूर्तिमत्प्रतिबन्धोऽप्याकाशवदेव सर्वविषययोगिनोऽपि चित्तस्य विषयानवस्थानादाविर्भावतिरोभावस्मृतिसंकल्पानवस्थितत्वोपपत्तिः । विषयाकारतया वृत्तिलाभादर्कप्रभावत् ॥

 न हि क्लेशाद्यावरणावच्छन्नं चित्तसत्त्वम्, तस्याधर्मादियोगात् । सर्वगतस्य सर्वार्थस्यापि सत्त्वस्याधर्मादिप्रतिबन्धकनिरुद्धस्वकीयप्रवृत्तिमार्गत्वादिन्द्रियादिद्वारापेक्षित्वमुपपद्यते । यथा अपवरकावरणावृतः प्रदीपस्तदावरणगतच्छिद्रद्वारेण बहिः प्रकाशयति । स एव तु प्रदीपः प्रभिन्नापवरकावरणः सन्ननपेक्ष्य तत्तच्छिद्रमार्गं समन्ततः प्रकाशयति ॥

 तथैवेश्वरसत्त्वं क्लेशाद्यावरणयोगाभावादसति विषयविशेषानिरोधिकारणे युगपदशेषार्थग्रहणम् । ततश्च स्वातिलङ्घनानतिलङ्घनादिदोषाभावः ॥  सर्वस्य विषयत्वात् सर्वमेकेश्वरं जगत्, परिपालकापेक्षस्थानाद्यनेकवस्तुविशेषत्वात्, प्रसिद्धैवंभूतैकराज्यवत् ॥

 तथा, नियतस्थितिहेत्वनेकोपकरणवत्त्वात्, अन्योन्याभिभवनीयप्रभूततरदुर्गयुक्तानेकदेशत्वात्, अभङ्गुरव्यवस्थशरीरभेदवत्त्वाच्च, प्रतीतैवंविधैकराज्यवत् ॥

 अनेककर्तृभोक्तृक्रियासाधनफलसंबन्धविशेषज्ञानवदुपदिष्टानि वर्णाश्रमाद्यनुष्ठानानि, फलार्थिभिः प्रत्यवायभीरुभिस्तैश्चानुष्ठीयमानत्वात्, भैषज्यरसायनाद्यनुष्ठानवत् ॥

 तथा तदुपदेशाः, परार्थत्वात्, उपदेशत्वात्, विद्वच्छ्रद्धेयत्वात्, उपदेशादृते मनुष्यानवगम्यार्थत्वाच्च, भैषज्याद्युपदेशवत् ॥

 शरीरेन्द्रियाणि सर्वतत्प्रयोजनविदेकनिमित्तकारणाभिनिर्वर्तितानि, नियतक्रियास्थितिहेतुसाधनवत्त्वात्, प्रासादगृहदारुयन्त्रादिवत् ॥

नियतप्रयोजनरचनावत्त्वाच्च, तद्वदेव ॥

तथेन्द्रियाणि, करणत्वात्, वासीवृक्षादानादिवत् ॥

तथा सर्वं, कार्यनियतोपादानत्वात्, भोक्त्रर्थत्वात्, भोगसाधनत्वाच्च, घटादिवत् । उत्पत्तिमत्त्वेऽप्येते हेतवः ॥

एवं मध्यमपरिमाणत्वात्, अनेकविनाशहेतुसंबन्धयोग्यत्वात्, भोगाधिष्ठानत्वात्, क्रियाफलसाधनतद्रूपादिमत्त्वाच्च, आधीयमानापचीयमानापूर्यमाणापनीयमानदह्यमानभिद्यमानैकदेशत्वात्, विनश्वरी पृथिवी ॥

शरीरादिवन्नश्वराणि पृथिव्यादिभूतानि, अन्योन्यनाशकशक्तिमत्त्वात्, शस्त्रपुरुषादिवत् ॥

तथैव विरोधात्, पुरुषविपरीतत्वाच्च, उत्पत्तिविनाशधर्मकमाकाशं, साक्षादुपकरणत्वात्, घटादिवत् बाह्येन्द्रियग्राह्यगुणाश्रयत्वाच्च ॥

तस्मान्निरतिशयशक्तिज्ञानैश्वर्यः परमेश्वरः सिद्धः ॥

अत्रोच्यते—ईश्वरशब्दार्थः सर्वज्ञो न भवति, प्रमेयत्ववस्तुत्वशब्दाभिधेयत्वास्मत्साधनापेक्षोपलब्धत्वादिभ्यः, अस्मदादिवत् ॥

ईश्वरशब्दोऽपि निरतिशयज्ञानयुक्ताभिधायी न भवति, शब्दत्वात्, घटादिशब्दवत् ॥

सर्वज्ञसर्वेश्वरशून्यं जगत्, अनेकप्राणिव्यपाश्रयत्वात्, अन्योन्यविरुद्धानेकनायकराज्यवत् ॥

भूतभविष्यत्कालयोरपि इदानीमिव सर्वज्ञस्यानुपलब्धारः सर्वप्राणिनः, प्राणित्वात्, अस्मदादिवत् ॥

बाह्यन्तरपरिकल्पितः सर्वज्ञः सर्वेश्वरश्च नास्ति, अनुपलभ्यमानत्वात्, शशविषाणवत् ॥

तथा असर्वज्ञोऽनीश्वरश्च, अशरीरत्वात्, मुक्तात्मवत् । सशरीरश्चेद्धर्माद्यपेक्षशरीरत्वं, तथा च संसारित्वमस्मदादिवदेव । अशरीरत्वमेवेति चेज्जगत्कर्तृत्वानुग्राहकत्वाद्यनुपपत्तिः, मुक्तात्मनिदर्शनेन ॥

विशिष्टपरिभोगयोग्यजगद्रचनाविशेषोपपत्तिः स्वभावादेव, कण्टकतीक्ष्णत्वकुमुदकमलसङ्कोचविकोचादिवत् । निशाकरदिवाकरतारकादिगमनागमनाद्यपि स्वाभाविकं, लोहायस्कान्तमणिवत् ॥


  अत्राभिधीयते-स्वाभाविकी तावन्न भवति पृथिव्यादिरचना । दृष्टान्तो नैव तत्साधनस्य विद्यते । कण्टकादीनां च तैक्ष्ण्यं न स्वाभाविकमभ्युपेयते ।

   अग्न्यादीनामिवौष्ण्यादि स्वभावो वस्तुधर्मत्वाद्धेतो: पृथिव्यादिरचनेति चेत्-प्रासादादिरचनाया वस्तुधर्मत्वात् स्यादनैकान्तिकत्वम् ।

   अथ स्वाभाविकत्वादिति चेत्-असिद्धत्वम्, जगद्रचनाया धर्माधर्मफलोपभोगार्थप्रयुक्तत्वाभ्युपगमात् । कर्तृधर्माधर्मास्तित्वमुपरिष्टात् साधयिष्यते ॥

   तस्मात् पृथिव्यादिरचना स्वाभाविकी न भवति, प्राण्युपभोगार्थत्वात् , प्रासादादिरचनावत् । चन्द्रादिप्रवृत्तिर्न स्वाभाविकी, प्रवृत्तित्वात्, अस्मदादिप्रवृत्तिवत् ॥

   अस्मदादिप्रवृत्तिरपि स्वाभाविकीति चेत्—न— अग्न्युष्णत्ववान्नित्यत्वप्रसङ्गात् । न ह्यग्न्युष्णत्वं स्वाभाविकं सन्नियतं निमित्तमात्मलाभाय काङ्क्षति धर्मिसत्ताव्यतिरेकेण । क्रियाफलरचनादीनां तु विशिष्टनिमित्ताकाङ्क्षणमात्मप्रतिलम्भायेति न स्वाभाविकत्वम् ।

   नियतनिमित्ताकाङ्क्षणमपि प्रासादादिरचनानां स्वभाव इति चेत्— अस्तु तथाविधस्वभावत्वम् । तथाऽपि पृथिव्यादिरचनाया नियतनिमित्ताकाङ्क्षणस्वभावत्वं प्रासादादिवदेव ! ततश्च नाम्नि विप्रतिपत्तिर्न दोषाय, कारकान्तरापेक्षत्वादिति प्रतिज्ञा प्रतिरूपकारिणी च ।

  भवद्विरुक्तानि [अनुमानानि] लोकानुमागमविरोधात् [अप्रमाणानि] । अनुमानविरोधं तावत् सातिशयत्वादिभ्यो ब्रूमः ।

    आगमविरोधं च "यः सर्वज्ञः1 सर्ववित्" "एको2 वशी" इत्येवमादिभ्यः समाचक्ष्महे । समस्तलोकविरोधं चापि । सर्व एवानारीगेोपालं संव्यवहरमाणाः सततं शिवनारायणादिनाम्ना प्रणिहितचेतसः प्रतिषेधत्स्वपि संभिन्नबुद्धिषु अकर्णीकृततत्प्रतिषेधविषयपल्लवाः परमेश्वरं प्रणतमूर्धानः कुसुमाञ्जलिप्रभृतिभिरर्चयन्ति । फलं चापि तत एव प्रार्थयन्ते ॥


  अथ चेद्ब्रूयात्-सर्वज्ञाभावप्रतिपादिभिरस्मदनुमानैरितरप्रतिज्ञानां विरोध इति—अत्रोच्यते

 नैतान्यनुमानानि । कथम् ? प्रथमं तावत् प्रतिज्ञैव दुष्टा । यदि तावदीश्वरशब्दार्थः सर्व न भवतीति युष्मदभिप्रेत ईश्वर उच्येत, तथा च सिद्धसाध्यता स्यात् ।

 अथास्मदभिप्रेतः, तथापि युष्माकमसिद्धविशेष्यता भवेत् ॥ अथेश्वरत्वस्यासर्वज्ञत्वमुच्यते, तथापि सिद्धं साध्यते ।

 तथैवाभ्युपगमविरोधोऽपि । कथम् ? ऐश्वर्यसर्वज्ञबीजत्वयोर्विवर्धमानत्वात् काष्ठाप्राप्तिः परिमाणवदेवाभ्युपगमनीया । तथा काष्ठाप्राप्तैश्वर्यसर्वज्ञत्ववाचिनावपीश्वरसर्वज्ञशब्दावेषितव्यौ । काष्ठाप्राप्तिश्च निरवधिकत्वम् ।यथा परिमाणादीनामात्माकाशाद्यनन्तपरिमाणान्तत्वम् । तथा चानुमानाभ्युपगमस्ववचनविरोधाः स्युः ॥

 किञ्चान्यत्-काष्ठाप्राप्तेश्वरत्वस्य च शब्दार्थस्य परित्यागे शब्दार्थवादः प्राप्नोति । न हि शब्दः परित्यक्ताभिधेयैकदेश उच्चरितः|

 अथ परिमाणादेरपि निरवधिकनिष्ठत्वं नेष्यते---सिद्धान्तविरोधः । आत्माकाशादीनां हि सर्वगतत्वाभाव, मध्यमपरिमाणत्वानित्यत्वादिदोषप्रसङ्गश्च । अथाप्यात्मनः सर्वत्र कार्यदर्शनात् सर्वगतत्वम्, तत्रापि शकुन्याद्यात्मनां मनुष्यगोचराकाशादिगतत्वं सामान्यतोदृष्टादेवानुमानात् स्यात् । तथा चेहापि सामान्यतोदृष्टानुमानत्वं केन वार्यते ।

 अथानुमानविरोधान्नावधार्यत इति चेत्--आत्मादीनामपि प्रमेयत्ववस्तुत्वादिभ्यः पृथिव्यादिवदित्यनुमानविरोधोद्भावना शक्यते [कर्तुम्] वक्तुम् । न च तावताऽत्रानुमानविरोधित्वम्, अनुमानाभावप्रसङ्गात् ।

 तथा अनुमानाभाव इष्यत इति चेत्---प्रत्यक्षेऽप्यनाश्वासः स्यात् । अथ निश्चीयमानबुद्ध्युत्पत्तेः प्रत्यक्षप्रमाणत्वम्, अनुमानस्यापि तर्हि निश्चितबुद्धिसमुद्धवादस्तु प्रामाण्यम् । अथ दृष्टसम्बन्धधूमादिविषयमेवानुमानमिति चेत्-तत्राप्यनुमानाभाव एव-अनग्निः धूमवान् प्रदेशः, प्रत्यक्षानुपलभ्यमानाग्निसम्बन्धे सति प्रदेशत्वात्, अग्निशून्योपलभ्यमानप्रदेशवदिति ॥

 अथ प्रमाणान्तरसंवादाददृष्टसम्बन्धविषयेऽनुमानस्यानुमानत्वमुच्यते, प्रत्यक्षमपि प्रमाणान्तरसंवादात् प्रमाणं भवेत्, प्रमाणत्वात्, अनुमानवदेव ।


 अप्रमाणं स्यात् । प्रमाणान्तरसंवादाभावात् , सामान्यतोदृष्टादिवदिति । तस्मान्न सामान्यतोदृष्टस्य प्रमाणत्वं निश्चितबुद्धित्वाद्वाधितुं शक्यम् ।

 किं च---सामान्यतोदृष्टस्य मानत्वमनभ्युपगच्छतः स्वशरीरमरणसम्बन्धलक्षणस्यानुपलब्धपूर्वत्वात् सर्पादिभ्यो भयानुपपत्तिः । व्याधिप्रतीकाराय चिकित्सादिप्रयोगो न घटेत । मरणशङ्काकारणाभावात्। तथा जन्मनोऽप्युपलम्भाभावादात्मशरीरस्याजत्वं चिन्त्येत । हानोपादाननियोगाभावश्च स्यात् ॥

 तस्मात् सामान्यतोदृष्टपरिमाणत्वादिसातिशयत्वसामान्यादीश्वरज्ञाननिरवधिकत्वसिद्धिः ।

 किं चान्यत्-ईश्वरसर्वज्ञत्वस्य प्रतिषिद्ध्यमानत्वात् सत्त्वाभ्युपगमः, अ(नुप)पदार्थस्य प्रतिषेधासम्भवात् । न हि केवलो नेति (न) प्रयुज्यते । ईश्वरः सर्वज्ञो न भवतीत्युच्यते । तत्र क्वचित् सर्वज्ञत्वमभ्युपगतं भवति ॥

 तद्यथा---शशस्य विषाणं नास्ति, वन्ध्यायाः सुतो नास्ति, कुसुममाकाशस्य नास्तीति क्वचिद्विद्यमानानामेव विषाणसुतकुसुमादीनां शशादिसंबन्धेन प्रतिषेधः, तद्वदिहापि स्यात् ॥

 किं च-ईश्वरः सर्वज्ञो न भवतीति, ईश्वरशब्दार्थसर्वज्ञत्वसम्बन्धप्रतिषेधादिना ईश्वरादन्यस्य सर्वज्ञत्वाभ्युपगमः । सम्बन्धिनावनभ्युपगम्य सम्बन्धप्रतिषेधो हि न शक्यः कर्तुम् ॥

 स एष युक्तः सम्बन्धः प्रतिषिध्यते, अयुक्तश्चाभ्युपगम्यते ! तत्परिश्रममात्रम् । ईश्वरसर्वज्ञयोः प्रसिद्धपदार्थयोरप्रतिषेधात् । न ह्यनन्तपरिमाणमाकाशं न भवतीत्याकाशस्य प्रसिद्धमनन्तपरिमाणत्वं प्रतिषिध्याप्रसिद्धानन्तपरिमाणत्वेषु घटादिषु तत् व्यवस्थापयितुं युक्तम् ॥

  अथ सम्बन्धिनावेवेश्वरसर्वज्ञत्वे प्रतिषिध्येते, स्ववचनविरोधिनी प्रतिज्ञा स्यात् । ईश्वरसर्वज्ञत्वयोरीश्वरसर्वज्ञशब्दार्थत्वाभ्युपगमात् । न हि भवत्यग्निरग्निशब्दार्थे | न भवतीति ।

 अथाप्रसिद्धपदार्थावीश्वरसर्वज्ञशब्दौ, तथाऽपि तदर्थप्रतिषेधानुपपत्तिः । अप्रसिद्धस्यार्थस्य प्राप्त्यभावात् । न हि किंचिदप्रसिद्धमेतच्छिखरे मेषकुटुम्बिनीं प्रतिषेद्धुमर्हति । किं च शब्दोपादानानर्थक्यं च । अप्रसिद्धपदार्थत्वात् ।

  अथ प्रसिद्धार्थयोरीश्वरसवैज्ञशब्दयोर्निरवधिकेश्वरसर्वज्ञत्वाभ्यामप्रसिद्धाभ्यां गगनस्येव कुसुमैः संबन्धः कैश्चित् कल्पितः, स प्रतिषिध्येत---तथाऽप्यभ्युपेतार्थप्रतिषेधात् स्ववचनविरोधिन्येव प्रतिज्ञा स्यात् । सातिशयनिरतिशयानेकेश्वरसर्वज्ञव्यक्तिमत्सामान्ययोरीश्वरसर्वज्ञशब्दार्थत्वेनाभ्युपगमात्।

  प्रसिद्धं हि लोके ईश्वरसर्वज्ञशब्दयोरुत्कर्षापकर्षयुक्तानेकव्यक्तिविषयबुद्धयुत्पादकत्वम् । न हि ग्रामाधिपतिरीश्वर इति द्वित्रिग्रामविषयाधिपतय उत्तरोत्तरेश्वरा न भवन्ति । यो वा कुटुम्बाधिपतिरीश्वरो न भवति स्रर्वैश्वासावर्थवानीश्वरशब्दः ।

  तथा वैयाकरणः सर्वज्ञ इत्युक्ते नाधिकविज्ञानयुक्तो न भवति । निरवधिकौ सावधिकौ वेश्वरसर्वज्ञावीश्वरसर्वज्ञशब्दयोरर्थावभ्युपगम्येयाताम् । अतस्तत्प्रतिषेधादभ्युपगमविरोधिनी प्रतिज्ञा स्यात्, आत्माकाशादीनां महत्त्वस्य महच्छब्दार्थत्वप्रतिषेधवत् ॥

  अथेश्वरसर्वज्ञौ निरवधिकौ न स्तः, अनुपलभ्यमानत्वात्, अनीश्वरद्वितीयशिरोवदित्युच्येत, तथाऽपि शब्दार्थाभ्युपगमादभ्युपगमाविरोधिनी प्रतिज्ञा ॥

 सातिशयत्वादिभिरैश्वर्यसर्वज्ञत्वबीजादिलिङ्गैर्निरवधिकेश्वरसर्वज्ञत्वयोरुपलभ्यमानत्वान्निरवधिकपरिमाणत्ववदित्यसिद्विरनुपलब्धे:।।

 अथ अविशेष्यैवेश्वरशब्दार्थः सर्वज्ञो न भवतीत्युच्येत वस्तुत्वादिहेतुभिरस्मदादिवदिति, तदा सर्वप्रमाणविरोधिनी प्रतिज्ञा स्यात् । प्रसिद्धेश्वरशब्दार्थस्यप्राकृतसर्वज्ञत्वस्य सर्वप्रमाणसिद्धत्वात् । यथा ईश्वरशब्दार्थः [सर्वज्ञो न भवति।] प्रमेयत्वादिभिर्हेतुभिर्घटादिवदित्युक्ते यत् ब्रूयात्तदेवाहं वक्ष्यामि ॥

 इह सर्वज्ञशून्यं जगत् । कालो वा दिश आकाशो वा प्राणिमद्देशो वा प्राणिनो वा सर्वे सर्वज्ञशून्याः । प्रमाणानि वा सर्वाणि सर्वज्ञाविषयाणि । प्रमातारो वा सर्वज्ञस्याप्रतिपत्तार:, इत्येवंजातीयासु प्रतिज्ञासु निरवधिकेश्वरे सर्वज्ञे वा प्रतिषिध्यमाने, प्रसिद्धेश्वरसर्वज्ञशब्दार्थाभ्युपगमविरोधाः प्रतिज्ञादोषा वचनीयाः॥

 ननु च वन्ध्यासुतो नास्तीति, तच्छून्यं जगत् कालो वेति, प्रतिज्ञायमाने यथोक्तप्रतिज्ञादोषप्राप्तिर्भवेत्--नैष दोषः---वन्ध्यासुतसत्तालक्षणस्य प्रतिषेद्धव्यस्य वाक्यार्थस्येश्वरसर्वज्ञशब्दार्थवदप्रसिद्धत्वात् केवलशब्दप्रापितसन्निधानबुद्धिमात्रप्रतिपन्ने पदार्थ[पदार्थ प्रतिषेध]व्यापारोऽस्तीति वन्ध्यासुतास्तित्वस्य (वा नास्तित्वस्य) नाभ्युपगमोऽस्ति । ततो नाभ्युपगतप्रतिषेधदोषः॥


 ननु चेश्वरः सर्वज्ञो न भवतीत्यत्रापि बुद्धिमात्रं प्राप्यमाणं प्रतिषिध्यते, न क्वचिदपि प्राप्नुवद्वस्तु (न) प्रतिषेद्धुं शक्यते प्रतिहस्तिनेव हस्ती । यदि च नञा वस्तु निराकरिष्यते, नञ्मात्रेणेश्वरवादिपक्षत्वमपि[पक्षोऽपि]निराकरिष्यते, (अतः) तस्मादिहापि बुद्धिमात्रप्रतिषेध इति नाभ्युपगतप्रतिषेधः प्रतिज्ञादोषः ॥

 सत्यमेवम् । किं त्वस्ति विशेषः । प्रमाणसिद्धवस्तुविषया बुद्धिर्वस्त्वन्तरे कालविशेषे वा प्रतिषिध्यते वस्तुसामान्यात् प्राप्नुवती यथा घटो नास्तीति । क्वचिद्विनाप्यर्थेन बुद्धिरेव शब्दप्रत्युपनीतसन्निधाना कल्पितवस्त्वन्तरा प्रतिषिध्यते । यथा वन्ध्यासुतो नास्तीति ॥

 यत्र तु प्रमाणान्तरसिद्धसद्वस्तुप्रतिषेधस्तत्रापि[स्ति]अभ्युपगतार्थप्रतिषेधदोषः । यथा ईश्वरशब्दार्थः सर्वज्ञो न भवतीति । ईश्वरसर्वज्ञशब्दयोरभिवर्धमानेश्वरसर्वज्ञव्यक्त्यनुगतसामान्यवचनत्वेन लिङ्गेन निरवधिकेश्वरसर्वज्ञसत्तावद्योतित्वं सिद्धमेव । महद्वहुसर्वानन्तपरिमाणादिशब्दवत् ।

 यथैवैते महदादिशब्दाः प्रसिद्धसातिशयमहदाद्यनुगतसामान्यार्थाभिधायिनः सन्तो निरवधिकमहद्वहुसर्वानन्तपरिमाणव्यक्तीनामस्तित्वावद्योतनलिङ्गा भवन्ति । महदादिसामान्यानां सातिशयव्यक्त्यनुगतानां निरवधिकमहदादिव्यक्तिव्यापन (रव्याक्षीण)शक्तित्वात् । न हि सन्तं व्याप्यमर्थं तद्व्यापकः सन्नर्थो न व्याप्नोतीति । निरवधिकातु परो व्याप्यो नास्तीति व्यापकस्य सामान्यस्य क्षयः व्याप्यविषयत्वेनैव प्रसिद्धत्वात्तत्र । तस्मात् प्रमाणसिद्धत्वादीश्वरसर्वज्ञशब्दार्थयोरभावं साधयतोऽभ्युपगतार्थप्रतिषेध एवेति दुष्टा प्रतिज्ञा ।

 न चेश्वरसर्वज्ञशब्दयोरतदर्थवमन्यार्थत्वं वा कर्तुं [वक्तुं] शक्यते । तथा शक्तिज्ञानैश्वर्याणां प्रतिपुरुषं समुच्चितानां सातिशयानां निरवधिकं तत्त्वं अतः[नानुन्मत्तः]प्रतिषेद्धुमुत्सहेतेत्यनुमानविरोधित्वं प्रतिज्ञायाः ॥

 किं चान्यत्- परि[पर]कल्पितस्येश्वरस्य प्रतिषेधं कुर्वन्तः प्रत्यक्षपरचित्तानिष्ठाः प्राप्नुवन्ति । परवाक्यादिति चेन्न -- सातिशयत्वादिसर्वज्ञसाधकलिङ्गप्रतिपादकवदविशिष्टत्वात् परवाक्यस्य । तादृशवाक्यार्थप्रतिषेधे चाभ्युपगतप्रतिषेधः, पूर्ववदेवानुमानविरोधश्च ॥

 किं च--प्रमेयत्वादिहेतूनामपि असिद्धत्वम् । कुतः ? अस्माभिर्निरतिशयज्ञानैश्वर्यविशिष्टत्वस्याभ्युपगतत्वात् । अथ स्वयमपि तादृशमभ्युपगच्छेत्तदा। सर्वज्ञसिद्धिः, अभ्युपगतत्वात् ॥


  किं चान्यत्-अभ्युपगततादृक्प्रतिषेधे, यथा घटो घटो न भवति, वस्तुत्वात्, पटवदिति, एवमिहापि स्यात् ॥

  किं च-निरवधिकस्यानभ्युपगमे, प्रमेयत्वादीनाम् [अ]पक्षधर्मत्वमाश्रयासिद्धत्वं च । तदभ्युपगमे हि किं साध्यं भवेत् ? यो हि तृप्तवन्तं ब्रूयात् माऽत्रात्सीरिति, किं तेन कृतं स्यात् ॥

  अथापि स्यात्--निरवधिकमीश्वरमभिसन्धाय तस्य सर्वज्ञत्वं निषेधामीति । नैतदपि युक्तम्-सर्वज्ञत्वस्यापि निरवधिकत्वात् ॥

 अपि च सातिशयैश्वर्यसर्वज्ञत्वयोरुत्कर्षानुत्कर्षविषयत्वेन व्यभिचारान्नेश्वरसर्वज्ञशब्दमुख्याभिधेयत्वम् । यथा महदादयः शब्दा व्यभिचरितमहत्त्वादिषु घटादिष्वमुख्याः, नाकाशादिषु, तथैवात्रापि निरतिशयमैश्वर्यं सर्वज्ञत्वं चाव्यभिचारीति स एव मुख्यः शब्दार्थः । न च मुख्यनिराकरणं साधिमानमृच्छति ॥

 किं च--यथा भवता अनुमानागमप्रसिद्धेश्वरस्य प्रमेयत्वादिधर्मविकल्पतया सर्वज्ञत्वं निराक्रियते, तथैव प्रमेयत्वादिभिरचेतनत्वमपि घटादिवदेव प्राप्नुयात् । अविरोधात् । यथा प्रमेयत्वं[अ]सर्वज्ञत्वेन व्याप्तमेवमचेतनत्वादिभिरपि ।

 प्रत्यक्षविरोध इति चेत्—इहापि अनुमानागमविरोधं किं कटाक्षेणापि नेक्षसे ॥

 नापि च प्रमेयत्वादिधर्मसामान्येन सपक्षे विपक्षे वा किञ्चित्। क्वचिदध्यारोपयितुं शक्यम्। वस्तुविषये सर्वत्र प्रमेयत्वादीनामास्तित्वात् । न मतिमोहनार्थः प्रमेयत्वाद्युपन्यासः ॥

 अथ आत्मत्वादिति चेत्, मुक्तात्मवदज्ञत्वप्रसङ्गः स्याद्भवदीश्वराणाम् । प्रत्यक्षादिविरोध इति चेत्-अत्राप्यनुमानादिविरोधः पूर्ववदेव ॥

 भूतभविष्यत्कालयोरपि ईश्वरस्यानुपलब्धार इतीदानीन्तनेश्वराणामुपैलब्धृभिरनैकान्तिकं प्राणित्वादित्यादि । किं च अतीतानागतकालयोरपि सातिशयत्वादिलिङ्गैरुपलब्धवन्त उपलप्स्यमानाश्च प्राणिनः प्रमाणकुशलाः, प्रमाणकुशलत्वात्, अस्मदादिवत्।

 अथ अशरीरत्वादसर्वज्ञः, मुक्ताकाशादिवत् इति चेत्-न-सशरीरत्वात् । व्यक्ताव्यक्तं हि सर्वमशरीरं सशरीरत्वादनिलेश्वरत्वं धर्माद्यपेक्षत्वादित्युक्तत्वादिति


    चेत्-न-अशरीरत्वात् । सशरीराशरीरत्वांविरोध इति चेत्-न-मुक्तमुच्यमानैकात्मनोऽशरीरत्वसशरीरत्वदर्शनात् । तत्र भिन्नकालत्वादविरोध इति चेत्-न- अत्रापि भिन्नकालाभ्युपगमात् ।

    किं च---युगपदीश्वरत्वादेव द्वयसम्भवः । सकरणता अकरणताऽपि ईश्वरत्वादेव युक्ता । तथा च श्रुतयः- "अशरीरं शरीरेषु" इति । तथा "यः सर्वेषु भूतेषु तिष्ठन्2” इति । तथा ‘यः3 सर्वज्ञः सर्ववित्' इत्यादयः ॥

    श्रुतीनां विप्रतिषेधार्थवादीश्वराप्रल्यायकत्वम् इति चेत्-न-अनन्यशेषत्वात् । न हि कर्मशेषत्वे श्रुतिलिङ्गादीनामन्यतमदर्पि प्रमाणमस्ति ।

    स्वाध्यायविधिपरिग्रहाद्दर्शपूर्णमासादिशेष इति चेत्-न-ज्योतिष्टोमादिवद्विध्यन्तरस्य भावात् । यथैव ज्योतिष्टोमादीनां (प्रथमप्रं,पृथक्प्रकरणादिकारणादन्योन्यशेषशेषिभावो नास्ति । तथैव ‘मन्तव्यो निदिध्यासितव्यः'4 इत्यादिविषयत्वान्नाग्निहोत्रादिशेषत्वं युक्तम् ।

    फलाभाव इति चेत्-न-“सर्वांश्च5 लोकानाप्नोति सर्वाश्च कामान्यस्तमात्मानमनुविद्य विजानाति" इत्यादिफलमुद्दिश्य विधानात् ॥

    अथैवमप्युपासनाविधेशेषत्वात् स्तुतिरेवेति चेत्-नात्यन्तमसता स्तुतिरस्ति । न हि "वायुर्वै क्षेपिष्ठा देवता" इति वायोरक्षेपिष्ठत्वम् । क्वचिदसताऽपि स्तुत्यादिसम्भव इति चेतू-न-अनुमानसिद्धस्येहोपादानात् ॥

    अथ सर्वकार्यकरणयोगादीश्वरस्य सर्वप्राणिसुखदुःखादिसंबन्ध इति चेत्-न-निमित्तभेदात् । धर्मादिनिमित्तः संसारिणां शरीरादिसम्बन्धः।धर्मादिनिमि(क्तानां)क्तो दुःखादियोगः । नेश्वरस्य धर्मादयः । निरतिशयैश्वर्यादिहेतुत्वाच्छरीरादिकार्यकरणसंबन्धस्य । यथा ग्रहतदाविष्टयोः ॥

    अथ चक्षुरादिकरणत्वादस्मदादिवत् सर्वानुपलब्धिरिति चेतू-न- सर्वविषयग्रहणसमर्थानां प्रतिबन्धकारणाभावात् । सर्वगतानां हि करणानां [अ]धर्मादिसंवरणेन स्वविषयसङ्कोचः क्रियते । यस्य पुनरावरणं प्रतिबन्धक[मं]- धर्मादि न विद्यते, तस्य तदभावादशेषस्वविषयग्रहणानि करणानीति न दुष्यति ॥

  अथ वा सर्वप्राणिकरणैः [ईश्वरः] पृथगात्मनः करणाभावेऽप्यावेशग्रह इव सर्वमनुभवति । न च प्राणिशून्यो विषयः कश्चिद्विद्यते, ‘यः1 पृथिव्यां तिष्ठन्’ ‘योऽप्सु तिष्ठन्’ इत्येवमादिश्रुतेरन्तर्यामिनान्न ईश्वरस्य सर्वेष्ववस्थितत्वश्रवणात् ॥

    अपि वा प्रकृष्टमेव स(र्व)त्त्वं नित्यानतिशायितशक्तिज्ञानेश्वरत्वधर्मकम्, सर्वगतत्वादाकाशवत् सर्वयोगि, सर्वार्थत्वात्सर्वविषयप्रकाशकम्, धर्माधर्मादिविप्रयोगादप्रतिबन्धशक्तिकं च इति अकायानिन्द्रियत्वपक्षेऽपीश्वरसर्वज्ञत्वसिद्धिः ॥

   चक्षुराद्यपेक्षमेव चित्तस्य रूपादिप्रतिलम्भसामर्थ्यमिति चेत्—न- ऐश्वर्यधर्माद्यभावाभ्यां परिहृतत्वात् ॥

    अपि च चक्षुर्ग्राह्यस्यापि चक्षुषा अग्रहणं लोके दृश्यते । चक्षुर्ग्राह्यं सत् सर्वं तमः सन्निमीलितलोचनैरपि स्वस्थान्तःकरणैरुपलम्यते । तदेव चान्धतमसं विष्फारितनयनैरप्यन्यगतचित्तैर्नैव गृह्यते । यथा गृह्यमाण एवाकाशे प्रकाशः ।

    अथापि प्रकाशाभावमात्रमेव तमो न वस्त्विति ब्रूयात्—तच्च न—अभावस्य वस्तुतिरोधानसामर्थ्याभावात् ॥

    अथ ग्रहणनिमित्तस्य प्रकाशस्याभावादेव घटाद्यग्रहणं, न वस्तुतिरोधायकं तम इति ब्रुवीत-न-चक्षुषः प्रकाशकत्वात् प्रकाशसाहायकापेक्षानुपपत्तिः । असति भिन्नजातीये वस्तुनि वस्तूनां तिरोधातृणि तत्र या च यावती च । मात्रा प्रकाशकत्वाच्चक्षुषा प्रकाश्येत । न हि प्रदीपः प्रदीपान्तरद्वैतीयकापेक्षः प्रकाशयति ॥

    कि चान्यत्-चक्षुषः प्रकाशान्तरसहायत्वापेक्षतायां च निशायामपि ताराधिपतिप्रकाशद्वितीयेन चक्षुषा दिवस इव रूपादिग्रहणप्रसङ्गस्तिरोधानस्यासति निमिते

    कि चान्यत्-अभावश्चेत्तमः, चन्द्रभासु निशायां भा(भव)न्तीषु तमसा मन्देन न प्रवर्तितव्यम् । सर्वात्मनैव हि तेन विनशनीयम् । भासां भावात् । भासां तु वस्तुत्वान्मन्दत्वपाटवादिविशेषो घटते, न(भावस्य)अभावस्य निर्विशेषत्वात् ॥


    किं च-सहायाभावाञ्चक्षुष उपलब्धिसामर्थ्याभावादग्रहणमिय्तेतदपि व्यभिचरति । यथा सत्यपि विद्युल्लताप्रकाशे तीव्रतरे विद्युल्लताविलासे च किं तद्दृष्टिर्नोपलभते । न हि विद्युतः सहायके दृष्टचकितत्वेनाग्रहणं विरोधाभावाद्युक्तम् ॥

   किञ्च - चिकित्साशास्त्रे छाया मधुरशीतलेत्युच्यते । न ह्यवस्तुनो मधुरशीतलत्वम् । तथा चाक्षिपति पथ्यत्वम् । नाभावस्य पथ्यापथ्यत्वं ब्रूयुः ॥

    प्रदीपाच्छायोपलब्धेश्च । अभावश्चेत्तमः, प्रदीपप्रभामण्डले प्रदीपाच्छाया कथं भवेत् । वस्तुत्वेऽपि विरोधादयुक्तमिति चेत्--न-विषसर्पयोरिव संभवात् । यथा प्राणवियोगकरमपि विषं पन्नगप्राणवियोगाय न पर्याप्नोति, तथा प्रदीपतच्छाययोरपि ॥

    तस्माद्वस्तु तमः, प्रकर्षापकर्षवत्त्वात् , प्रभावत् । विरोधिद्रव्यापनेयत्वाच्च, घटवत् । उपलब्धृव्यवधानकरत्वाच्च, भित्तिवदिति ॥

    इतश्चेन्द्रियनिरपेक्षमप्यन्तःकरणमिन्द्रियविषयग्रहणाय समर्थम् । पिहितकर्णविवरस्य घोषोपलंभात् । न च पिहितकर्णसंपुटस्य श्रोत्रान्तरमनुमातुं शक्यम् । बधिरस्यापि पिहितश्रोत्रपुटस्य तदग्रहणात् ॥

    किञ्च-प्रतिज्ञाज्ञानेनापि रूपादिग्रहणमिन्द्रयनिरपेक्षं दृश्यते ॥

    किञ्चान्यत्-स्मृतेश्चानुपपत्तिः स्यात् इन्द्रियनिरपेक्षस्य चित्तस्य सातिशयग्रहणसामर्थ्येऽपि । स्पष्टाश्च स्मृतयः स्वाप्ना रूपादिविषयाः ॥

    यदि चक्षुराद्यन्तःकरणाभ्यां समन्विताभ्यां रूपग्रहणं पूर्वमपि निर्वर्तिष्यते, स्वप्नादावपि समुच्चिताभ्यामेव पर्यग्रहीष्यत । न चैवमस्ति । सुखादिग्रहणे स्वातन्त्र्यं चित्तस्य सर्वप्रसिद्धम् ॥

    तस्मादालोकस्थानीयानीन्द्रियाणि चित्तस्य विषयग्रहणे स्वतन्त्रस्यैव स्वतः । तदुक्तम् '1इन्द्रियप्रनाडिकया’ इति । तथा श्रुतिरपि-‘मनसा2 ह्येव पश्यति मनसा शृणोति’ इति ॥


 अथोच्येत—इन्द्रियाणामालोकापेक्षावत् अन्तःकरणमपीन्द्रियसाहायकापेक्षमेव ग्राहकमिति—तन्न—व्यभिचारात् । रात्रिञ्चराणां विभिन्नव्यालोकद्वैतीयकेन दिवस इव रूपग्रहणम् । सत्यपि प्रकाशे न रूपस्य ग्रहणमुलूकादिभिर्दिने ॥

 किञ्च-साधनापेक्षस्य विज्ञानसाधनादृतेऽपि तुलादौ । दर्शनमात्रेणैव सुवर्णादिपरिमाणज्ञानं दृश्यते ॥

 अथ चेद्ब्रूयादानर्थक्यं चक्षुरादीनामिति-स वक्तव्यः-तुलादिवदेवान्यत्रार्थवत्त्वमिन्द्रियाणामिति । यथैव तुलादिविषयवैमल्यप्रकर्षात् पुरुषस्य विनापि तुलादिसाधनेन दर्शनमात्रादेव कनकादिवस्तुपरिच्छेदकौशलं, तथैवान्तःकरणस्यानपेक्षितचक्षुरादिसाहायकस्यापि वैमल्यप्रकर्षाद्रूपादिग्रहणसामर्थ्यं न विहन्यते ॥

 नापि ह्यनेकनिर्वर्तनीयं क्रियाजातमेकेन नाभिनिर्वर्त्यते । दृश्यन्ते च बहुभिरुत्तोल्यमानं शिलादिकमद्वितीया हस्तिपुरुषादयः केचिदुत्तोलयन्तः ।

 तथैवेन्द्रियसहायेनान्येषामन्त:करणेन गृह्यमाणा रूपादयः परमेश्वरचित्तसत्त्वेनानाकलित(वकर्णित)चक्षुरादिपरिस्पन्देन केवलेनैव गृह्यन्ते । काष्ठागतत्वाद्वैमल्यशक्त्यैश्वर्यप्रकर्षस्य ॥

 संसारिणां ततो निकृष्टत्वादविद्यादिमलेनैश्वर्यशक्तिज्ञानादीनामिन्द्रियसहकारित्वापेक्षित्वमन्त:करणस्य। शिलादिसमुत्तोलन इव हीनबलानाम् ।

 ये(षां) पुनः संसारिण एव सन्त ईश्वरीभवन्ति बुद्धर्षभादयः, तेषां निरतिशयशक्तिज्ञानैश्वर्यानुपपत्तिः । कालपरिच्छेद्यत्वात् । अभ्युपगच्छन्ति च तद्दर्शनश्लाघिनः कालपरिच्छेदनीयकं तेषाम् ।

 नास्मदीश्वरस्य कालपरिच्छेद्यता । तत्कालैस्तदाद्यकालैश्च बुद्धादिभिरपरिज्ञातैश्वर्यादिसातिशयत्वादिलिङ्गैरनुमेय एवासौ । नामुष्मिन् काल उत्पन्न उत्पद्यत उत्पत्स्यमान इति त्रिधा कैश्चिदनुमीयते । निरतिशयत्वविरोधो हि तथा[दा]स्यात् ॥

 तस्मात् बुद्धादीनां सिद्ध्यपेक्षत्वात्, पूर्वबुद्धानां कालाधिक्यप्राप्तेरुत्तरकालबुद्धस्यापि न निरतिशयशक्त्यैश्वर्यज्ञानत्वं विरुद्धम् । अथ तुल्यशक्तिज्ञानैश्चर्याणामेव तेषां समानराज्यराजानामिवासमानकालत्वमिति ब्रूयात्, तथापि बुद्धान्तरकालस्य व्याप्त्यभिलाषविघातान्निरतिशयैश्वर्याद्यभावः |


व्यासभाष्यम्

    सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति । तस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या । तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्, ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति । तथा चोक्तम्—आदिविद्वान् निर्माणचित्तमधिष्ठाय कारुण्यात् भगवान् परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति ॥ २५ ॥

विवरणम्

    अभिलषति हि कश्चित् बुद्धान्तरं वशीकर्तुम् , तद्विषयं च व्याप्तुम् । अनियतत्वादिच्छायाः । बुद्धान्तरावशीकरणे च। सर्ववशित्वं ही(नी)येत ॥

    अथ चेदुच्येत, बुद्धान्तरस्याननुग्राह्मत्वाद्रागाद्यभावाच तद्विषयव्याप्तावनभिलाष इति-अत्रोच्यते-यथैव प्राप्तबुद्धत्वस्य कंचित्कालमवस्थानमभिलाषपूर्वकम्, तथा बुद्धान्तरकालावस्थानाभिलाषेणावश्यं भवितव्यम् ।

    अनुग्राह्यप्राण्यन्तरभावाच्च कालान्तरावस्थानाभिलाषेण युक्तं भवितुम् । न च भविष्यता बुद्धेन सर्वे प्राणभृतोऽनुग्रहीष्यन्ते ॥

    बुद्धत्वस्य च दुःखाद्यात्मकत्वेऽपि प्राण्यनुग्रहार्थत्वाद्बुद्धस्थितेः कालान्तरावस्थानेच्छया भवितव्यमेव । सिद्धेश्च प्रागविद्यादिपरामर्शात्, बुद्धस्वरूपस्य च दुःखशून्याद्यात्मकत्वस्य तैरभ्युपेतत्वातू, बुद्धार्षभाद्यन्यतीर्थ करणात्[करात्]निरतिशयशक्तिज्ञानैश्वर्यानुपपत्तिः ||

    कालानवच्छेदात्तु नैते दोषा अस्मदीश्वरे क्रमन्ते । शक्तिज्ञानैश्वर्याणां तु निरवधिकत्वानुमानात् सातिशयत्वानवस्थितत्वादिदोषः नात्माकाशादीनामिवातिशङ्कर्नायः ॥

    तथा च दर्शयति--सामान्यमात्रोपसंहारे कृतोपक्षयमनुमानम् इति । निरतिशयशक्तिज्ञानैश्वर्येयुक्तपुरुषविशेषसत्त्वसामान्यमात्रोपसंहारे कृतोपक्षयं कृत उपक्षयो यस्यानुमानस्य तत्कृतोपक्षयं सातिशयत्वादिति । तदुक्तमनुमाने--यत्र प्राप्तिस्तत्र गतिमात्रमिति । तस्मान्नेश्वरसंज्ञागुणादिविशेषाणां सतामपि प्रतिपादने समर्थम् । सामान्यमात्रोपसंहारपरत्वात् ॥


    तदेतदुक्तं भवति । यदैवं सतामपि गुणानां सामान्यप्रतिपादनकृतक्षयत्वान्न प्रतिपादकमनुमानम्, किमङ्ग पुनरत्यन्तासम्भाव्यमानसन्निधीनामनुमेयधर्मविरुद्धानामशक्त्यज्ञानधर्माधर्मानैश्वर्यादीनां [न]तत्प्रत्यायकमिति ॥

    अत एव च विरुद्धप्रतिसाधनानुपपत्तिः । सर्वज्ञास्तित्वानुमानवत् प्रथमं तदभावप्रतिपादकानुमानाप्रवृत्तेः । न ह्यनुमानस्य परोक्त्युदीक्षाधर्मत्वमस्ति । न हि धूमदर्शनेनाग्न्यनुमाने वक्त्रन्तरोक्तिरुदीक्ष्यते |

    न च स्वयमेव सर्वज्ञास्तित्वं नास्तित्वं वा बुद्धि(प्रति)पूर्वमाशङ्क्यते । घटादिवत् सर्वज्ञसद्भावस्य स्वयमनभ्युपगमात् । न ह्यनिर्धारितशशिस्वरूपः शशे विषाणमस्ति नास्तीति कश्चिदाशङ्कते |

    परवाक्यात् प्रतिपद्याशङ्कत इति चेत्-परेणापि कथमप्रसिद्धेश्वरसद्भावनाशङ्कितमिति वक्तव्यम् । अथ परस्य भ्रान्तिरिति चेत्-न सामान्यानुपलम्भे भ्रान्तिकारणमस्ति । न हि शुक्तिकायां पिकभ्रमः कस्यचिदुपजायते । तस्मादाह-संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या इति । वेदेतिहासपुराणयोगधर्मशास्त्राद्यागमतः पर्यन्वेष्या ।

    तस्यात्मानुग्रहाभावेऽपि तस्यात्मार्थमवाप्तव्याभावात् भूतानां चाविद्यापङ्कनिमग्रानां संसारसागरोत्तरणोपायप्लवोपदेष्ट्रन्तरस्याभावात् तदनुग्रहः प्रयोजनम् । ज्ञानधर्मोपदेशेन येऽनन्यशरणास्तस्मिन् सर्वात्मना निवेदितात्मानस्तान् कल्पप्रलयमहाप्रलयेषु ईश्वरानुगृहीतागमज्ञानविशेषेष्वाचार्येषु प्रलीनेषु पुनःपुनर्जातकारुण्यामृतः सन् उद्धरिष्यामीति प्रवर्तत इति वाक्यशेषः ॥

    तथा चोक्तमादिविद्वानिति-आदौ विद्वान् आदिविद्वान् रजस्तमोभ्यामनभिभूतज्ञान इत्यर्थः । ज्ञानधर्मादि वा तत आदीयते इत्यादिः, आदिश्चासौ विद्वांश्च आदिविद्वान् निर्माणचित्तं संकल्पमात्रनिर्मितं योगिचित्तम् आवेशग्रहवदुपदेशनार्थम् अधिष्ठाय भगवान् परमर्षिः परमदर्शन इत्यर्थः । परमत्वं चागमतः । दर्शनार्थस्य वा गत्यर्थस्य वा धातोः ऋषेर्ग्रहणम् । परमर्षिरीश्वर एव कपिलनारायणादिसंज्ञः आसुरये प्रोवाचेति ॥

    तस्मात् प्रधानपुरुषव्यतिरिक्तः सर्वप्राणिभावकर्मफलपरिस्फुरणज्ञानात्तदनुग्रहकारणम् ईश्वरः सिद्धः । स प्रकृष्टसत्त्वधनोपादान ईश्वरः कथं कर्ता ? कथं चानुगृह्णाति ? इत्येवमादि न चोदयितव्यम् । आगमतः पर्यन्वेष्या इत्युक्तत्वात् । अनुमानस्य च तद्विषयस्यानुपपत्तिः विशेषसंबन्धाग्रहणादिति ॥ २५ ॥


व्यासभाष्यम्

स एषः—

-

(स) पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६ ॥

व्यासभाष्यम्

 पूर्वे हि गुरवः कालेनावच्छिद्यन्ते । यत्रावच्छेदार्थः1 कालो नोपावर्तते स एष पूर्वेषामपि गुरुः । यथाऽस्य सर्गस्यादौ प्रकर्षगत्या सिद्धः, तथाऽतिक्रान्तसर्गादिष्वपि प्रत्येतव्यः ॥ २६ ॥

विवरणम्

 सः यथोक्तरूपः परमेश्वरः पूर्वेषामपि गुरूणाम् अभ्युदयनिःश्रेयससर्वसाधनसाध्यसंबन्धोपदेशिनां गुरुः तेषामपि ज्ञानोपदेशस्य कर्तेत्यर्थः । तदुद्भवत्वात् सर्वज्ञानानाम् । यथा ज्वलनलवणजलधिसमुद्भवा विष्फुलिङ्गलवणकणाः ॥

 तस्य चादिविद्वत्तामवोचाम कालेनानवच्छेदादिति । अतीतानागतप्रत्युपादीयमानत्वविशिष्टेन कालेनान्ये गुरवोऽवच्छिद्यन्ते । स त्वीश्वरः सर्वदा मुक्तेश्वरत्वेन तैरप्यस्माभिरिवानुमेयः ॥

 कस्मात् पुनस्तस्य वस्तुत्वे गुरुत्वसामान्ये च सति नावच्छेदकः काल इति चेदाह—यत्रावच्छेदार्थः कालो नोपावर्तत इति । यस्मिन्नीश्वरे विषये अवच्छेदार्थः प्रस्थादिवत् परिच्छेदकरः नोपावर्तते न परिच्छेदकत्वेनेश्वरं विषयीकरोति सर्वपरिणामवस्त्ववच्छेदकरोऽपि सन् ॥

 ननु चेश्वरप्रकृष्टसत्त्वस्य प्रधानकार्यत्वात् , प्रधानकार्यस्य च कालावच्छेद्यत्वात् , कस्मात्तत्सत्त्वं नावच्छिद्यते पुरुषस्वरूपं हि सर्वेषामेव कालानवच्छेद्य(मिति नाशङ्कनीय)मपरिणामित्वात् पुरुषस्य ॥

 अथ मन्येथाः---तन्त्रान्तरप्रसिद्धेश्वरवत् सत्त्वनिरपेक्ष ईश्वर इति—तदयुक्तम्-प्रकृष्टसत्त्वोपादानाभ्युपगमात् ॥

 अथापि मन्वीथाः--ईश्वरसत्त्वात् प्रवृत्तमेव कार्यमवच्छिनत्ति कालो नेश्वरसत्त्वमिति---तदप्ययुक्तम्--व्यक्तस्य परिच्छेद्यत्वात् । व्यक्तं चेश्वरसत्त्वम् ॥

समाधिपादः प्रथमः

 अथाप्यभिसन्दधीथाः-प्रधानावस्थमेवेश्वरसत्त्वमिति--तदनुपपन्नम्-- ज्ञानानुपपत्तेः ॥

 अथापि प्रतिपद्येथाः-सत्कार्याभ्युपगमाद्वीजफलवल्लरीकुसुमादिवज्ज्ञानादीनां प्रधानावस्था यत्सत्त्वमेवेति--तच्च न साधु-व्यवहारयोग्यत्वात् । सर्वेषां च तथा सत्यनवच्छेद्यत्वं ज्ञानादिसत्तामात्रसम्बन्धविशेषात् प्राप्नुयात्  |

 अथापि ब्रुवीथाः-व्यक्तत्वे सत्यपि कार्याणां कस्यचित् परिच्छेद्यत्वं कालीनं कस्यचिन्नेति--तच्च न-न्यायविरोधात् ॥

 अथापि प्रत्यवतिष्ठेथाः , ईश्वरसत्त्वस्य कालापरिच्छेद्यत्वमागमसिद्धमिति— तच्च न- अवद्योतकत्वादागमस्य ||

 अथाप्याचक्षीथाः---विद्यमानस्यैव कालापरिच्छेद्यत्वस्याज्ञातस्यावद्योतक आगम इति--तच्चापि न -निरोधादिसमनुष्ठाननिमित्तत्वात् काला(ज)वच्छेद्यो वैमल्यादनवच्छेद्यश्चेति विरुद्धं स्यात् ॥

 अत्रोच्यते-ईश्वरसत्त्ववैमल्यप्रकर्षापेक्षत्वात् कालानवच्छेद्यत्वस्यादोषः ॥

  यथा अन्येषां गुरूणां योगधर्मादिसमनुष्ठाननिमित्तत्वात् कालानवच्छेद्यो वैमल्यप्रकर्षः, तथा न भगवतः ! कथम् ? सर्वदाऽत्यन्ततिरोभूतरजस्तमस्त्वादनपेक्षितधर्मादिनिमित्तं सकलार्थावद्योतकरं कालानवच्छेद्यं सत्त्वस्वरूपवद्भगवत्सत्त्वे ज्ञानम्।

 तथा तत्कार्यमप्युत्कर्षः कालेन नावच्छिद्यते । यथा चाग्रेरुष्णप्रकाशावग्नौ कालानवच्छेद्यौ, तथा भगवत्सत्त्वस्य वैमल्यज्ञानप्रकर्षास्तत्सत्त्वे कालानवच्छेद्यता मुपयान्तीत्येतदपेक्षयाभिहितं यत्रावच्छेदार्थः कालो नोपावर्तत इति । न त्वकार्यापेक्षया ह्युच्यते ॥

  गुरुत्वं हि नावाधमत् । तदेवाह--यथाऽस्य सर्गस्यादौ ज्ञानवैमल्यप्रकर्षगत्या सिद्धः सर्गादिजन्मनामनुमेयतया सिद्धः आगमतश्चाज्ञायि, तथाऽतिक्रान्तसगदिष्वपि तत्कालजन्मनां ततः प्राक्तनानामपि सिद्धः । तथा भविष्यत्कालेऽप्यनुमानागमाभ्यामवगम्यते ।

 अस्य च सूत्रस्येदं प्रयोजनम्---यथा दृष्टा गुरवो ज्ञानधर्माद्युपदेशित्वादनन्यशरणैरनवरतमुपास्यन्ते, तथा भगवानयमपि सर्वगुरूणामपि गुरुत्वात्ततोऽपि विशेषेण नारायणादिनामा(दीनाम)नन्यचेतोभिः स्वहृदयेनानिशं धारयितव्य इति ॥

७६ पातञ्जलयोगसूत्रभाष्यविवरणे

 तस्य वाचकः प्रणवः ॥ २७ ॥

 व्यासभाष्यम्

वाच्य ईश्वरः प्रणवस्य ।

 विवरणम्

  यथा दृष्टगुरव उपासनेनाभिमुखीकृतास्तदुपासनपराननुगृह्णन्ति, तथाऽयं परमगुरुरप्यभिध्यानमात्रेणानुग्रहं करोति । तथा च श्रुतिः—

  "यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥” इति । स्मृतिरपि— "मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।

निवैरः सर्वभूतेषु यः स मामेति पाण्डव ॥" इति ॥ २६ ॥

ईश्वरप्रणिधानादित्युक्तं, स कथं प्रणिधातव्यः ? किं च तत्प्रणिधानसाधनम् ? येन प्रणिधाता प्रणिधत्त इति तत्प्रणिधानसाधनप्रतिपादनार्थमाह— तस्य वाचकः प्रणव इति । तस्य ईश्वरस्य यथोक्तलक्षणस्य वाचकः अभिधायकः प्रणवः सास्नादिमत इव गोशब्दः ॥

प्रकर्षेण नूयते स्तूयते अनेनेति प्रणवः । यदि वा, प्रणौति स्तौतीश्वरमिति प्रणव ओङ्कारः । प्रणिधीयते चानेन भगवान् प्रणिधातृभिरिति, प्रणमन्ति वा अनेनेति, प्रणिधत्ते वा तेन भगवन्तं चेतसीति, धाञो वकारोपजनं कृत्वा । शब्देन हि परोक्षाणामर्थानां मनसि प्रणिधानं मेरुरिन्द्र इति यथा ॥

तस्य चोङ्कारस्य वाच्यः ईश्वरः । अन्वर्थं खल्वपि निर्वचनम् । अवतेः रक्षणाद्यर्थान्मनिष्टिलोपश्चेति । प्रणिधातॄन् संसारादवतीति, गमयति वा संसारिणं निर्वाणमिति, निरतिशयं वा प्रीणयति, समाध्याद्यनुग्रहेणावगमयति वा परमार्थमित्येवमाद्यर्थानुगतम् सर्वथा तु नेदिष्ठं प्रियं नाम भगवतः ॥

व्यासभाष्यम्

 किमस्य सङ्केतकृतं वाच्यवाचकत्वम्? अथ प्रदीपप्रकाशवदवस्थितम् ? इति ।

 स्थितोऽस्य वाच्यस्य वाचकेन सह सम्बन्धः । सङ्केतस्त्वीश्वरस्य स्थितमेवार्थमभिनयति । यथा-अवस्थितः पितापुत्रयोः सम्बन्धः सङ्केतेनावद्योत्यते 'अयमस्य पिता' 'अयमस्य पुत्रः' इति ।

विवरणम्

  तेन हि मनसि सततं प्रणिधायमानः प्रसीदति । तथा चानेकशः श्रुतयः-‘ॐ खं 1ब्रह्म' '2ओमिति ब्रह्म' इत्यादयः । स्मृतयश्च ‘ॐ 3 तत्सत्’ इति । ‘ॐ 4विश्वं विष्णुः' इत्यादयः । ओंशब्दस्य कृदन्तं यन्मान्तमित्यव्ययत्वाद्विभक्तिनिवृत्तिः ।

 किमस्य सङ्केतकृतं वाच्यवाचकत्वं? अथ प्रदीपप्रकाशवदवस्थितमिति । किं चातः ? । यदि तेन भगवता अन्यैर्वा संव्यवहारार्थमस्य नामेदमस्त्विति संकेतितम्, ततोऽस्य प्रागोंशब्दावाच्यत्वादोशब्देन वा प्रणिधातारः प्राण्यधिषत, अन्येन वा नामान्तरेणाधीतवन्तस्तथेदानीमप्यस्तु, किमोङ्कारविशेषवचनेन । अथापि प्रदीपप्रकाशवदवस्थितं, तथाऽपि प्रथमश्रवणेऽपीश्वर उपलभ्येत यथा प्रकाशेन सविता ॥

 किं च-सङ्केतोऽप्यनर्थकः स्थितसम्बन्धत्वात् । अथापूर्वं सङ्केत्येत, पूर्वोक्तदोषप्रसङ्ग इति मन्यते ॥

 अत्रोच्यते-स्थितोऽस्य वाच्यस्य वाचकेन सम्बन्धो यदि नित्यः शब्दो यदि वा अनित्यः, सङ्केतस्तु तमेव स्थितं सम्बन्धमवज्वलयति ॥

 ननु चोक्तं-स्थितश्चेत् प्रथमश्रवणेऽपि तं प्रतीयुरिति । उच्यते--न हि प्रत्याय्यप्रत्यायकसम्बन्धः शब्दार्थयोः स्थितोऽपि सन्निन्द्रियेण गृह्यते । यथेन्द्रियार्थयोः । अप्रत्यक्षे हि वाच्यवाचकशक्ती ॥

 ततश्च येनोच्यते शब्दादर्थोऽनुमेय इति-तदसत् । सम्बन्धाग्रहणात् । परप्रयोगव्यङ्ग्यत्वाच्च सम्बन्धस्य । न ह्यनुमानं परप्रयोगमपेक्षते ॥

व्यासभाष्यम् सर्गान्तरेष्वपि वाच्यवाचकशक्त्यपेक्षस्तथैव सङ्केतः क्रियते । सम्प्रतिपत्तिनित्यतया नित्यः शब्दार्थसम्बन्ध इत्यागमिनः प्रतिजानते ॥ २७ ॥ [ विवरणम् ]

अथ ब्रूयादनुमितात् संबन्धादर्थानुमानमिति । स वक्तव्यः कथमनुमितः शब्दार्थसम्बन्धः ? इति ।

saw स चेत् ब्रूयात्-कार्यदर्शनादर्थं हि प्रतीत्य पश्चादनुमिनोति तत्संबन्धम् । यथा चक्षुषा रूपमुपलभ्य चक्षुस्संबन्धमिति । स प्रतिवक्तव्यः---सिद्धा तर्हि विनाऽनुमानेन शब्दादेव प्रतिपत्तिरिति ॥ यो हि ग्राष्ट्रपाकेनैव कृतार्थः किं तस्य किलोशिपाकेन। अथासकृत् प्रयोगदर्शनाद्गृह्यते सम्बन्धः, यथाऽग्निधूमयोरिति चेत्- न तु ब्रूमः न हि सहस्रेष्वपि प्रयोगेषु प्रत्यक्षेण शब्दार्थयोः संबन्धो गृह्यते यथाऽग्निधूमयोरादावपि संबन्धो गृह्यते । वाक्येऽप्ययमेव ॥ तस्मादवस्थितमेव वाच्यस्येश्वरस्य वाचकेन प्रणवेन सम्बन्धमवद्योतयति सङ्केतो यथा स्थितं पितापुत्रसंबन्धम् । सङ्केतोपायापेक्षत्वात् प्रथमश्रुतान्नार्थः प्रतीयते । यथा चक्षुष आलोकाभावे ॥ ननु च शब्दानित्यत्वपक्षे कथमनित्ये संबन्धिनि नित्यः संबन्ध इति । न ह्यनित्ययो रज्जुघटयोः संबन्धो नित्यः स्यात् । उच्यते--यथा प्रमाणप्रमेययोरिन्द्रियविषययोश्च क्रियाकारकाणां संबन्धः स्थित एवानित्येष्वपि संबन्धिषु, तद्वदत्रापि स्थित एवाव्यभिचारेण संबन्धः सर्गादिष्वपि वाच्यवाचकशक्त्यपेक्षः सङ्केतः । यथैव रूपचक्षुषोग्राह्यग्राहकशक्त्यपेक्षयैव सर्गादौ सर्गस्तथेहापि वाच्यवाचकशक्त्यपेक्षयैव सङ्केतः क्रियते ॥ सम्प्रतिपत्तिनित्यतया वृद्धपरम्परयैव गम्यगमकभावेन शब्दार्थयोः संप्रतिपत्तिर्नित्या नान्यथेति आगमिनो वेदवादिनः प्रतिजानते । सम्प्रतिपत्तिश्च शब्दार्थसंबन्धस्य हेतुस्तदेषाम् ॥ तदेतदुक्तं भवति--यद्यागमिपक्षः स्यादथान्यपक्षः, सर्वथा स्थित एव संबन्धः पितापुत्रयोरिव सङ्केतेनाभिव्यज्यत इति ॥

समाधिपादः प्रथमः ७९ व्यासभाष्यम्

विज्ञातवाच्यवाचकत्वस्य योगिनः—

तज्जपस्तदर्थभावनम् ॥ २८ ॥ [ भाष्यम् ]

प्रणवस्य जपः, प्रणवाभिधेयस्य चेश्वरस्य भावनम् । तदस्य योगिनः प्रणवं जपतः प्रणवार्थं च भावयतः चित्तमेकाग्रं सम्पद्यते । तथा चोक्तम्—

“ स्वाध्यायाद्योगमासीत योगात् स्वाध्यायमामनेत् । स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते ॥” इति ॥ २८ ॥

किञ्चास्य भवति—

विवरणम्

वाच्यवाचकयोरस्थितसंबन्धत्वे तु प्रणवरूपेणाभिमुखीभवतीश्वर इति नावकल्पते । न हि पाच्यपाचकसंबन्धे न च स्थिते पाचकाग्न्युपादानं पाकार्थं कल्पते । स्थिते तु वाच्यवाचकसंबन्धे भगवदाराधनसाधनस्य प्रणवस्योपादानमवकल्पत इति तत्प्रतिपादनार्थं सर्वं भाष्यम् ॥ २७ ॥

एवमवगतवाच्यवाचकसंबन्धस्य योगिनः परमेश्वरप्रसादनं कथं क्रियत इति तदर्थमाह—तज्जपस्तदर्थभावनम् । तस्येश्वरवाचकस्य प्रणवस्यार्धचतुर्मात्रस्य त्रिमात्रस्य वा जपः मनसोपांशु वा आवर्तनं जपः, तदर्थस्य चेश्वरस्य प्रणवेन वाचकेन समर्पितस्य बुद्धौ समारोपितस्य भावनमभिध्यानं तदर्थभावनम् । कर्तव्यमिति वाक्यशेषः ॥ तदेवमुभयं कुर्वतो योगिनः चित्तमेकाग्रं सम्पद्यते । एकाग्रसम्पत्तिं च तदाराधनफलं दर्शयति—तथा चोक्तम्—स्वाध्यायाद्योगमा(तिष्ठेत्)सीत स्वाध्यायात् प्रणवजपादीश्वरं प्रत्यवनतचित्तः सन् योगमासीत । तदर्थमीश्वरं ध्यायेत् । (रस्ययत्)तदर्थध्यानाच्चाप्रचलितमनाः स्वाध्यायं प्रणवमामनेत् मनसाऽभिजपेत् । मानसोऽभिजपः प्रशस्यते ध्यानस्यासन्नतरत्वात् । मा विषयप्रवणचित्तो भूदिति । एवं स्वाध्याययोगसम्पत्त्या तद्विरोधिना प्रत्ययान्तरेणानभिघातः स्वाध्याययोगसम्पत्तिः । तया च प्रणवजपपरमेश्वरध्यानसम्पत्त्या पर आत्मा परमेष्ठी प्रकाशते योगिन इति ॥ २८ ॥

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९ ॥

[ भाष्यम् ] ये तावदन्तराया व्याधिप्रभृतयः, ते तावदीश्वरप्रणिधानान्न भवन्ति । स्वरूपदर्शनमप्यस्य भवति । यथैवेश्वरः पुरुषः शुद्धः प्रसन्नः, केवलोऽनुपसर्गः, तथा अयमपि बुद्धेः प्रतिसंवेदी यः पुरुषस्तमधिगच्छति ॥ २९ ॥

अथ केऽन्तरायाः ? ये चित्तस्य विक्षेपाः । के पुनस्ते ? कियन्तो वा ? इति— [ विवरणम् ]

किञ्चास्य भवति ? पूर्वसूत्रे चित्तमेकाग्रं सम्पद्यत इत्युक्तमेकं फलम् , तदेपक्षया किञ्चेति चकारः । किञ्चान्यदप्यास्ति फलम् ? आहोस्विच्चित्तैकाग्रत्वमेवेति, तत्राह--ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च । ततः तस्मादीश्वरप्रणिधानात् प्रत्यक्चेतनाधिगमः प्रत्यक् स्वबुद्धिं चेतयत इति प्रत्यक् चेतन आत्मा, तस्य अधिगमो यथावत्स्वरूपसंवेदनम् ॥

ननु चाधिगत एव प्रत्यात्मं पुरुषोऽहं सुखी दुःखी चाहमिति ! एवं प्रसिद्धं, ततः किं विशेषेणोच्यते इति । सत्यमेवम्-किं त्वविशिष्टोऽसौ प्रत्ययश्चित्तस्य वृत्त्या । किञ्च-सुखी दुःखी चाहमिति सुखदुःखिसामानाधिकरण्यादिहाहंप्रत्ययस्य चित्तवृतिविषयत्वादविद्याप्रत्यय एव प्रसिद्धिः ॥ कथं तर्ह्यस्याधिगम इत्याह---यथैवेश्वरः पुरुषः शुद्धः क्लेशादिमलवर्जितस्तत एव प्रसन्नः स्वच्छस्तत एव केवलो निस्त्रिगुणस्तत एव निरुपसर्गस्तापत्रयवर्जितः प्रकृष्टसत्त्वप्रतिसंवेदी च तथाऽयमपि मदीयः पुरुषः शुद्धः प्रसन्नः केवलो निरुपसर्गो बुद्धेः प्रतिसंवेदीत्यवगच्छति ॥

यथा तथेति च दृष्टान्तदार्ष्टान्तिकनिर्देशादीश्वरक्षेत्रज्ञयोर्भेद उक्तो भवति । बद्धमुक्तोपपत्तेश्च । प्रधानस्य पारार्थ्योपपत्तेः । क्षेत्रज्ञानां चात एव परस्परभेदः ॥

समाधिपादः प्रथमः व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ ३० ॥

[ भाष्यम् ] नवान्तरायाश्चित्तस्य विक्षेपाः । सहैते चित्तवृत्तिभिर्भवन्ति । एतेषामभावे न भवन्ति पूर्वोक्ताश्चित्तवृत्तयः । व्याधिः धातुरसकरणवैषम्यम् । स्त्यानम् अकर्मण्यता चित्तस्य । संशयः उभयकोटिस्पृक् विज्ञानम् ‘स्यादिदमेवं नैवं स्यात्’ इति । प्रमादः समाधिसाधनानामभावनम् । आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवृत्तिः । अविरतिः चित्तस्य विषयसम्प्रयोगात्मा गर्धः ।

[ विवरणम् ] किञ्चास्य भवति ? ये तावदन्तराया व्याधिप्रभृतयो वक्ष्यमाणास्तेऽपि चास्येश्वरप्रणिधानान्न भवन्ति ॥ २९ ॥

तत्र के तेऽन्तरायाः ? कियन्तो वेत्याह -- व्याधिस्त्यानेत्यादि । संख्यया तावन्नवान्तरायाः । स्वरूपेण च व्याध्यादयः । व्याधिर्धातुरसकरणवैषम्यम् । धातवो वातपित्तश्लेष्माणस्तेषां विषमभावो वैषम्यं, तच्च वातपित्तश्लेष्मभूयिष्ठद्रव्योपयोगादिभ्यो जायते । स्वयोन्यागमे हि धातूनां वृद्धिमाचक्षते ॥

रस उपयुक्ताहारस्य परिणामविशेषः । स च सप्तधा, रसकार्यवाद्रस इत्युच्यते रसलोहितमेदोमांसास्थिमज्जाशुक्लाख्यः । तस्य वैषम्यं वृद्धिक्षयौ । करणवैषम्यमन्धबधिरत्वादि ॥

स्त्यानमकर्मण्यता चित्तस्य स्तिमितम् । संशयः स्थाणुर्वा पुरुषो वेति विरुद्धोभयकोटिस्पृक् प्रत्ययः ॥

प्रमादः समाधिसाधनानामभावनमशीलनम् । आलस्यं कायस्य चित्तस्य च गुरुत्वादप्रवर्तनम् । अविरतिश्चित्तस्य विषयसम्प्रयोगस्वभावो विषयसम्प्रयोगनिमित्तो वा गर्द्धः अभिकाङ्क्षा तृष्णा ॥

पातज्ञलयेोगसूत्रभाष्यविवरणे

[ भाष्यम् ] भ्रान्तिदर्शनम् विपर्ययज्ञानम्। अलब्धभूमिकत्वं समाधिभूमेरलाभः । अनवस्थितत्वं यल्लब्धायां भूमौ चित्तस्याप्रतिष्ठा। समाधिप्रतिलम्भे हि सति तदवस्थितं स्यात् इति । एते चित्तविक्षेपा नव योगमलाः, योगप्रतिपक्षाः, योगान्तराया इत्यभिधीयन्ते ॥ ३० ॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१ ॥

[ भाष्यम् ] दुःखम् आध्यात्मिकमाधिभौतिकमाधिदैविकं च । येनाभिहताः प्राणिनः तदपघाताय प्रयतन्ते तद्दुःखम् । दौर्मनस्यम् इच्छाविघाताच्चेतसः ।

[ विवरणम् ] भ्रान्तिदर्शनं विपर्ययज्ञानं योगसाधनेषु तन्मार्गे वा विपरीतवृत्तिः । अलब्धभूमिकत्वं समाधिभूमेरलाभः । भूमयो वितर्कादयश्चित्तस्य धर्मविशेषा उक्ता वक्ष्यमाणाश्च । अनवस्थितायामपि समाधिभूमौ ततः कथमपि प्रचलितस्य चित्तस्य पुनस्तत्रावस्थितत्वमेव स्यात्तदलाभस्त्वनवस्थितत्वमुच्यते ॥

तदेते नवान्तरायाः । अन्तरं विवरं विच्छेदं कुर्वन्त अयान्तीत्यन्तरायाः विक्षेपाः, प्रतिपक्षाः योगप्राप्तेरुपसर्गाः । एते च सह चित्तवृत्तिभिर्भवन्ति । चित्तं विक्षिपन्ति विषयेष्विति चित्तविक्षेपाः । क्षिप्रं ते [क्षिपन्ति] सहैते वृत्तिभिः पञ्चतयीभिरन्योन्यप्रयोज्यप्रयोजकभावेन भवन्ति । अथैषामभावे व्याधिप्रभूतीनामभावे सहायबलाभावान्न भवन्ति पूर्वोक्ताः प्रमाणादयश्चित्तवृत्तयः । तद्भावभावित्वात्तुल्यप्रत्यनीका वृत्तिविक्षेपा इत्युक्तं भवति ॥ ३० ॥

दुःखं येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते चेष्टन्ते । तच्च त्रिविधम् । आध्यात्मिकम्, अधि आत्मनीत्यध्यात्मम्, तत्र भवमाध्यात्मिकम् । तच्च शारीरं मानसं च । शारीरं धातुवैषम्यादिनिमित्तम् । मानसमिष्टविघातादिहेतुकम् । आधिभौतिकम् अधि भूतेष्वित्यधिभूतम्, तत्र भवमाधिभौतिकम् । तच्च पशुमृगाद्युपनिपतितम् । अधिदैविकमिति अधि देवेष्वित्यधिदेवम्, तत्र भवमाधिदैविकम्। अध्यात्मादिभ्यष्ठक् इत्युपसंख्यानात् ठक्। अनुशतिकादित्वादुभयपदवृद्धिः । तच्चापि वातवर्षादिनिमित्तम् । तदेकमेव सन्निमित्तभेदेन रजोरूपं भिद्यते ॥

समाधिपादः प्रथमः [ भाष्यम् ] क्षोभः । यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । प्राणो यद्बाह्यं वायुमाचामति स श्वासः । यत्कौष्ठ्यं वायुं निस्सारयति स प्रश्वासः । एते विक्षेपसहभुवः । विक्षिप्तचित्तस्यैते भवन्ति । समाहितचित्तस्यैते न भवन्ति । अथैते विक्षेपाः समाधिप्रतिपक्षाः ताभ्यामेवाभ्यासवैराग्याभ्यां निरोद्धव्याः ॥ ३१ ॥

तत्राभ्यासस्य विषयमुपसंहरन् इदमाह—

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२ ॥

व्यासभाष्यम्

विक्षेपप्रतिषेधार्थमेकतत्त्वालम्बनं चित्तमभ्यसेत् ।

[ विवरणम् ]  दौर्मनस्यमिच्छाविघाताच्चेतसः क्षोभः आकुलीभावः सञ्चलनम् । यदङ्गान्येजयति कम्पयति तदङ्गमेजयत्वम् । (न तच्च प्राणायामाद्यथाभ्यासप्रभवश्वासावपि तथा समुद्भवः) यद्बाह्यं वायुमाचामति बाह्यवायोराकर्षणबाहुलकं[ल्यम्]निष्क्रमणमन्दता च श्वासः । तद्विपरीतव्यापारः प्रश्वासः-- यत्कौष्ठ्यं वायुं निस्सारयति । एते विक्षेपसहभुवः विक्षेपैः सहैते विक्षिप्तचित्तस्यैव भवन्तीति विक्षेपसहभुवः । समाहितचित्तस्यैते न भवन्तीति यावत् । यावद्यावच्चेतः समाधीयते तावत्तावन्न भवन्तीति । ताभ्यामेवाभ्यासवैराग्याभ्यामुपशमयितव्याः । नान्यं प्रतिपक्षमपेक्षन्ते ॥

 अभ्यासवैराग्ये मुक्त्वा न हि परमेश्वरप्रणिधायिन्यः[भ्यः]प्रभावो भवतीति गम्यते । 'अन्तरायाभावश्च' इत्युक्त्या प्राक्तनादपीश्वरप्रणिधानादन्तराया निरुध्यन्ते ॥ ३१ ॥

 अभ्यासवैराग्याभ्यां तन्निरोध इत्युक्तम् । तत्र वैराग्यविषयः प्रतिपादितः । इदानीमभ्यासस्य विषयमुपसंहरन्नाह--तत्प्रतिषेधार्थमेकतत्त्वाभ्यास इति । तेषां विक्षेपाणां प्रतिषेधाय तत्प्रतिषेधार्थम् । एकं तत्त्वमेकतत्त्वम् । तच्चैकं तत्त्वं वस्तुत्वान्नाभ्यसितुं शक्यम् । न ह्यात्मादिवस्तूनां

पातञ्जलयोगसूत्रभाष्यविवरणे [ भाष्यम् ]

 यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमेकाग्रम् । नास्त्येव विक्षिप्तम् ।

 यदि पुनरिदं सर्वतः प्रत्याहृत्य एकस्मिन्नर्थे समाधीयते, तदा भवत्येकाग्रमित्यतो न प्रत्यर्थनियतम् ।

विवरणम्

 शीलनं वक्तुं शक्यते । स्वमाहाभाग्यावस्थितानि हि तानि न चित्तमात्राणि । वस्तूनां तु चित्ततन्त्रतां प्रतिषेधयिष्यति--'न चैकचित्ततन्त्रं वस्तु’ इत्यादिना । तस्मादेतदाशङ्कमानो भाष्यकार आह--एकतत्त्वालम्बनं चित्तमभ्यसेदिति । सूत्रेऽप्येकतत्त्वाभ्यास इति समासादयमर्थ उपात्त एव ॥

 ननु नैकं चित्तमवस्थितमस्ति, यस्यैकतत्त्वावलम्बनः प्रत्यय आपद्येत । प्रत्यया एव चित्तम्, ते च प्रत्यर्थं नियताः क्षणप्रणाशिनश्च प्रत्यात्मसंवेद्यं च प्रत्ययानामनवस्थितत्वम् । नापि प्रत्ययव्यतिरेकेणावस्थितं प्रत्ययि चित्तं नामोपलभ्यते । योऽप्यहमेवाहमिति प्रत्ययः सोऽपि समानसन्ततिपतितत्वात्सादृश्यनिबन्धनः । यथा स एव प्रदीपः त एव केशा इति ।

 तदप्याह--प्रत्यहं[प्रति]प्रत्ययं प्रत्ययी भिन्नः, प्रत्ययेभ्योऽत्यन्तपरस्परभिन्नेभ्योऽनन्यत्वात् । एकैकप्रत्ययस्वरूपसद्वर्तमानाहंप्रत्ययविषयः प्रत्ययी भूतभविष्यत्कालाहंप्रत्ययविषयात् प्रत्ययिनो भिन्नः, भिन्नप्रत्ययविषयत्वात् , घटात् (घ) पट इव । यदि वा--भिन्नकालत्वात्, विनष्टभविष्यद्घटाभ्यां वर्तमानो घटः [इव] । अहंप्रत्यया वा सर्वे भिन्नालम्बनाः, प्रत्ययत्वात्, घटपटादिविषयप्रत्ययवदिति ॥

 अत्राभिधीयते-स्वशास्त्रविरोधोऽपि स्यादेवं ब्रुवत इत्याह--क्षणिकं च यस्य चित्तं तस्य सर्वमेव चित्तम् एकाग्रम् विक्षेपाभावादेव नास्त्येव विक्षिप्तमिति सर्वचित्तैकाग्रत्वाद्विक्षेपप्राप्त्यभावाद्विक्षेपप्रतिषेधाय शास्त्रोपदेशोऽनर्थकः स्यात् । अस्ति च चित्तपरिकर्मार्थं मैत्र्याद्युपदेशः । स च विरुध्येत इत्थं धर्मं चित्तमभ्युपगच्छतः ॥

 ननु च तवापि वृत्तिवृत्तिमतोरभेदादनुपपन्नो विक्षेप इति तत्प्रतिषेधोपदेशानर्थक्यम्---नैष दोषः---वृत्तिवृत्तिमत्त्वाभ्युपगमात् ॥

व्यासभाष्यम्

 योऽपि सदृशप्रत्ययप्रवाहेण चित्तमेकाग्रं मन्यते, तस्य एकाग्रता यदि प्रवाहचित्तस्य धर्मः, तदा एकं नास्ति प्रवाहचित्तम् ; क्षणिकत्वात् ।

विवरणम्

 यदि वृत्तय एव परस्परभिन्नाः स्वतन्त्रा वृत्तिमतोऽत्यन्तभिन्ना जायेरन् प्रत्यर्थनियताश्च, तत एष दोषः स्यात् । न चैवमभ्युपेयते ॥

 कथं तर्हि ? वृत्तिमद्रूपेणैकमनेकार्थं च तद्वृत्तीनां विषयभेदादवस्थितं च सदसतोर्विपर्ययानभ्युपगमादित्येवमात्मपक्षे समञ्जसतां दर्शयति--यदि पुनरिदं चित्तं वृत्तिभेदेनानेकधा (म्मिलावयवद्धि) प्रसृतं साङ्ख्ययोगवादिन इव तवापि सर्वतः सर्वेभ्यः विषयेभ्यः प्रत्याहृत्य प्रत्यानीयैकस्मिन्नात्माद्यर्थे समाधीयेत स्थाप्येत तदा भवत्येकाग्रं पुरुषप्रयासभाव्यत्वार्हमित्यर्थः ॥

 ततो युक्तस्तत्परिकर्मणे शास्त्रोपदेशः । (अतो न प्रत्यक्षम्) अतोऽस्मात् कारणात् तत्परिकर्मविषयशास्त्रोपदेशात् सांख्ययोगवादिवत् क्षणिकवादिनोऽपि एकमनेकार्थमवस्थितं च चित्तं न प्रत्यर्थनियतं (वा) पश्चादभ्युपगमनीयम् । अन्यथा शास्त्रविरोधः स्यात् । योऽपि सदृशप्रत्ययप्रवाहं चित्तमेकाग्रं मन्यते सदृशः समानः प्रत्ययप्रवाहो यस्यैकस्यां सन्ततौ तच्चित्तमेकाग्रम् । तद्विपरीतम् असमानप्रत्ययप्रवाहं विक्षिप्तम् । तथा चैकाग्रता विक्षेपप्रतिषेधेनोपपद्यते, तदर्थोपदेशश्चेति कुतः शास्त्रविरोध इति ॥

 इतर आह--न--प्रवाहचित्तस्यैकस्य धर्मिणोऽनभ्युपगमात् । न हि प्रवाहचित्तं नामैकमतीतवर्तमानभविष्यत्प्रत्ययानां धर्मिणमभ्युपगच्छति । यदि ह्यभ्युपगच्छेत् परित्यक्तः स्वपक्षः । कस्मात् ? प्रवाहचित्तस्याक्षणिकत्वात्तदेवैकं नास्ति, यस्यैकाग्रता धर्मः। प्रत्ययानेव ह्यन्योन्यसंहतान् पिपीलिकापङ्क्तिकल्पानसावभ्युपगच्छति ॥

 अथैवं मन्यते, यद्यप्येकं नास्ति तथापि सर्वेषामेव प्रत्ययानां सदृशप्रवाहाणामेकाग्रता धर्मः प्रदीपार्चिषामिव प्रकाश इति--तत्राह--नायुगपत्कालोत्पत्तिविनाशानां समाहारः सम्भवति । दृष्टान्तस्य च साध्यविकलत्वात् । न हि बह्वीनामर्चिषामेकः प्रकाशः । प्रत्यर्चिषमस्य भेदात् । नचापि प्रकाशस्यार्चिषां चैको धर्मो ना[मा]स्ति ॥

व्यासभाष्यम्

 अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः । तस्मादेकमनेकार्थमवस्थितं चित्तमिति ॥

यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्, अथ कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्, अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत् ॥

विवरणम्

 अथापि मन्यते प्रवाहांशस्यैव प्रत्ययस्य कस्यचिदेकाग्रता धर्मः, यथैकस्यां पिपीलिकासन्ततावेकापि पिपीलिका लोहितेति--तच्च न--पूर्वदोषानुषक्तेः । सर्वः प्रत्ययः प्रवाहांशः सदृशवाही विसदृशवाही वा पूर्ववत् प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानवलृप्तिः । तस्मादेकमनेकार्थमवस्थितं च चित्तमभ्युपगन्तव्यम् । यदि शास्त्रेण चित्तपरिकर्मोपदेक्ष्यते ॥

 किं च-- यदि चित्तेनैकेनानन्विताः करणेन स्वभावभिन्नाः प्रत्यया जायेरंस्तदा ब्रूहि कथमन्यप्रत्ययदृष्टस्यान्यः प्रत्ययः स्मर्ता भवेद्देवदत्तदृष्टस्येव यज्ञदत्तः । अन्यप्रत्ययोपचितस्य वा कर्माशयस्यान्यः प्रत्यय उपभोक्ता ॥

 न हि भविष्यत्पुत्रः पित्रा रचितकर्माशयफलं स्वर्गादि प्रत्युपभुञ्जीत । अथ ब्रूयात्---विशिष्टभविष्यत्पुत्रविज्ञानार्थं विनश्यत्प्रवृत्तिविज्ञानमालयविज्ञानसंस्कारं कञ्चनाधत्ते इति—नैतदेवम्—आलयप्रवृत्तिविज्ञानयोरत्यन्तभेदादवस्तुत्वाच्च ॥

 यद्यालयविज्ञानान्न तत्प्रवृत्तिविज्ञानं, तदा तदेव तदिति नाममात्रभेदः, तथा च संस्काराधानायुक्तत्वात् स्मृत्यनुपक्लृप्तिः । अथाप्यन्यत्--एवमप्यन्यत्प्रवृत्तिविज्ञानमालयविज्ञाने संस्कारं नादधीत, भिन्नत्वात् । यथा सन्तत्यन्तरालयविज्ञाने ॥

 किं च—-यद्यपि संस्कारमाधत्ताम्, तथापि प्रवृत्तिविज्ञानापादितसंस्कारमालयविज्ञानं देशकालान्तराक्षमम् । तस्यापि क्षणिकत्वाभ्युपगमाद्विनश्यच्च तावत्येव नोत्तरविज्ञानोपकाराय पर्याप्नोति । देशकालान्तरव्यवहितं चेदुपकुर्वीत, तदा भिन्नसन्तानान्तरजन्मनाप्युपकर्तव्यम् ॥

 अथ कालान्तरावस्थायि, तदा क्षणिकत्वहानिः । क्षणान्तरं चेदवतिष्ठेत, दीर्घकालावस्थायित्वे कस्य स्यादक्षमा ॥


 अथापि प्रवृत्तिविज्ञानसंस्कारविशिष्टस्यान्तरालभाविन आत्मसदृशस्य भविष्यत आलयविज्ञानस्य संस्कारमाधाय पूर्वमालयविज्ञानं विनङ्क्ष्यतीति--

 तच्च न--संस्कारान्तराभावात् । अस्ति चेदनवस्थाप्रसङ्गः । अथ नास्त्याधारः, तत्र किं प्रवृत्तिविज्ञानस्यालयविज्ञानकल्पनया संस्काराधानाय । यथा आलयविज्ञानमुत्पित्सिष्यमाणस्य तत्कालमसतः आलयविज्ञानस्य संस्कारमाधत्ते, तथा प्रवृत्तिविज्ञानमपि उत्पित्सिष्यमाणस्य तत्कालमसतः प्रवृत्तिविज्ञानस्यैव संस्कारमाधत्तामनपेक्ष्यालयविज्ञानम् ॥

 न च विनश्यत् अन्यस्य भाविनस्तत्कालमविद्यमानस्य संस्कारमाधत्ते इत्यस्य दृष्टान्तो दृश्यते । नापि भाविन्येव संस्कारं कुर्वीत । पूर्वेण भविष्यत्संस्क्रियते, भविष्यति चेति विरुद्धम् । तत्कालं चेदसद्भविष्यत्संस्क्रियते, किं तुल्यातुल्यसन्ततिकल्पनेन ? असंबन्धाविशेषात् सर्वं सर्वेण संस्क्रियेत ॥

 नापि भविष्यद्विनश्यतोर्युगपदुत्पत्तिविनाशावक्षणिकत्वप्रसङ्गात् । अथ तुलान्तयोरिव नत्युन्नती युगपत्पूर्वविनाशोत्तरसमुत्पत्ती स्याताम् (न) वस्तुनोरिति चेत्--न--अभ्युपगमविरोधात् । न हि वैनाशिकेनोत्पत्तिविनाशक्रियाव्यतिरेकेण कारकमन्यदिष्यते । अभ्युपगमे च सिद्धान्तविरोधः ॥

 किंच—अन्यत्वे च क्रियाकारकयोर्यावत्क्रियोत्पत्ति कारकेणावस्थातव्यं, ततश्च क्षणिकत्वहानिः । अ[न]वस्थाने च क्रियार्थं ततः[तस्य] उपादानमनर्थकम् ॥

 किं चान्यत्--क्रियाया एव कारकत्वे कारकस्यापि क्रियात्वे क्रियाकारकशब्दौ पर्यायौ स्याताम् । ततश्चाङ्कुरो जायते, देवदत्तो जायत इत्यङ्कुरदेवदत्तयोः पर्यायत्वं स्यात् । तयोर्जनिक्रियामात्रत्वात् ॥

 अथ अन्यजनिक्रिया देवदत्तविशिष्टा अन्या चाङ्कुरविशिष्टेति चेत्—-अभ्युपेतं तर्हि विशेषणं कारकं, न हि स्वरूपेण किञ्चिद्विशिष्टं स्यात् ॥

 अथोच्येत, स्वरूपेणैवोत्पत्तिक्रिया उत्पत्तिक्रियान्तराद्विशिष्टा यथा स्वलक्षणानि रूपादीनि इति--तच्च न--भावाभावयोरेकत्वप्रसङ्गात् । इहाङ्कुरो जायते नश्यत्यङ्कुर इति च य एव जायते स एव नश्यति तत्राङ्कुरजनन-


व्यासभाष्यम्

 कथञ्चित् समाधीयमानमप्येतत् गोमयपायसीयन्यायमाक्षिपति ।

 किंच—स्वात्मानुभवापह्नवः चित्तस्यान्यत्वे प्राप्नोति । कथम् ? ‘यदहमद्राक्षं तत्स्पृशामि’ ‘यच्चास्प्राक्षं तत्पश्यामि’ इत्यहमिति प्रत्ययः

विवरणम्

मङ्कुरविनाशनमिति जननं विनाश इत्युक्तं भवति । अङ्कुरो हि क्रियैव कारकमिति वोच्येत । (चितः) ॥

 अथापि स्यात्—अन्यै(न्यस्यै)वाङ्कुरजननक्रियाया अङ्कुरविनाशक्रियेति—तथाऽप्यङ्कुरजननस्य नित्यत्वप्रसङ्गः । विनाशस्यान्यत्वादेव ॥

 अथापि नाशजननवद्वस्तु शबलमिति, तथाऽप्यभावस्य शबलत्वं प्रसज्येत । कथम् ? क्रियाव्यतिरिक्तस्य कारकस्याभावेऽपि नाश एव जननविनाशवान् जननमेव जननविनाशवदिति । न ह्यभावस्य शबलत्वादिविशेषो निर्विशेषत्वाद्भावाभावयोश्चाविरोधात् प्रत्यक्षानुमानानुपपत्तिः ॥

 यदप्युच्यते—तुलान्तयोर्नामोन्नामाविति—तत्र युक्ता तुलान्तयोरेककालयोर्विद्यमानत्वादन्यतरस्य वस्त्वन्तरगौरवनिमित्ता आनतिरन्यतरस्य चोन्नतिः । इह पुनर्भवद्भविष्यत्कालयोर्विज्ञानयोर्नाशोत्पत्ती तुलानामहेतुवत्तृतीयस्य निमित्तान्तरस्याभावादेककालं नोपपद्येते । विनश्यदेव विज्ञानमात्मसदृशं जनयतीति न शक्यं वक्तुम् । न हि देवदत्तो म्रियमाण एवात्मसमानं पुत्रं जनयति विनाशेनाक्षणत्वात् ॥

 अथ मृत्पिण्डो यथा घटमुत्पादयन् विनश्यति, तद्वदिति चेत्—तच्च न—मृदवयवानामेव घटाकारेण परिणतत्वात् । एकैव हि मृत्पिण्डघटादिबहुधर्मयोगिनी ॥

 यच्चापि बीजेषु द्रव्यान्तरवासितेषु वासकद्रव्यानुविधायित्वं वास्यद्रव्यस्येति—तदप्यकारणम् वास्यवासकयोरवस्थितत्वात् । अवस्थितान्येव हि बीजेष्वङ्कुरादीनि वास्यन्ते बीजवासनेन । तदन्यत्वात् वासकद्रव्यस्याप्यवयवाननुप्रविष्टाः सूक्ष्मा विद्यन्त एव । तस्माद्विद्यमानान्येवाङ्कुरादीनि बीजवासनया वास्यन्त

[ भाष्यम् ]

सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्यभेदेनोपस्थितः । एकप्रत्ययिविषयोऽयमभेदात्मा अहमिति प्रत्ययः कथमत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यमेकं प्रत्ययिनमाश्रयेत । स्वानुभवग्राह्यश्चायमभेदात्मा अहमिति प्रत्ययः ।

विवरणम्

 इति युक्तम् । असतां शविषाणादीनामुत्पत्त्यभावात् । असतां चेदुत्पत्तिः स्याद्वास्यवासकयोर्विनष्टत्वादविद्यमानत्वाविशेषे वासकद्रव्याननुविधायि नोत्पद्येत । अन्यद्वा हस्तादि ॥  यदि वा, अत्यन्तासदेव शशविषाणाद्युत्पद्येत । अतो विशिष्टं हि त्रयाणामसत्त्वं वासिते बीजे । तस्मादवस्थितं कारकं भूतभविष्यत्कालानेकवृत्तियोगिचाभ्युपगन्तव्यम् । अन्यथा प्रत्ययमात्रं क्षणिकं चित्तमिति समर्थ्यमानस्य समाधीयमानमपि (समर्थ्यमानमपि) गोमयपायसीयन्यायमाक्षिपति ॥

 यथैव बहुभिरपि गोविकारत्वादिहेतुभिः समीहमाने कृताटोपेनापि गोमयं पायसीकर्तुं न शक्यम्, तथा क्षणिकेन चित्तेन स्मरणादि समर्थयितुम् ॥  किञ्च—स्वात्मानुभवापह्नवः चित्तस्यान्यत्वे प्रत्ययमात्रत्वे नान्यदृष्टमनुस्मरतीति स्वात्मनानुभूतमपह्नुवीत ॥

 किं त्वमद्राक्षीरित्युक्तो दृष्टवानपि नाहमद्राक्षमिति ब्रुवीत । अन्येन हि तत्पक्षे तत् दृष्टं दृश्यते । तदपह्नवे चानुभूतस्य प्रतिपत्तिः कथम् ? ‘यदहमद्राक्षं तत् अहमेव स्पृशामि’ ‘यदहमस्प्राक्षं तत् अहमेव स्मरामि’ इति । सैषा प्रत्ययस्मरणयोरेककर्तृत्वे सति घटनामुपढौकते प्रतिपत्तिः । अन्यथा मत्सदृशो यदद्राक्षीत्तत्सदृशोऽहं तं स्पृशामीति स्मरामीति च स्यात् । सर्वस्य पुरुषस्याहमिति प्रत्ययः स्मृतिप्रत्यययोरेकस्मिन् कर्तरि वर्तमानः प्रत्ययभेदे पश्यामि स्पृशामि स्मरामीत्यादिप्रत्ययभेदे सति तेषां च प्रत्ययानामेकस्मिन् कर्तरि प्रत्ययिन्यभिन्ने चोपस्थितः प्रत्यक्षश्च ॥

 नन्वेकप्रत्ययविषय एवान्यः स्मृतेरेकत्वेऽपि कर्तुरहं प्रत्येमि स्मराम्यहमिति च न भवितव्यं, प्रत्येता स्मर्तेति शब्दभेदाद्भेद एव । तत्राह—न—प्रत्यक्षत्वात् । तदेव दर्शयति—स्वानुभवग्राह्यश्चायमभेदात्मा अहमिति प्रत्ययः ॥

व्यासभाष्यम्

 न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते । प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते ।

विवरणम्

  अथ प्रत्येता स्मर्तेति शब्दभेदात् प्रत्ययभेदाच्चाहम्प्रत्ययस्य भिन्नविषयत्वमनुमायिष्यत इति चेदत आह—न हि प्रत्यक्षस्य माहात्म्यं प्रामाण्यं चक्षुषो रूप इवानुमानादभिभूयते बाध्यते ॥

 किं च—प्रत्यक्षं प्रमाणमयमहंप्रत्ययो न तत् स्मृतिप्रत्ययानामेकस्मिन् कर्तरि सामान्येन वर्तमानः । स चेत् प्रत्यक्षप्रमाणभूतोऽनुमानेनाभिभूयेत, तदानीमनुमानस्यापि प्रमाणत्वं हीयेत । तन्मूलत्वादनुमानस्य । तदेतदाह— प्रमाणान्तरं च प्रत्यक्षबलेनैव प्रामाण्यव्यवहारं लभत इति । तेन प्रत्यक्षविरोधेन अनुमानविरोधेन च प्रतिवादि(पादित)प्रमाणप्रतिज्ञादोषो व्याख्यतः ॥

 अतीतानागतप्रत्ययसंस्काराधारादनन्यः इदानीन्तनप्रत्ययसंस्काराधारः, एकसन्तानसंबन्धित्वे सति बोधात्मकत्वात्, आत्मस्वरूपाद्यथा ॥

 भूतभविष्यत्प्रत्ययसंस्काराश्रयः वर्तमानप्रत्ययसंस्काराश्रयादनन्यः, एकसन्तानसंबन्धे सति बोधात्मकत्वात्, आत्मन इव स्वरूपात् ॥

 वर्तमानाहंप्रत्ययी भूतभविष्यत्प्रत्ययिभ्यामभिन्नः, एकसन्तानयोगे सति प्रत्ययित्वात्, यथा स्वरूपात् ॥

 भूतभविष्यत्प्रत्ययिभ्यामनन्यो वर्तमानः प्रत्ययः, एकसन्तानसंबन्धे सति बोधात्मकत्वात्, आत्मरागस्वरूपादिभ्य इव ॥

 भूतभविष्यत्प्रत्ययेभ्यो नान्यो वर्तमानः प्रत्ययी, एकसन्तानसंबन्धित्वे सति बोधात्मकत्वात्, आत्मनो यथा स्वरूपात् ॥

 भिन्नसन्ततिषु परस्परस्मृतिप्रतिसन्धानाद्यनुपलम्भादेकसन्तानेषु च स्मृत्यादिदर्शनादेव सिद्धमेककर्तृत्वम् । तथा सर्वप्रमाणेभ्यो गरीयसा प्रत्यक्षेण प्रमाणेन । तत्र न किंचिदनुमानेन साध्यम् । न हि कश्चित् करतललाञ्छनदिदृक्षया दर्पणमादत्ते । तथाऽपि वैनाशिकोपरचितानुमानापशदमसहमानाः केचित् प्रत्यनु-

९१
समाधिपादः प्रथमः

व्यासभाष्यम्

  तस्मादेकमनेकार्थमवस्थितं च चित्तम् । यस्य चित्तस्यावस्थितस्येदं शास्त्रेण परिकर्म निर्दिश्यते ॥ ३२ ॥ तत्कथम्—

 मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ॥ ३३ ॥

व्यासभाष्यम्

 तत्र सर्वप्राणिषु सुखसम्भोगापन्नेषु मैत्रीं भावयेत् । दुःखितेषु करुणाम् । पुण्यात्मकेषु मुदिताम् । अपुण्यशीलेषूपेक्षाम् । एवमस्य भावयतः शुक्लो धर्म उपजायते । ततश्च चित्तं प्रसीदति । प्रसन्नमेकाग्रं स्थितिपदं लभते ॥३३॥

विवरणम्

 मानानि पेशलानि दर्शयन्ति । तथा चाह—तस्मादेकमनेकार्थमवस्थितं च चित्तम् । यस्येदं शास्त्रेण परिकर्म निर्दिश्यत इति—शास्त्रोपदेशसम्बन्धित्वं चित्तस्यावस्थितत्वे हेतुमुपदिशति । न हि विशीर्यमाणस्य घटस्य प्रक्षालनपरिवर्तनादिसंस्कारः क्रियते ॥ ३२ ॥

 कथं चित्तपरिकर्म निर्दिश्यते ? तथैकतत्त्वाभ्यास इति चोक्तम्, किं च तदेकं तत्त्वम्? यद्विषयेऽभ्यास इति । तत आह—

 मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनात- श्चित्तप्रसादनमिति । मैत्री मित्रविषया भावना । तादृशीं सुखितेषु सुखमनुमोद- यन्तीमसूयादिवर्जिताम् । तथा दुःखितेषु करुणां कृपाम् अनुजानतीं दुःखम् । पुण्यात्मकेषु मुदितां पुण्यशीलतामनुजानतीम् । अपुण्यशीलेषु चोपेक्षाम् अपुण्यशीलव्यापारेषूदासीनतां च भावयेदित्यनुषज्यते ॥

 सर्वत्रैवमस्य भावयतः, शुक्ल इति विशुद्धः प्राण्युपघातादिवर्जनाच्छुक्लो धर्मः । ततः स धर्म इव जातश्चित्तं प्रसादयति । तेन प्रसन्नं चित्तमेकाग्रं स्थितिपदं लभते । एकाग्रतया समाधीयत इत्यर्थः तदुक्तम्—‘प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते’ इति ॥

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४ ॥

व्यासभाष्यम्

 कौष्ठ्यस्य वायोः नासिकापुटाभ्यां प्रयत्नविशेषात् वमनं प्रच्छर्दनम् । विधारणं प्राणायामः । ताभ्यां वा मनसः स्थितिं सम्पादयेत् ॥ ३४ ॥

 विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ ३५ ॥

विवरणम्

 तत्रोपेक्षाया अक्रियारूपत्वाद्धर्माहेतुत्वे सति किमर्थमिहोपादानम् ? उच्यते—उपेक्षानुपादाने चापुण्यशीलेष्वपि चित्तं व्यापारं यायात् । ततश्च तद्व्यापारोपधानकालुष्यान्मैत्र्यादिभावनाया न योग्यं भवति । अपुण्यशीलनिमित्तनैमित्तिकाकारव्यापारादधर्मो वा मा संजनिष्टेति चित्तस्थितिरेवोपेक्षेति तस्या उपादानम् । चित्तस्थितिश्चेह समीहिता ॥

 तस्मादित्थं समाहितचित्तस्य मैत्रीकरुणाद्येकतत्त्वालम्बनं चित्तं शीलयतः प्रागभिहिता अन्तराया न जनिष्यन्ते ॥ ३३ ॥

 प्रच्छर्दनविधारणाभ्यां वा प्राणस्य । वाशब्दो मैत्र्यादिभावनोपायान्तरविकल्पार्थः । मैत्र्यादिभावनाद्युपायानामन्यतमेन येन केनचित् चित्तस्थितिः सम्पादनीयेति प्रकरणार्थः । अनेकोपायप्रदर्शनं कस्यचित् क्वचित् सुकरताभिप्रायेण । प्रच्छर्दनविधारणाभ्यां व्यस्ताभ्यां समस्ताभ्यां वा । प्रच्छर्दनम् कौष्ठ्यस्य वायोरातमितोरुद्वमनं नासिकाभ्याम्, न मुखेन । विधारणं प्राणायाम आतमितेरेव । यद्यपि प्रच्छर्दनेनापि प्राणः आयम्यते, तथापि बहिर्वृत्तिर्न निरुध्यत इति विधारणं प्राणायाम इति विशेष्यते ॥ ३४ ॥

विषयवती वा प्रवृत्तिरुत्पन्ना स्थितिनिबन्धिनी । चित्तस्येति वाक्यशेषः । विषया गन्धादयो यस्या योगप्रवृत्तेर्गन्धादिसंवेदनलक्षणाया आलम्बनीभूताः, स विषयवतीत्युच्यते ॥

प्रवृत्तिर्नाम योगिनो योगमभ्यस्यतः अभिमुखीभावं प्रतिपद्यमानस्य योगस्य यः प्रथमोऽभिमुखीभावः प्रत्ययकरणो योगानुष्ठानं प्रत्युत्साहजननो

९३
समाधिपादः प्रथमः

व्यासभाष्यम्

 नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित् सा गन्धप्रवृत्तिः । जिह्वाग्रे रससंवित् । तालुनि रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्दसंवित्, इत्येता वृत्तय उत्पन्नाश्रितं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारीभवन्ति इति ।

 एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिरुत्पन्ना विषयवत्येव वेदितव्या ।

 यद्यपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैरवगतमर्थतत्त्वं सद्भूतमेव भवति । एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात् । तथाऽपि यावदेक- देशोऽपि कश्चिन्न स्वकरणसंवेद्यो भवति, तावत् सर्वं परोक्षमिवापवर्गा- दिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धिमुत्पादयति । तस्माच्छास्त्रानुमानाचार्योप- देशोपोद्बलनार्थमेवावश्यं कश्चिदर्थविशेषः प्रत्यक्षीकर्तव्यः ।

विवरणम्

निर्मथ्यमानस्याग्नेरिव धूमसमुद्भवः, सा प्रवृत्तिः । सा च तादृशी प्रवृत्तिरुत्पन्ना प्रत्ययकरणात् प्रहर्षयन्ती योगिनश्चित्तं स्थितौ निबध्नाति ॥

 नासिकाग्रे चित्तं धारयतो गन्धसंवित् प्रह्लादनकरसुरभिगन्धसंवेदनं निरन्तरतया सम्मतसंयोगमिवाचक्षाणा जायते । सा गन्धप्रवृत्तिः । तथा जिह्वादिषु । धारयत इति सम्बध्यते । ता एताः प्रवृत्तयः स्थितौ चित्तं निबध्नन्ति । संशयं विधमन्ति समाधिप्रज्ञायाश्च द्वारीभवन्ति ॥

 एतेन रश्मिचन्द्रादित्यग्रहप्रदीपादिषु चित्तं धारयतो हृदयपुण्डरीके- वा धारयतो वैषम्याद्रश्मिचन्द्राद्याकारा प्रवृत्तिरुत्पन्ना विषयवतीत्येव वेदितव्या ॥

 यद्यपि शास्त्रानुमानाचार्येभ्योऽवगतमर्थतत्त्वं तथाभूतमेव अव्यभिचारिस्वरूपमेव । तेषामन्यथाभूताप्रतिपादकत्वात् । तथाऽपि यावदेक- देशोऽपि स्वकरणसंवेद्यो न भवति प्रत्यक्षो न भवति शास्त्राद्युपदिष्टस्यार्थ- स्यैकदेशोऽपि, तावत् सर्वं परोक्षमिवापवर्गादिषु सूक्ष्मेष्वर्थेषु न दृढां बुद्धि- मुत्पादयति । तस्माच्छास्त्रानुमानाचार्योपोद्बलनार्थमवश्यं कश्चिद्विशेषः प्रत्यक्षीकर्तव्यः ॥

व्यासभाष्यम्

 तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आ अपवर्गात् श्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म निर्दिश्यते । अनियतासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायामुपजातायां समर्थं स्यात् तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति ।

 तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति ॥ ३५ ॥

 विशोका वा ज्योतिष्मती ॥ ३६ ॥

विवरणम्

 तत्र शास्त्राद्युपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयमपि आ अपवर्गाच्छ्रद्धीयते । एतदर्थमेवेदं चित्तपरिकर्म यदेतत् ‘मैत्रीकरुणा’ इत्यादिना ‘परमाणुपरममहत्त्वान्तोऽस्य वशीकारः’ इत्येवमन्तेन प्रकरणेन यमनियमासनविशिष्टस्य चित्तपरिकर्मोपदिश्यते ॥

 तदेतदुक्तं भवति—एतत्प्रकरणोपदिष्टानामुपायानामन्यतमानुष्ठानात् प्रत्यक्षीकृतैकदेशतया विधूत(विध्मात)संशयं तु आ अपवर्गात् दृढावस्थितश्रद्धानादि प्रशान्तबहिर्वृत्ति उपस्थितवशीकारसंज्ञावैराग्यं तस्य तस्य तृतीयपादोपदिष्टपरिणामत्रयादेरर्थस्य प्रत्यक्षीकरणाय समर्थं स्यात् ज्ञानविभूत्यादिप्राप्यर्थमिति । ततश्चैवमर्थं चित्तपरिकर्मोपदिश्यत इति प्रकरणार्थः । तथा च भाष्यकारः प्रदर्शितवान्—‘एतदर्थमेवेदं चित्तपरिकर्म’ इत्येवमादिना ॥ ३५ ॥

 विशोका वा ज्योतिष्मती प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनीति प्रकृतमभिसंबध्यते । ज्योतिर्यस्यां विद्यते प्रवृत्तौ सा ज्योतिष्मती । सा च शोकं व्यपगमयतीति विशोका नाम ॥

 सा च कथमुपजायत इत्याह—हृदयपुण्डरीके धारयतो बुद्धिसंवि- द्भवति स्वरूपसंवेदनम् । बुद्धिसत्त्वं हि किंरूपमित्याह—बुद्धिसत्त्वं हि प्रभास्वरं प्रभासनशीलमाकाशकल्पं व्यापि । यत्र यस्मिन् बुद्धिसत्त्वे ॥

व्यासभाष्यम्

 प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनीत्यनुवर्तते । हृदयपुण्डरीके धारयतो या बुद्धिसंवित्, बुद्धिसत्त्वं हि प्रभास्वरमाकाशकल्पम्, तत्र स्थितिवैशारद्यात् प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते । तथा अस्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति ।

 यत्रेदमुक्तम्—‘तमणुमात्रमात्मानमनुविद्यास्मीत्येवं तावत्संजानीते’ इति । एषा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिज्योतिष्मतीत्युच्यते । यया योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३६ ॥

 वीतरागविषयं वा चित्तम् ॥ ३७ ॥

विवरणम्

 स्थितिवैषम्यादिति । बुद्धिसत्त्वात्मतासाम्यानापत्तेरिति । हृदयपुण्डरीक एव धारयतः प्रवृत्तिर्ज्योतिष्मती सूर्येन्दुमणिप्रभारूपाकारेण विकल्पते । तथा चास्मितायाम् अहङ्कारे समापन्नं स्यात् बुद्धिसत्त्वं स्वरूपेण साम्यापत्ते- र्निस्तरङ्गमहोदधिकल्पं शान्तमनन्तमस्मितामात्रं भवति ॥

यत्रेदमुक्तं यत्रास्मितासमापत्तौ । तं एतं प्रकृतमस्मितात्मानमहङ्कारम् अणुं सूक्ष्मम् आत्मानमनुविद्य प्राप्य अस्मीत्येवं तावत्संजानीत इति । यादृशमा- लम्बनस्वरूपं तावन्मात्रं सञ्जानीते । अहङ्कारस्वरूपेणैव तदानुरूप्यादवच्छिद्यते, स्फटिकमणिरिवोपधानरूपेण । एवं द्वयी विशोका प्रवृत्तिर्विषयवती चास्मिता- मात्रा च । तत्र गन्धसंविदादिरस्मितामात्रान्ता सर्वा विशोकैव । ज्योतिष्मती पुनर्गन्धसंविदादिप्रवृत्तिपञ्चतयादन्यत्र । विषयवती त्वस्मितामात्रात् प्रागेवेत्येवं विषयविभागः । यया विशोकया ज्योतिष्मत्या योगिनश्चित्तं स्थितिपदं लभते ॥ ३६ ॥

 वीतरागविषयं वा चित्तं वीतो रागो यस्मात् प्रत्ययात् स वीतरागः रागशून्य इत्यर्थः । स एष विषय आलम्बनं यस्य चित्तस्य तद्वीतरागविषयम् । वीतरागश्च प्रत्ययः प्रसिद्धो लोके । रागिणोऽपि हि पुरुषस्य रागकारणेऽपि विषये, यः स्त्रीषु मात्रादिषु । स एव प्रत्ययः [तमेव प्रत्ययं] वीतरागः [गं] आलम्बनत्वे-

व्यासभाष्यम्

 वीतरागचित्तालम्बनोपरक्तं वा योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३७ ॥

 स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८ ॥

व्यासभाष्यम्

 स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा तदाकारं योगिनश्चित्तं स्थितिपदं लभत इति ॥ ३८ ॥

 यथाऽभिमतध्यानाद्वा ॥ ३९ ॥

व्यासभाष्यम्

 यदेवाभिमतं तदेव ध्यायेत् । तत्र लब्धस्थितिकमन्यत्रापि स्थितिपदं लभत इति ॥ ३९ ॥

विवरणम्

नाभ्यस्येत् ; न तु तस्य यो विषयः आलम्बनम् । विषयाणां खलत्वात् । तत् वीतरागप्रत्ययालम्बनोपरक्तं चित्तं तद्वदेव वीतरागं प्रसन्नतरं स्थितिपदं लभते । रागादिखलीकृतं हि कृतखलीनमिव तुरङ्गमाननं प्रचलति ॥ ३७ ॥

 स्वप्ननिद्राज्ञानालम्बनं वा । स्वप्नज्ञानालम्बनं वा निद्राज्ञानालम्बनं वा चित्तं तदाकारमेव भवति । एवंस्वभावं हि चित्तं यदालम्बते तदाकारं भवति । स्वप्ने च शब्दादिविषयशून्यं ज्ञानम् । ज्ञानस्यापि स्वभावोऽवभासकता । तत्रापि ज्ञानस्वरूपमेवालम्बते । न तु स्मर्यमाणविषयस्वरूपम् । स्मर्यमाणेनापि विषयेण खलीकारो दृश्यते । निद्राज्ञानं तु विशेषाग्रहणात्मकमभावप्रत्ययालम्बनं शान्तमनन्तमनुभूयमानाचलनधर्मकम् । ततश्च तदालम्बनं सच्चित्तं स्थितिपदं लभत इति युक्तम् ॥ ३८ ॥

 यथाभिमतध्यानाद्वा । यदेवाभिमतमिति चित्तस्थित्यपेक्षया । चित्तस्थितेः प्रकृतत्वात् । न तु सुखाद्यपेक्षया । प्रतिषिद्धत्वाच्च—“न त्वेव विषयान् प्राप्य धारयेत कथंचन” इति । तत्र लब्धस्थितिकं कर्मण्यं सत् अन्यत्र शास्त्रीयेषु अपि स्थितिपदं लभते ॥ ३९ ॥

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ ४० ॥

व्यासभाष्यम्

 सूक्ष्मे निविशमानस्य परमाण्वन्तं स्थितिपदं लभत इति । स्थूले निविशमानस्य परममहत्त्वान्तं स्थितिपदं चित्तस्य । एवं तामुभयीं कोटिमनुधावतो योऽस्याप्रतीघातः स परो वशीकारः । तद्वशीकारात् परिपूर्णं योगिनिश्चित्तं न पुनरभ्यासकृतं परिकर्मापेक्षत इति ॥ ४० ॥

 अथ लब्धस्थितिकस्य चेतसः किंस्वरूपा किंविषया वा समापत्तिः ? इति—तदुच्यते—

 क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ ४१ ॥

विवरणम्

 परमाणुपरममहत्त्वान्तोऽस्य वशीकारः । अन्तशब्दः प्रत्येकं संबध्यते । सूक्ष्मे निविशमानस्य परिमाणे निविशमानस्य योगिना संक्षिप्यमाणस्य । अभ्यासकाले स्वल्पमल्पतरं च क्रमेणालोचयत्परमाण्वन्तं संक्षिप्यते । स च परमाणुश्चित्तस्य संक्षेपकोटिः । तेन तदन्तं स्थितिपदम् ॥

 इत्थमुभयकोटिमनुधावतश्चित्तस्य संक्षेपं विस्तारं चानुभवतो यः तद्विरोधिना प्रत्ययान्तरेण अप्रतिघातः स परो वशीकारः । पूर्वेऽपि परे एव । तथाऽप्यस्यायं विशेषः । तद्वशीकारात् परिपूर्णम् अनवखण्डितं लब्धस्थितिकं न पुनरभ्यासकृतं परिकर्मापेक्षत इति । पूर्वे तु कियदपि परिकर्मान्तरमपेक्षन्ते ॥

 तत्र संक्षिप्ता विशाला विकरणी चेति त्रयी धारणा । तत्रोभयकोटि- स्पर्शिनी विकरणी । परममहत्त्वान्तस्पृग्विशाला । परमाण्वन्तस्पृक् संक्षिप्ता । सा च त्रय्यपीह सूत्रोपात्ता ॥ ४० ॥

 अथ लब्धस्थितिकस्य चेतसः अथ उक्तानामन्यतमेनोपायेन लब्धस्थितिकस्य किंस्वरूपा किंविषया वा समापत्तिरिति तन्निदिदर्शयिषयेदं सूत्रं प्रववृते—क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥

13

व्यासभाष्यम्

 क्षीणवृत्तेरिति प्रत्यस्तमितप्रत्ययस्येत्यर्थः । अभिजातस्येव मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात् तत्तद्रूपोपरक्त उपाश्रयरूपाकारेण निर्भासते, तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते ।

 भूतसूक्ष्मोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपाभासं भवति । तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति ; तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति ॥

विवरणम्

 ननु च समापत्तेर्विषयं वक्ष्यति तृतीयपादे ‘परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्’ इत्यादिना । समापत्तिस्वरूपं च संयमस्वरूपं तत्कार्यनिर्वर्तनेनैव सेत्स्यति । ततश्चानर्थकमिदं सूत्रम्—नैष दोषः—पूर्वोक्तोपायवशीकारणार्थवत्त्वप्रदर्शनार्थत्वात् । एवं ह्येष चित्तवशीकारोऽर्थवान्, येन ग्रहीत्राद्यर्थसमापन्नं चित्तं तदाभासं भवतीति ॥

 किञ्च—‘वितर्काद्यनुगमात् संप्रज्ञातः’ इत्युक्तम् वितर्कादिस्वरूपं चेह दर्शयितव्यम् । अनुक्तायां समापत्तौ वितर्कादिस्वरूपं न शक्यं दर्शयितुं समापत्तिधर्मा(दि)वितर्कादय इति । क्षीणवृत्तेरिति प्रत्यस्तमितबाह्यप्रमाणादिप्रत्ययस्येत्यर्थः ॥

 ननु सर्व एव प्रत्ययाः प्रत्यस्तमिताः । सर्वप्रत्यस्तमये हि अवसिताधिकारं न स्थूलसूक्ष्मादिकमालम्बते ॥

 अभिजातस्येव मणेरिति दृष्टान्तोपादानम् । यथा स्फटिक उपाश्रयभेदात्तत्तद्रूपोपरक्त उपाश्रयाकारेण निर्भासते । तथा ग्राह्यालम्बनोपरक्तं चित्तं ग्राह्यसमापन्नं ग्राह्यस्वरूपाकारेण निर्भासते ॥

 तथा भूतसूक्ष्मोपरक्तं तन्मात्रोपरक्तं भूतसूक्ष्मसमापन्नं भूतसूक्ष्मस्वरूपावभासम् अवभासते ॥

 [तथा स्थूलालम्बनोपरक्तं स्थूलरूपसमापन्नं स्थूलरूपाभासं भवति । तथा विश्वभेदोपरक्तं विश्वभेदसमापन्नं विश्वरूपाभासं भवति ॥

 तथा ग्रहणेष्वपीन्द्रियेष्वपि द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते ॥]

व्यासभाष्यम्

तथा ग्रहणेष्वपि इन्द्रियेष्वपि द्रष्टव्यम् । ग्रहणालम्बनोपरक्तं ग्रहणसमापन्नं ग्रहणस्वरूपाकारेण निर्भासते । तथा ग्रहीतृपुरुषालम्बनोपरक्तं ग्रहीतृपुरुषसमापन्नं ग्रहीतृपुरुषस्वरूपाकारेण निर्भासते ॥

तथा मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तपुरुषस्वरूपाकारेण निर्भासत इति ।

विवरणम्

तथा ग्रहीतृपुरुषसमापन्नं बुद्धिबोधकस्वरूपमित्यर्थः । ग्रहीतृस्वरूपाकारेण निर्भासते ॥

तथा मुक्तपुरुषालम्बनोपरक्तमिति । स एव बुद्धेर्बोद्धा यदा विषयवृत्तीनां न बोद्धा भवति तदा सत्त्वपुरुषान्यताख्यातिमात्रावस्था ॥

यदा उदासीनो मुक्तपुरुष इत्युच्यते तदा हि सर्वक्लेशादिमुक्तं चित्तं, सैव हि पुरुषस्य मुक्तता, या क्लेशादिविमुक्तिश्चित्तस्य । अत एव सूत्रे ग्रहीतृग्रहणमेव कृतम् । ग्रहीता पुरुषविशेष एव मुक्तपुरुष इहाभिप्रेत इति ॥

त[दा]था हि पुरुषग्रहणमेव कुर्यात् । परस्यां वशीकारसंज्ञायां जातायां न पुनः संसारयोगो भवति । तथा चोक्तम्—‘सत्येव चित्तसत्त्वसम्बन्धे क्लेशादिसम्बन्धाभावात् स तु सदैव मुक्तः सदैवेश्वरः’ इति ॥

तस्मात् मुक्तपुरुषालम्बनोपरक्तं मुक्तपुरुषसमापन्नं मुक्तस्वरूपाकारेण निर्भासत इति । यो हि मन्यते निवृत्तसत्त्वसम्बन्धेनैव मुक्तेन पुरुषेण समापन्नं तदाकारमेव निर्भासत इति—तदयुक्तम्—चित्तस्य स्वात्मप्रलयप्रसङ्गात् ॥

निरतिशयसूक्ष्मश्च पुरुषस्तत्समसूक्ष्मं प्रधानं तत्कार्यकार्यकार्यं (निमित्तं) सत्त्वं, तच्चित्तं प्रधानं पुरुषं वा समापद्यमानं न स्थितेन स्वेन रूपेण समापत्तुमुत्सहते । न हि घटो मृदवस्थामपरित्यक्तस्वरूपः समापद्यते ॥

ननु च कार्येणापि योगिसत्त्वेन महदहङ्कारौ संवेद्यावुच्येते । महति तावद्विप्रतिपत्तिः, संवेद्यते न वेति । यदा हि संवेद्यता ग्रहीतृमुक्तस्वरूपवत् संबन्धविशेष उपपद्यते महदहङ्कारयोरपि । व्यक्तौ हि तौ ततः संबन्धविशेषो

 युज्यते । संबन्धविशेषाच्च यथा स्वपुरुषो ग्रहीतृस्वरूपश्च मुक्तश्च चित्तवृत्तिविशेषसंबन्धात् गृह्यते तद्वत् । न तु सर्वात्मनैव महदहङ्कारयोरपि ग्रहणं महत्त्वात् ॥

 तयोरपि [तावपि] यदि सर्वात्मना गृह्येयाताम्, चित्तसत्त्वमात्रात्मानौ जायेयाताम्, तथा च सति तद्विषयग्रहणमेव न स्यात् । प्रधानपुरुषयोस्तु तत्संबन्धस्य चात्यन्तमव्यक्तस्वरूपत्वान्न स्वरूपग्रहणम् ॥

 ननु चेश्वरस्यासर्वज्ञता, [यतः] प्रधानपुरुषतत्संबन्धा न प्रत्यक्षा इति । उच्यते—प्रधानपुरुषसंबन्धेभ्योऽन्यत्सर्वं प्रत्यक्षमित्यत्र तावत् अविप्रतिपत्तिः, निरवधिकप्रत्यक्षज्ञानाभ्युपगमात् । (यत्र त्वनुमानागोचरः) [यत्तु अस्माकमगोचरः तत्] स एवेश्वरो ज्ञातुमर्हति । ज्ञेयं चेदस्ति तत्सर्वमसौ यथा वा तथा वा जानातीति निश्चयः । अज्ञातृकस्य ज्ञेयत्वानुपपत्तेः ॥

 किञ्च—यदि प्रकृतिपुरुषौ स्वरूपेण ज्ञेयत्वमा(ना)पद्येयातां तदा बुद्धिवद्भोग्यताप्रसङ्गः । ततश्च परार्थोऽपि स्यात् परश्चान्यः कल्प्यः स्यात् ॥

 ननु पुरुषाणामन्योन्यभोग्यतेति न परो भोक्ता कल्प्यः—नैतदेवम्—समत्वात् पुरुषाणां विषयविषयित्वानुपपत्तेः । न हि प्रदीपावन्योन्यमुपकुरुतः ।

 किञ्च—भोग्यत्वे सुखादिरूपताप्रसङ्गश्च पुरुषस्य । तथा च सति प्रधानस्य निर्हेतुकत्वप्रसङ्गश्चेत्येवमादयो भूयांसो दोषाः ॥

 ननु च ‘परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्’ इति पुरुषप्रत्यक्षतां वक्ष्यति—सत्यं युक्तमुक्तम् । अत एवोच्यते पुरुषो न स्वरूपेण विषयीभवतीति । येनैवं तत्रोक्तम् ‘न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते । पुरुष एव तं प्रत्ययं स्वालम्बनं पश्यतीति । तथा ह्युक्तम्—‘विज्ञातारमरे केन विजानीयात्’ इतीति ॥

 ननु पुरुषालम्बनोपरक्तं चित्तं पुरुषस्य विषयः । तथा च सति प्रत्यक्ष एव पुरुषः । यथा घटालम्बनोपरक्ते प्रत्यये पुरुषेणोपलभ्यमाने घटः प्रत्यक्ष उच्यते—नैष दोषः—घटवत्पुरुषस्य चित्तेनाव्याप्यत्वात् । घटादिस्तु बाह्यश्चित्तेन व्याप्यते, न पुरुषः; आनन्त्यात् ॥

१०१
समाधिपादः प्रथमः
व्यासभाष्यम्

 तदेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु या तत्स्थतदञ्जनता तेषु स्थितस्य तदाकारापत्तिः सा समापत्तिरित्युच्यते ॥ ४१ ॥

विवरणम्

 परिच्छिन्नं हि चित्तं विषयीकुर्वन्न पुरुषं विषयिणमनन्तं व्याप्तुमुत्सहते । यदि पुरुषं व्याप्नोति प्रधानमपि व्याप्नुयात् ॥

 तस्माद्यथा दर्पणे मुखं छायारूपेण गृह्यते, तथा पुरुषच्छायाकारेण परिणतः प्रत्ययो गृह्यते पुरुषेण । तथा च व्यासः ‘यथाऽऽदर्शतलप्रख्ये पश्यत्यात्मानमात्मनि’ ॥ इति ।

 न तु मुक्तान्यपुरुषाकारेण परिणतौ द्वारमस्ति । यदि तदाकारेण परिणमेत, मुक्तस्यापि तत्स्वमेवेति दृश्यं स्यात् । न हि चित्तस्य परिणामादन्यत्वं नामास्ति । स्वाकारेण हि परिणतं पुरुषो न तु चित्तं न पश्यति । स्वपुरुषे स्वत्वात्सति संबन्धे परिणतिद्वारमस्ति ॥

कथं तर्हि स्वपुरुषादन्यस्य स्वत्वासंबन्धिनो ग्रहणम्—उच्यते—यथा परदर्पणद्वारेण परमुखदर्शनं, तथा दर्पणस्थानीयपरसत्त्वाकारपरिणतं स्वसत्त्वं पुरुषः पश्यन् परमपि पुरुषं जानाति ॥

 तस्यायमात्मा ममायमित्यन्यत्वन्त्वनुमानादेव प्रतिपद्यते स्वकीयादन्यदीयसत्त्वगतविशेषलिङ्गेन । सत्त्वानां च त्रिगुणत्वादवश्यं विशेषाः सन्ति । पुरुषाणां तु निर्विशेषत्वात्स्वरूपेण भेदो दुरवबोध एव ॥

 तस्मादेवमभिजातमणिकल्पस्य चेतसो ग्रहीतृग्रहणग्राह्येषु पुरुषेन्द्रियभूतेषु तत्स्थतदञ्जनता । तेषु ग्रहीत्रादिषु तिष्ठतीति तत्स्थं तत्स्थताविशिष्टा या ग्रहीत्राद्यञ्जनता, तदेवाह—तेषु स्थितस्य तदाकारापत्तिः समापत्तिरित्युच्यते ॥

 सम्यगापत्तिः समापत्तिः सा च तादृशी प्रत्यस्तमितबहिर्वृत्तेरेव भवति । यद्यपि व्युत्थितचित्तस्यापि समापत्तिरस्ति । तथाऽपि सा न समीचीनतरा, रजस्तमोभ्यां चित्तसत्त्वस्यात्यन्ताभिभूतत्वादिति ॥ ४१ ॥

तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ ४२ ॥

व्यासभाष्यम्

 तद्यथा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानं इत्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये शब्दधर्मा अन्ये अर्थधर्माः अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्का इत्युच्यते ॥ ४२ ॥

विवरणम्

 सैषा समापत्तिश्चतुष्टयी । तत्र प्रथमां समापत्तिं व्याचष्टे—शब्दार्थ- ज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः । शब्दश्चार्थश्च ज्ञानं च शब्दार्थज्ञानानि तेषां विकल्पाः शब्दार्थज्ञानविकल्पाः । ध्यातव्यालम्बन- विषयैर्विकल्पैः संकीर्णा विमिश्रा इतरेतरप्रत्ययानुविद्धा सा संकीर्णसमापत्तिः ॥

 ननु च शब्दार्थप्रत्यया इतरेतरव्यावृत्तस्वरूपाः, योगी चैकं वस्तु ध्येयत्वेनालम्बते शब्दमर्थं प्रत्ययं वा, तत्र कः शब्दार्थज्ञानविकल्पसङ्करः ? ॥

 एवमेवैतत् । तथाऽपि अयमेव संव्यवहारो लोके, यदुताविभागेन ग्रहणम् । तद्यथा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन लोके ग्रहणं दृष्टम् । एवं हि लोकः त्रयमपि गौरित्येव व्यपदिशति । तथाऽन्यत- रग्रहणेऽवशिष्टयोरपि स्मृतिः ।

 ननु च तथाभूतमेतद्वस्तु—नैवं—शब्दार्थसङ्केतग्रहणोत्तरकालभावित्वात् । ननु सङ्केतादपि प्राक् सामान्यशब्दं यं कश्चिदध्यवस्यत्येव—न—विविक्तानामपि ग्रहणदर्शनात् । विविच्यमानाश्चान्ये शब्दधर्मा गकारादिवर्णोदात्त- स्वरितद्रुतमध्यविलम्बितश्रोत्रग्रहणादयः । ते नार्थज्ञानयोः । तथान्येऽर्थधर्माः सास्नालाङ्गूलककुदखुरविषाणदर्शनस्पर्शनादयः । तथा (च)अन्ये प्रत्ययधर्माः पुरुषग्राह्यात्मकत्वावभासात्मकत्वसंस्काराधायित्वादयः, न ते शब्दार्थयोः । न [तेन]परमार्थतोऽन्योन्यधर्मसङ्करगन्धोऽप्यस्ति । तेन विविक्तः पन्थास्तेषाम् ॥

 तत्र यत्र क्वचन समापन्नस्य यो ह्येवार्थः समाधिप्रज्ञामुपारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्धः शब्दार्थसङ्केतकृतो य इतरेतरस्मृत्यनु- व्याधस्तद्विशिष्टश्चेदर्थ उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते ॥

व्यासभाष्यम्

 यदा पुनः शब्दसंकेतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थः तत्स्वरूपाकारमात्रतयैवावच्छिद्यते । सा च निर्वितर्का समापत्तिः । तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयो- र्बीजम् । ततः श्रुतानुमाने प्रभवतः । न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम् । तस्मादसंकीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति ।  निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते—

विवरणम्

 अनेकजन्मान्तरशब्दार्थसङ्केतज्ञानसंस्कारविशिष्टत्वाद्योगिनोऽपि प्रथमतरा समापत्तिर्लोकप्रत्ययाविशिष्टा । एष तु विशेषो यत् लब्धस्थितिपदत्वाद्योगिचित्तस्य समानप्रत्ययप्रवाहतेति ॥ ४२ ॥

 इदानीं निर्वितर्का समापत्तिरुच्यते । यदा पुनः शब्दसङ्केतस्मृति- परिशुद्धौ । शब्दसङ्केतोऽस्यायं वाचकः अयमस्य वाच्य इति समयप्रतिपत्तिः । तज्जनितस्मृतिः शब्दसङ्केतस्मृतिः । तस्याः परिशुद्धिर्मिथ्यात्वाद्विनिवृत्तिः । सा रजस्तमसोर्न्यग्भावात् ॥

श्रुतज्ञानं आगमिकम्, अनुमानज्ञानं लैङ्गिकं, ते च सामान्यविषय एवानुमानागमज्ञाने, तयोर्विकल्पो हि विशेषाध्यारोपः । तेनाध्यासेन शून्यायां योगिनः समाधिप्रज्ञायां व्यावृत्तलैङ्गिकसाङ्केतिकज्ञानाध्यासायां स्वरूपमात्रेण मात्रग्रहणं दिग्देशकालानुभावादिभ्योऽपि व्यावृत्त इत्येवमर्थं, स्वैरेव धर्मैर्महीयमानः तत्स्वरूपमात्रतयैव तस्यार्थस्य स्वरूपमात्रतयैव योगिनः प्रज्ञा अवच्छिद्यते । न तस्मादर्थाद्बहिर्देशकालादि किंचिदालोचयतीत्यर्थः ॥

 स्वमपि ग्रहणात्मकं रूपं तत्प्रज्ञा नालोचयति, निर्मलतरत्वात् । ग्राह्यमात्रैव सा विभाव्यते । सा च तादृशी निर्वितर्का समापत्तिः । निर्गतो वितर्कोऽस्याः निर्वितर्कः वितर्कोऽध्यारोपः । सोऽस्यां नास्ति ॥

 तत् एतत् परं उत्कृष्टं शुद्धं प्रत्यक्षं अपरं प्रत्यक्षं सर्वसाधारणं पुरस्ताद्वृत्तिमध्ये पठितमिदं योगिन एवेति । तच्छ्रुतानुमानयोर्बीजम् । यद्यपि पूर्वोक्तमपि श्रुतानुमानयोर्बीजमेव, तथाऽपि तत्कार्ये श्रुतानुमाने व्यभिचरतोऽपि, न पुनर्निर्वितर्कसमाधिजप्रत्यक्षप्रभवे व्यभिचरत इत्यत आह—ततः श्रुतानुमाने प्रभवत इति ॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥४३॥

व्यासभाष्यम्

 या शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूपो- परक्ता प्रज्ञा स्वमिव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति । सा तदा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् ।

विवरणम्

 न च (ननु) श्रुतानुमानज्ञानसहभूतं तद्दर्शनम्, श्रुतानुमानज्ञाना- भ्यामसमानविषयमित्येतत् । विशेषविषयं हि तद्दर्शनं, सामान्यविषये श्रुतानुमान- ज्ञाने । तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कजं दर्शनमिति (तन्निर्वितर्कायाः तदिति तस्मादिति) समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते— स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासानिर्वितर्का ॥

 शब्दसङ्केतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ शब्दसङ्केतविकल्पः श्रुतज्ञानविकल्पः अनुमानज्ञानविकल्पश्च, स एव स्मृतिः । स्मरणेन ह्यन्यस्यान्यधर्मोऽध्यारोप्यते । न हि वस्तु स्वरूपेण वस्त्वन्तरेऽध्यारोपयितुं शक्यम् ।  ननु च कथं श्रुतानुमिते प्रत्यक्षेऽध्यारोप्येते । ननु च प्रसिद्धोऽध्यारोपः, तथा चेदं मया श्रुतमिदं मयाऽनुमितमिदमिति च पश्यति ॥

 ननु तदेव तत् दृश्यमानमपि यदनुमितं श्रुतं च—न—सामान्य- विशेषभेदात् । सामान्यं श्रुतमनुमितं च । विशेषस्तु प्रत्यक्षस्य विषयः । तस्मिंश्च तत्सामान्याध्यासः प्रसिद्ध एव ॥

ग्राह्योपरक्ता योगिनः प्रज्ञा स्वं प्रज्ञारूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वभावा ग्राह्यस्वरूपापन्नेव भवति । इवशब्देन ग्रहणात्मकतां न जहातीति । न हि स्फटिक उपाध्याश्रयतायां स्वां स्वच्छरूपतां हास्यति । किञ्च—ग्रहणव्यतिरिक्तं च ग्राह्यं वस्त्वन्तरमस्तीति चोक्तं भवति ॥

 सा निर्वितर्का समापत्तिः । तथा च व्याख्यातम् । तस्या ह्येकबुद्ध्युपक्रमोऽर्थात्मा । उपक्रम्यते एकया बुद्ध्या यः स एकबुद्ध्युपक्रमः एकबुद्धि- परिच्छेद्य इति । अर्थात्मा बोध्यात्मेत्येतत् ॥

व्यासभाष्यम्

 तस्या एकबुद्ध्युपक्रमो ह्यर्थात्मा अणुप्रचयविशेषात्मा गवादिर्घ- टादिर्वा लोकः । स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्मः

विवरणम्

 गवादिर्घटादिर्वा विषयः न तु बोध एव गवाद्याकारो विषयः । अणुप्रचयविशेषात्मा अणूनां तन्मात्रावयवानां प्रचयविशेष आत्मा यस्य स गवादिर्घटादिर्वा आलम्बनं बुद्धेः स च विषयः संस्थानविशेषः तथा संस्थितानि हि तानि भूतसूक्ष्माणि ॥

एतदुक्तं भवति—भूतसूक्ष्माणां साधारणो धर्म इति आत्मभूतो न व्यतिरिक्तः । यथा सर्पस्य आभोगकुण्डलनादि ॥

 येषां पुनरत्यन्तव्यतिरिक्तमन्यदेव कारणात् कार्यं, तेषां कारणतन्त्रत्वं कार्यस्य न प्राप्नोति । अंशुतन्त्रो हि तन्तुः तन्तुतन्त्रश्च पटः । न चात्यन्ता- न्यत्वेऽन्यतन्त्रत्वं दृष्टमन्यस्य । यथा मृत्पिण्डतन्त्रता न पटस्य, तन्तूनां वा ॥

 किञ्च—तद्विनाशानुविनाशित्वं च न शक्यं, न हि कपालविनाशमनु विनश्यति पटः ॥

 अथोच्येत, सम्बन्धः कारणमिति । पटस्य हि तन्तवस्तन्तूनाञ्चांशव इति सम्बन्धस्तत्र हेतुः कारणं तत्तन्त्रत्वतदनुविनाशयोरिति ॥

 अत्रोच्यते—चैत्रक्षेत्रादिसम्बन्धेऽपि प्रसङ्गः स्यात् । चैत्रस्यापि क्षेत्रादि- तन्त्रता तदनुविनाशित्वं च सम्बन्धविशेषात् प्रसज्येत ॥

 अथापि स्यात्—समवायलक्षणः सम्बन्धः कारणमिति—न—तस्यापि संबन्धत्वाविशेषादहेतुत्वं, यथान्यसंबन्धः संबन्धिनोरन्यतरतन्त्रत्वाद्यहेतुः । एवं समवायलक्षणस्यापि संबन्धत्वादन्यतरतन्त्रत्वादावहेतुत्वम् ॥

 अपि च—न द्रव्यव्यतिरेकेण कर्मसामान्यविशेषसमवायाः सन्ति । द्रव्यतन्त्रत्वाद्युपपत्तेरेव । तत्रापि सम्बन्धस्याप्यहेतुत्वमेव ॥

 किञ्चान्यत्—संबन्धस्य च संबन्धिनोरेवान्यतरतन्त्रत्वादिहेतुत्वे समवायस्यापि समवायान्तरं तस्याप्यन्य इत्यनवस्था प्रसज्येत । यथा गुणादीनां समवायलक्षणात् संबन्धात् द्रव्यतन्त्रत्वं, तथा समवायस्यापि द्रव्यव्यतिरिक्तत्वे द्रव्यतन्त्रत्वार्थं समवायान्तरं कल्प्येत, तस्याप्यन्यत्तस्याप्यन्यदित्यनवस्था स्यात् ॥ 14


 प्रागुत्पत्तेरभावात् कार्यस्य कारणेन संबन्धानुपपत्तिः, अविशिष्टं चासत्त्वं शशविषाणस्य घटस्य च । तत्र घटेनैव कारणस्य संबन्धो न शशविषाणादिभिरिति हेतुर्वदितव्यः ॥

 प्राक् असन्नोत्पद्येत शशविषाणवत् । यस्तु तन्तुभ्योऽन्यः स तन्तुभ्यो नोत्पद्यते, तन्तुभ्योऽन्यत्वात् । यथा तन्तुभ्यो घटः ॥

 इतर आह—प्राक् सन्नपि नोत्पद्येत, सत्त्वात्, विद्यमानघटवदिति । यो यस्मादनन्यः सोऽपि तस्मान्नोत्पद्यते, विद्यमानत्वात्, स्वरूपवदिति ॥

 अपर आह—यदि सन्नोत्पद्यत इति सत उत्पत्त्यभाव उच्येत, सिद्ध साध्यता स्यात् । अथाभिव्यक्त्यभावः, तदा दृष्टान्ताभावः ॥

 यदप्युच्यते यो यस्मादनन्य इति, तत्रापि सिद्धसाध्यता दृष्टान्ताभावश्च । स्वरूपादेव ह्यभिव्यज्यते, नासत्यभिव्यङ्ग्यस्वरूपेऽभिव्यक्तिरभिव्यञ्जकसहस्रेणापि शक्यते कर्तुम् ॥

 किञ्चान्यत्—सर्वव्यवहारलोपश्च । कथं ? यदा देवदत्तस्य गौरश्वो वा प्रातर्विद्यमानकर्णलाङ्गूलः पुनरटवीं गतः केनचिल्लूनकर्णो लूनलाङ्गूलो वा स्यात्, तदा पूर्वावयवविभागाद्विनष्टः, अन्यस्तु नवः प्रलूनकर्णलाङ्गूलोऽस्वामिकः सञ्जात इति येन केनचिदुपादीयेत, तथा चावयवविभागः सर्वत्र सम्भवतीति स्वस्वामिसम्बन्धादिनियमाभावादशेषव्यवहारलोपः स्यात् ॥

 अथ ब्रूयात्—पूर्वोपार्जितावयवैरेवावयवी नवः प्रलूनकर्णलाङ्गूल आरब्ध इति—नैवम्—न हि मातापित्रादिव्यतिरेकेणेदानीन्तनलूनकर्णलाङ्गूलावय- व्यन्तरप्रत्यारम्भिणो दृश्यन्ते ॥

 किंच—यस्य च क्षेत्रे लूनकर्णलाङ्गूलो जातस्तस्यैवासौ स्यात्, न पूर्वावयविकस्य, तत्क्षेत्रजाततृणपलाशादिवत् ॥


 यथा चान्यक्षेत्रगतानि बीजानि सलिलौघेनान्यक्षेत्रमुपनीतानि चेत्तत्तद्बीजनिष्पन्नसस्यं क्षेत्रवानेव गृह्णाति, न तु पूर्वबीजवान् (तः) । न चास्यासौ प्रतिबध्नाति विद्वानपि मदीयबीजपरिनिष्पन्नं सस्यमहमुपादीयेति ॥

 तथा लूनकर्णलाङ्गूलमपि क्षेत्रवानेव गृह्णीत । न तत्र प्रतिबन्ध(रूप) नीयं मदीयावयवैरारब्धोऽयमवयवीति ॥

व्यासभाष्यम्

आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति । धर्मान्तरस्य कपालादेरुदये च तिरोभवति । स एष धर्मोऽवयवीत्युच्यते । योऽसावेकश्च महांश्चाणीयांश्च स्पर्शवांश्च क्रियाधर्मकश्चानित्यश्च तेनावयविना व्यवहाराः क्रियन्ते ।

विवरणम्

 येषामप्येकस्मिन्गृहीते तस्मिन्नश्वे लूनकर्णलाङ्गूलके जाते स्वक्षेत्रे च दृष्टे स एवाश्वदाता अन्योऽयं (वितिसन्योयं) महत्तमादश्वान्मया दत्तो महत्तम इति हरेत । हृरतामिति चेत्सर्वव्यवहारलोपप्रसङ्गः शास्त्रकोपश्च । तस्माद्[नन्योऽ]वयवेभ्यः कारणेभ्य एकोऽवयवी कार्यमिति सिद्धम् ॥

 यदप्युच्यते—शब्दप्रत्ययधर्मादिभेदादन्य इति, तदप्ययुक्तम् । दृश्यते हि शब्दादिभेदेऽप्यनन्यत्वम् । यथा हस्तः करः पाणिरिति शब्दभेद एकस्य, पितृत्वं पुत्रत्वं च, प्रत्ययभेद एकस्यैव बद्धः पुनर्मुक्तः स्थितो गतश्चेति कालभेदात् । दाहकत्वं पाचकत्वमित्यादयो धर्मभेदा इति । दिग्देशादिभेदास्त्वसिद्धा एव । तस्मादाह—आत्मभूता इति ॥

  स च स्वफलेन व्यक्तेनानुमितः । फलेन उदकाहरणधारणसम्भवनादिना । यस्य हि फलं कार्यं व्यक्तमुपलभ्यते सोऽस्तीति निश्चयः । अनुमित इति विप्रतिपन्नापेक्षया, साधारणशब्देन शक्तिरूपेण वोच्यते । स तु प्रत्यक्ष एव अव्यक्तेन दण्डसूत्रकुलालादिकारकव्यापाराभिव्यक्तेन फलेन कार्येण घटाख्येन प्रागपि मृदाद्यवस्थायामस्तित्वेन अनुमितः स एव दण्डादिकारकैः स्वव्यञ्जकैरभिव्यज्यमानः प्रादुर्भवति धर्मान्तरोदये च तिरोभवति स एष भूतसूक्ष्माणां धर्मोऽवयवीत्युच्यते ॥

 एतदुक्तं भवति—अणूनामप्रत्यक्षत्वान्नाविर्भावतिरोभावौ युक्तौ । (तत)स्तश्च तौ । तस्माद्य आविर्भवति, धर्मान्तरोदये विरोधात्तिरोभवति च, आविर्भावे च यो व्यञ्जकाद्यपेक्षते सोऽवयवीत्युच्यते । यश्चैवंधर्मः सोऽणुभ्योऽन्य इति ॥

 किञ्च—अमी अप्यन्ये हेतवोऽवयविसद्भावे—योऽसावेकश्च महां श्चाणीयांश्च क्रियाधर्मकश्चानित्यश्च । प्रत्येकमेते हेतवः ॥

१०८
पातञ्जलयोगसूत्रभाष्यविवरणे
व्यासभाष्यम्

 यस्य पुनरवस्तुकः स प्रचयविशेषः, सूक्ष्मञ्च कारणमनुपलभ्यं अविकल्पस्य तस्य अवयव्यभावात् अतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव प्राप्तं मिथ्याज्ञानमिति ।

विवरणम्

 अपि च—एको घट इति घटशब्दवाच्यस्यैकत्वेन सामानाधिकरण्यात् । अस्ति चेदं सामानाधिकरण्यं योऽसावेक इति । न हि बहूनामणूनामेकत्वेन सामानाधिकरण्यमुपकल्पते ॥

 तथा महत्त्वेन । न चाणूनां अमहत्तां महत्त्वेन सामानाधिकरण्यं युज्यते । तथाऽणीयस्त्वेन । न ह्यणूनामण्वन्तरापेक्षया अणीयस्त्वं घटते । सर्व एव हि तेऽणीयांसः । नापि चाणूनामणुत्वं गृह्यतेऽणुभ्यः । अणुत्वे वस्त्वन्तरस्याणीयस्त्वमुपपत्स्यते ॥

 किञ्च—क्रियाधर्मकश्च । क्रिया धर्मो यस्य स क्रियाधर्मकः । फलवद्व्यापारनिर्वृत्तिकरत्वादित्युक्तं भवति । न ह्यणूनां फलवद्व्यापारनिर्वृत्तिकरत्वं युक्तम् । अशक्यप्रयोज्यत्वादस्मदादिभिः । किञ्च—अनित्यत्वात् । न ह्यणूनामानित्यत्वं गृह्यते ॥

 किंच—दृश्यत्वात् । न ह्यणवो दृश्यन्ते । तथा स्पृश्यत्वाच्च हानाच्चोपादानाच्च धारणाच्चेत्येवमादयः । तेनावयविना व्यवहाराः क्रियन्ते नाणुभिरिति ॥

  यस्य पुनः इत्थं प्रमाणसुप्रसिद्धसत्ताकोऽपि अवस्तु[कः] अवयवी, स प्रचयविशेषः सूक्ष्मं च कारणमनुपलभ्यं अण्वादि, तस्यावयव्यभावादतद्रूपप्रतिष्ठं मिथ्याज्ञानमिति प्रायेण सर्वमेव विषयज्ञानं प्राप्तं मिथ्याज्ञानम् ॥

  ततः सर्वमेव ज्ञानं शब्दाद्याकारेण सुखाद्याकारेण तज्ज्ञानाकारेण चोपजायते । शब्दादयश्च ज्ञानाकारकरावयवित्वाभिमता नाभ्युपगम्यन्ते । सुखादयोऽपि विषयत्वादवयविपक्षा एव । तथा तज्ज्ञानमेव ज्ञानाकारकरत्वात्स्वरूपमपि मिथ्येति प्राप्तं सर्वमेव मिथ्याज्ञानम् ॥

  ततश्च प्रत्यक्षानुमानयोरप्याभासत्वमेव तेनाभ्युपेतं तयोरपि शब्दादिविषयत्वात् ॥


व्यासभाष्यम्

 तदा च सम्यग्ज्ञानमपि किं स्यात् ? विषयाभावात् । यद्यदुपलभ्यते तत्तत् अवयवित्वेनाम्नातम् ।

 तस्मादस्त्यवयवी यो महत्त्वादिव्यवहारापन्नः समापत्तेर्निर्वितर्काया विषयीभवति ॥ ४३ ॥

विवरणम्

 यदपि सर्वज्ञज्ञानमनित्यदुःखशून्यानात्मकत्वादिविषयं तस्यापि विषयाभावात्तदपि मिथ्याज्ञानं प्राप्तमिति, स्वतन्त्रस्य तीर्थकरस्य चाप्रामाण्यं, तत्र तीर्थकरसहधर्माभावश्चाभ्युपगतो भवति । शब्दादिवत्प्रमाणविषयत्वाविशेषात् ॥

 तदेतत्प्रतिपादयति—सम्यग्ज्ञानमपि किं स्याद्विषयाभावात् । यद्यदुपलभ्यते तत्तदवयवित्वेनाम्नातमिति, ज्ञानस्य स्वाकारसमर्पकत्वाविशेषात् । तच्च स्वाकारसमर्पकं किञ्चन नाभ्युपेयत इति सर्वस्यात्मीयस्य ज्ञानस्य तेन मिथ्यात्वमापादितम् ॥

 तथा च सम्यग्ज्ञानमपि किं स्यात्, यदपेक्षया मिथ्याज्ञानमभिसन्धीयते ॥

 यदा चावयविनं सर्वप्रमाणसम्यक्सर्वज्ञानसिद्धमपह्नुते तदा न सम्यग्ज्ञानस्य विषयः सम्पादयितुं पार्यते ॥

 यदा च न पारयति, तदा कथमभिसन्दधीत सर्वं मिथ्येति । सम्यग्ज्ञानमपेक्ष्य मिथ्याज्ञानं मिथ्याभावमासीदति आपेक्षिकत्वात्सम्यङ्मिथ्याज्ञानयोः ॥

 यश्चापि मन्यते—निर्विषयं ज्ञानं सम्यगिति, तस्यापि स्वरूपाग्रहणात् तदस्तित्वानुपपत्तिः । गृह्यते चेद्विषयत्वादवयविमिथ्यात्वं, तन्मिथ्यात्वाच्च तज्ज्ञानमिथ्यात्वं, तथा तज्ज्ञानमपीति सर्वमिथ्यात्वमुक्तं पूर्वमेव ॥

 अपि च—निर्विषयज्ञानसम्यक्त्वे सर्वज्ञानस्य विषयानभ्युपगमान्निर्विषयत्वमिति, सम्यक्त्वमेव प्राप्नुयात् । तथापि तु सर्वज्ञानसम्यक्त्वान्मिथ्याज्ञानं किं स्यादिति वक्तव्यम् ॥

 अथापि ब्रूयात्—यत्सविषयमिवाभाति तन्मिथ्याज्ञानं, यदत्यन्तनिर्विषयं तत्सम्यगिति । तथाऽपि तस्यास्तित्वे प्रमाणाभाव इत्युक्त एव दोषः । तस्मादवयवी सम्यग्ज्ञानस्य विषयोऽवश्याभ्युपगन्तव्यः इत्याह—तस्मादस्त्यवयवी यो महत्त्वाद्व्यवहारापन्नः समापत्तेर्निर्वितर्काया विषयीभवतीति ॥ ४३ ॥


एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४ ॥

व्यासभाष्यम्

 तत्र भूतसूक्ष्मकेष्वभिव्यक्तधर्मकेषु देशकालनिमितानुभवावच्छिन्नेषु या समापत्तिः सा सविचरेत्युच्यते । तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते । या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु

[ विवरणम् ]

 एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । तत्र भूतसूक्ष्मेष्वभिव्यक्तधर्मकेषु तन्मात्रेष्वेव देशकालनिमित्तानुभवावच्छिन्नेषु देशावच्छिन्नेषु कालावच्छिन्नेषु निमित्तावच्छिन्नेष्वनुभवावच्छिन्नेष्विति प्रत्येकमवच्छिन्नशब्दः । सर्वं हि वस्तु देशादिभिरवच्छिद्यमानं विषयिणा ज्ञात्रा संबध्यमानं व्यवहाराय कल्पते । तेष्वेवंभूतेष्वेवंभूतैव देशादिविकल्पाभिसंहितैव या समापत्तिः सा सविचारेत्युच्यते । ततश्च सविचारायाः सवितर्काविशेषत्वं सिद्धम् ॥

 कथम् ? इहाप्यध्यासविशेषात् । अयन्तु विशेषः शब्दसङ्केतार्थज्ञानदेशादिसर्वाध्यासाः सवितर्कायाम् ॥

 इह पुनस्तन्मात्रसूक्ष्मधर्मेषु शब्दसङ्केतस्याप्रसिद्धत्वाद्विशिष्टनामसङ्केतज्ञानानध्यासः देशाद्यध्यासश्च सूक्ष्मविषयत्वश्चेति सवितर्काविशेषत्वसिद्धिः ॥

 तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्मविशिष्टं उक्तदेशादिधर्मविशिष्टमुद्भूतधर्मविशिष्टं वा भूतसूक्ष्ममालम्बनीभूतं न तु निर्विषयं ज्ञानमेव समाधिप्रज्ञायामुपतिष्ठते ॥

 यदा पुनः सर्वथा सर्वप्रकारेण सर्वतः सर्वत्र शान्ताश्चोदिताश्चाव्यपदेश्याश्च ये धर्मास्ते शान्तोदिताव्यपदेश्यधर्माः तैः अनवच्छिन्नेषु । शान्त इति यो व्यापारं कृत्वोपरतो धर्मः । उदित इति यो व्यापारमारूढः । अव्यपदेश्य इति न शान्तो नाप्युदितः नाप्युद्भावयद् दृश्यमाननिमित्तः । तद्यथा— सुवर्णस्यादृष्टानेकाश्रुताकारोपजनशक्तयस्ता अव्यपदेश्या धर्माः । तैरनवच्छिन्नेषु

१११
समाधिपादः प्रथमः
व्यासभाष्यम्

सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारित्युच्यते । एवंस्वरूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणालम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति ।

 प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति, तदा निर्विचारेत्युच्यते । तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च । सूक्ष्मवस्तुविषया सविचारा निर्विचारा च । एवमुभयोरेतयैव निर्वितर्कया विकल्पहानिर्व्याख्यातेति ॥ ४४ ॥

 

सूक्ष्मविषयत्वञ्चालिङ्गपर्यवसानम् ॥ ४५ ॥

विवरणम्

भूतसूक्ष्मेषु सर्वधर्मानुपातिषु सर्वान्धर्माननुपतन्ति तानि सूक्ष्माणि सर्वविशेषारम्भकत्वात् । सर्वात्मकेषु सर्वेभ्यो विषयेभ्योऽनन्यत्वात्तन्मात्राणाम् । तत्र या समापत्तिः सा निर्विचारेति । निर्वितर्काया यल्लक्षणं तत्सर्वमिह निर्विचारायां द्रष्टव्यम् ॥

 तद्दर्शयति—एवंस्वरूपं हि तद्भूतसूक्ष्ममनेनैव स्वरूपेण देशकालनिमित्तानुभवादिविशेषविरहितेन सर्वात्मकेन सर्वधर्मानुपातिना आलम्बनीभूतमेव समाधिप्रज्ञामुपरञ्जयति ॥

 प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारा । तस्मान्निर्वितर्काविशेषा निर्विचारा । तत्स्वयमेव दर्शयति—महद्वस्तुविषया । महतः वस्तु महद्वस्त्विति समासः राहुशिर इति यथा । तद्विषयो यस्याः सा महद्वस्तु विषया सवितर्का निर्वितर्का च सूक्ष्मवस्तुविषया सविचारा निर्विचारा चेति ॥

 एतयैव सवितर्कनिर्वितर्काख्यया द्वय्या समापत्त्या सविचारा निर्विचारा च समापत्तिर्द्वयी व्याख्याता । उभयोरिति सवितर्कनिर्वितर्कयोर्मध्ये एतयैव निर्वितर्कया वितर्कहानिर्व्याख्याता निर्विचारा व्याख्यातेति । सविचारा चार्थात्सवितर्कया व्याख्याता लक्षणस्योभयत्र समानत्वात् । उक्तश्च विशेषः ॥ ४४ ॥

 सविचारा निर्विचारा च समापत्तिः सूक्ष्मविषयेत्युक्तम् । तत्प्रसङ्गेनेदं चिन्त्यते—कि(मसमानं)मवसानं सूक्ष्मविषयत्वमिति ।

सूक्ष्मविषयत्वञ्चालिङ्गपर्यवसानम् । पार्थिवस्याणोर्गन्धमात्रस्वरूपमात्रतेति पृथिवीसमीक्षया सूक्ष्मो विषयः ॥


व्यासभाष्यम्

 पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः । आप्यस्य रसतन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायवीयस्य स्पर्शतन्मात्रम् । आकाशस्य शब्दतन्मात्रमिति । तेषामहङ्कारः । अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यालिङ्गं सूक्ष्मो विषयः । न चालिङ्गात्परं सूक्ष्ममस्ति ।

 नन्वस्ति पुरुषः सूक्ष्म इति—सत्यम्—यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं, न चैवं पुरुषस्य । किन्तु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥

विवरणम्

 गन्धमात्रस्वरूपमात्रस्यापि लिङ्गमात्रं महत्तत्त्वं सूक्ष्मो विषयः । ततो लिङ्गमात्रान्महतो निर्वृतानि सहाहङ्कारेण तन्मात्राणि लयं गच्छन्तीति लिङ्गं, लयाद्वा प्रधानाल्लिङ्गात्प्रत्यागच्छन्तीति लिङ्गं, तद्विपरीतमलिङ्गं प्रधानं न लयं गच्छति, नाप्यन्यतः कुतश्चित् लयादागच्छति । लिङ्गमात्रस्यालिङ्गं सूक्ष्मो विषयः ॥

 न चालिङ्गात्परं सूक्ष्ममस्ति । सूक्ष्मं नाम स्थूलकार्यापेक्षया कारणं, तञ्चालिङ्गावसानम् । न चालिङ्गात् प्रधाना(लिङ्गा)दन्यत्सूक्ष्मं कारणमस्ति ॥

 ननु पुरुष इति । ननु तत्र पुरुषस्यानाशङ्कैव, कार्यकारणसूक्ष्मतया प्रक्रमात्—नैष दोषः—पुरुषस्यापि कैश्चित्कारणत्वस्याभ्युपगमात् । तदाशङ्क्यैव ह्येतदुच्यते ननु पुरुष इति । सत्यमलिङ्गात्मक[त्व]मलिङ्गस्य सौक्ष्म्यम् । कुतः ? यतः कारणमलिङ्गं लिङ्गस्य । यद्यस्यान्वयिकारणं तत्तदपेक्षया सूक्ष्ममिति प्रकृतम् । ननु पुरुषोऽप्यलिङ्गात्मक एव । बाढं, न तु लिङ्गापेक्षया पुरुषः सूक्ष्मः । कुतः ? यतस्तु लिङ्गस्यान्वयिकारणं पुरुषो न भवति सत्यप्यलिङ्गात्मकत्वे । कार्यस्य चैतन्येनानन्वितत्वात् ॥

 किञ्च—पुरुषस्यापि भोग्यत्वप्रसङ्गः । तथा च पारार्थ्यं सुखदुःखमोहात्मकत्वं च, निर्हेतुकत्वं च प्रधानस्य (पुरुषस्य) । तच्च सर्वप्रमाण(प्राण) विप्रकुपितमित्यत आह—हेतुस्तु भवतीति । प्रधानप्रवृत्तौ भोक्तृत्वेन निमित्तं भवतीत्यर्थः । अतः प्रधानस्य सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥


ता एव सबीजः समाधिः ॥ ४६ ॥

व्यासभाष्यम्

 ताश्चतस्रः समापत्तयः बहिर्वस्तुबीजा इति समाधिरपि सबीजः । तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचारः, इति चतुर्धोपसंख्यातः समाधिरिति ॥ ४६ ॥

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७ ॥

व्यासभाष्यम्

 अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम् । यदा निर्विचारस्य समाधेः वैशारद्यमिदं जायते, तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमानुरोधी स्फुटः प्रज्ञाऽऽलोकः ।

विवरणम्

 ता एव सबीजः समाधिः । चतस्रः समापत्तयो बहिर्वस्तुविषया इति बहिर्वस्तुविषयत्वं हेतुः सबीजत्वे । समाधिरपि सबीजः सम्प्रज्ञातो ‘वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः’ इत्युपव्याख्यातः । स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सविचारो निर्विचार इति चोपव्याख्यातः वितर्कादिलक्षणसूत्रेण ॥ ४६ ॥

 निर्विचारवैशारद्येऽध्यात्मप्रसादः । अशुद्ध्यावरणमलापेतस्य अशुद्धिरेवावरणं तदेव मलं क्लेशादिकं तस्मादपेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम् । यदा निर्विचारस्य समाधेर्वैशारद्यमिदं जायते, तदा योगिनो भवत्यध्यात्मप्रसादः आत्मादिज्ञानविवेकः । अस्यैव व्याख्यानं भूतार्थविषयः क्रमानुरोधी परिपाठिकया यावत्क्लेशक्षयमनुरुद्ध्यत इति क्रमानुरोधी स्फुटं विविक्ततरं शुद्धतरात्मकः प्रज्ञालोकः प्रज्ञैवालोकः तया हि यथावस्तु जानाति ॥

 

११४
पातञ्जलयोगसूत्रभाष्यविवरणे


 तथा चोक्तम्—

 “प्रज्ञाप्रासादमारुह्य अशोच्यः शोचतो जनान् ।

 भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ॥” इति ४७ ॥

 ऋतंभरा तत्र प्रज्ञा ॥ ४८ ॥

व्यासभाष्यम्

 तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते, तस्या ऋतंभरा इति संज्ञा भवति । अन्वर्था च सा, सत्यमेव बिभर्ति, न च तत्र विपर्यासज्ञानगन्धोऽप्यस्तीति ।

 तथा चोक्तम्—

 “आगमेनानुमानेन ध्यानाभ्यासरसेन च ।

 त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥” इति ॥ ४८ ॥

 सा पुनः—

विवरणम्

तथा चोक्तम्—

 ‘प्रज्ञाप्रासादमारुह्य न शोच्यश्शोचतो जनान् ।

 भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति ॥’ इति ॥ ४७ ॥

 ऋतंभरा तत्र प्रज्ञा । तस्मिन् प्रज्ञालोकेऽध्यात्मप्रसादे समाहितस्य या प्रज्ञा जायते विवेकजन्मा, तस्या विवेकजन्मनः ऋतम्भरेति संज्ञा भवति । अन्वर्थैव सा सत्यमेव बिभर्ति न तत्र विपर्यासज्ञानगन्धोऽप्यस्ति । प्रक्षीणसकलविपर्यासकल्मषस्य हि जायते । जायमाना च विषयकळङ्कमपनुदति ॥

तथा चोक्तम्—

 ‘आगमेनानुमानेन ध्यानाभ्यासरसेन च ।

 त्रिधा प्रकल्पयन्प्रज्ञां लभते योगमुत्तमम् ॥’ इति ।

 योगाङ्गप्रज्ञां त्रिधा विभजते । तत्रैको भागः शास्त्राचार्योपदिष्टार्थानुसारी । द्वितीयस्तस्यैव युक्त्याऽनुमानेन विचार्यागमार्थविरोधिनिराकरणपूर्वकं तत्सम्यगुपपादनपरः । तृतीयस्तु सदागमानुमानसम्यगुपपन्नार्थालम्बनस्य प्रत्ययस्यानुशीलनं रसोपयोगी । तदित्थं त्रिधा प्रकल्पयन्योगी योगं लभते ॥ ४८ ॥

११५
समाधिपादः प्रथमः


श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९ ॥

व्यासभाष्यम्

 श्रुतं आगमविज्ञानम् । तत् सामान्यविषयम् । न ह्यागमेन शक्यो विशेषोऽभिधातुम् । कस्मात् ? न हि विशेषेण कृतसङ्केतः शब्द इति । तथा अनुमानं सामान्यविषयमेव । ‘यत्र प्राप्तिः तत्र गतिः, यत्राप्राप्तिः तत्र न भवति गतिः’ इत्युक्तम् । अनुमानेन च सामान्येनोपसंहारः । तस्मात् श्रुतानुमानविषयो न विशेषः कश्चिदस्तीति ।

 न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणमस्ति । न चास्य विशेषस्य अप्रमाणकस्य अभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा ।


विवरणम्

 सा पुनः ऋतम्भरा प्रज्ञा सामान्यपुरुषप्रत्ययविषयादन्यविषयेत्याह— श्रुतानुमानप्रज्ञाभ्यामन्यविषया । विशेषः विशेषाणामानन्यान्न सङ्केतयितुं शक्यते । सामान्येन हि कृतसङ्केतः शब्दः । ततश्चागृहीतविशेषसङ्केतो न विशेषमभिधातुं ज्ञापयितुं वा शक्नोति ॥

 तथानुमानं सामान्यविषयमेव । तदप्युक्तमेव ‘सामान्यावधारणप्रधाना वृत्तिः’ इति । तथोदाहरणेन च प्रतिपादितम् ‘यत्र प्राप्तिस्तत्र गतिः । यत्राप्राप्तिस्तत्र न भवति गतिः’ इति । अनुमानेन सामान्योपसंहारः । सामान्यमात्रमनुमानेनोपसंह्रियते । तस्माच्छ्रुतानुमानविज्ञानविषयो न विशेषः कश्चिदस्ति ॥

 यद्येवं न लोकप्रत्यक्षेणापरेण भूतसूक्ष्मगतः पुरुषगतो वा विशेषः प्रज्ञायेत । नान्यच्च प्रमाणत्रयव्यतिरिक्तं प्रमाणमस्ति, येन तद्विशेषं सञ्जानीमहे इति चेदाह—न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणम् । न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति । प्रमाणावगम्यमानरूपो हि भावोऽस्ति राजवीथीमधिरोहति । तस्मात् समाधिप्रज्ञानिर्ग्राह्य एव विशेषो भवति भूतसूक्ष्मगतः पुरुषगतो वा ॥

११६
पातञ्जलयोगसूत्रभाष्यविवरणे


व्यासभाष्यम्

 तस्मात् श्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा विशेषार्थत्वात् इति ॥ ४९ ॥

समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो नवो जायते—

तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५० ॥

[ भाष्यम् ]

 समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते । व्युत्थानसंस्काराभिभवात् तत्प्रभवाः प्रत्यया न भवन्ति । प्रत्ययनिरोधे समाधिरुपतिष्ठते । ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्काराः इति, नवो नवः संस्काराशयो जायते । ततश्च प्रज्ञा, ततश्च संस्कारा इति ।

[ विवरणम् ]

 ननु च ते सूक्ष्मगता विशेषाः प्रत्यक्षेणावगम्यन्ते इति किमीश्वराज्ञापितम् ? वस्तुत्वादवगम्यन्त इति चेत्—आगमानुमानाभ्यां सन्तीत्यवगम्यन्त एव । न च नियामकं किंचिदस्ति प्रत्यक्षेणैव निर्ग्राह्या इति । न हि विशेषा हस्ततलगता अपि सर्वे गृह्यन्ते—न—अन्यवस्तुगतविशेषाणां प्रत्यक्षग्राह्यत्वस्यानुमेयत्वात् ॥

 कथम् ? एवं मन्यते—भूतसूक्ष्मादिगता विशेषाः प्रत्यक्षग्राह्याः कस्यचित्, कार्यवस्तुविशेषत्वात्, गृह्यमाणस्वपाणिगतविशेषवदिति । तस्माच्छ्रुतानुमानप्रज्ञाभ्यामन्यविषया सा प्रज्ञा, विशेषार्थत्वादिति । विशेषार्था हि सा ॥ ४९ ॥

 समाधिप्रज्ञाप्रतिलम्भे योगिनः प्रज्ञाकृतः संस्कारो नवो जायते । प्रज्ञा हि संस्कारारम्भिणीति सिद्धम् । प्रज्ञाभिनवत्वात्तत्संस्कारः प्रत्यग्रतरो जायते इति विशेषः । प्रज्ञानवत्वं तु तस्या (सामान्य) अन्यविषयत्वात् । तज्जस्संस्कारोऽन्यसंस्कारप्रतिबन्धी ऋतम्भरप्रज्ञाप्रभवसंस्कारो व्युत्थानसंस्काराशयं अन्यं बाधते विशिष्टयथार्थविषयप्रभवत्वात्प्रतिबध्नाति । आमोक्षाच्छेत इति संस्काराशयः ॥

 व्युत्थानसंस्काराभिभवात् व्युत्थानसंस्काराशयस्य समाधिप्रज्ञासंस्कारेणाभिभवात् तत्प्रभवाः व्युत्थानसंस्कारप्रभवाः प्रत्यया न भवन्ति । प्रत्ययनिरोधे व्युत्थानप्रत्ययनिरोधे समाधिः सम्प्रज्ञात इव उपतिष्ठते । ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति, एवं नवः संस्काराशयो वर्धते । ततश्च प्रज्ञा ततश्च संस्कारा इति ॥

व्यासभाष्यम्

कथमसौ संस्काराशयाश्चित्तं साधिकारं न करिष्यतीति ? न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वात् चित्तमधिकारविशिष्टं कुर्वन्ति । चित्तं हि ते स्वकार्यादवसादयन्ति । ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥ ५० ॥

  किञ्चास्य भवति—

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिरिति ॥ ५१ ॥

इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे

प्रथमः समाधिपादः ॥

विवरणम्

 अत्राह—समाधिप्रज्ञाभवः संस्काराशयश्चित्तस्याधिकारप्रवृत्तिहेतुः, प्रत्ययप्रभवत्वात्, व्युत्थानप्रभवसंस्काराशयवदिति, तथा चित्तसंस्कारत्वाच्चेति । तदेतद्दर्शयति—कथमसौ संस्काराशयः चित्तं साधिकारं संस्कारोपेतं न करिष्यतीति ? ॥

 नैष दोषः—तद्विरोधित्वात् । कथं ? ते संस्काराः क्लेशक्षयहेतुत्वाच्चित्तमधिकारविशिष्टं न कुर्वन्ति । व्युत्थानप्रत्ययप्रभवानां हि संस्काराणामविद्यादिक्लेशहेतुत्वाच्चित्तसंस्काराभिमुखभावकारणता । तद्विरोधिप्रत्ययप्रभवत्वात्तु न समाधिजप्रत्ययजन्मनां संस्काराणामधिकाराभिमुख्यनिमित्तता ॥

 किञ्च—चित्तञ्च ते स्वकार्यात् संस्काराभिमुखवृत्तिभ्योऽवसादयन्ति विरमयन्ति । ख्यातिपर्यवसानं हि चित्तविचेष्टितम् । पुरुषख्यातिश्च जाता संस्कारश्च भवतीति विरुद्धम् ॥

 यो हि विगततृष्णासमुदायो, नासौ पानीयं पिपासति । एतावदेव चित्तेन पुरुषस्य करणीयम् । न हि कश्चित् कृतं करणीयं चिकीर्षति ॥ ५० ॥

११८
पातञ्जलयोगसूत्रभाष्यविवरणे

व्यासभाष्यम्

 स न केवलं समाधिप्रज्ञाविरोधी, प्रज्ञकृतानामपि संस्काराणां प्रतिबन्धी भवति । कस्मात् ? निरोधजः संस्कारः समाधिजान् संस्कारान् बाधत इति ।

निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वमनुमेयम् ।

विवरणम्

 किञ्च—तस्यापि निरोधे सर्वनिरोधान्निर्बीजस्समाधिरिति । इति शब्दः परिसमाप्त्यर्थः । तस्यापि समाधिप्रज्ञाप्रभवस्य संस्कारस्याभिनवस्य निरोधे अपिशब्दात्संस्कारकारणस्य समाधिप्रज्ञाया अपि निरोधे, सर्वनिरोधो भवति । उक्तमेवोपायद्वयं परवैराग्यविरामप्रत्ययाभ्यासाख्यं तन्निरोधस्य ॥

 किं पुनस्तत्सर्वं ? यन्निरोत्स्यते । व्युत्थानसमाधिप्रज्ञातत्संस्काराः । तस्मात् सर्वनिरोधान्निर्बीजः समाधिः ॥

 स न केवलं ऋतम्भरप्रज्ञाजनितसंस्कारः समाधिप्रज्ञानिरोधी, यथैव तां समाधिप्रज्ञामृतम्भरां निरुणद्धि, तथैवात्मना सहात्मसजातीयानां स्वकारणप्रज्ञाकृतानां संस्काराणामपि प्रतिबन्धी निरोधाद्भवति ॥

 कस्मात् ? निरोधजः संस्कारः यस्मात्समाधिप्रज्ञायास्तज्जन्मनश्च संस्कारस्य निरोधे, निरोधकः समाधिप्रज्ञाजनितसंस्कारादन्यो जायते, स चापि यतः समाधिप्रज्ञां तज्जनितसंस्कारांश्चातिरस्कृत्य न जन्म प्रतिपद्यते, तस्मात्स निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति ॥

 कथं पुनरसौ निरोधजः संस्कारोऽस्तीति गम्यते ? विद्यमानेऽपि स बाधको भवतीति ? आह—निरोधस्थितिकालक्रमानुभवेनेति । निरोधस्य स्थितिस्तस्याः कालः स च कालः क्रमेणानुभूयते, यतः प्रत्यभ्यासमभिवर्धते, तस्मात्तेन निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतं निरोधावस्थचित्तकृतं संस्कारास्तित्वमनुमेयम् ॥

११९
समाधिपादः प्रथमः


व्यासभाष्यम्

व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैः चित्तं स्वस्यां प्रकृताववस्थितायां प्रविलीयते । तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति । यस्माद्वसिताधिकारं सह कैवल्यभागीयैः संस्कारैश्चित्तं निवर्तते । तस्मिन्निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्युच्यत इति ॥ ५१ ॥

इति श्रीपातञ्जलयोगसूत्रभाष्ये श्रीमद्वेदव्यासकृते

प्रथमः समाधिपादः ॥

विवरणम्

 व्युत्थाननिरोधसमाधिप्रभवैः व्युत्थानसमाधिप्रभवैः निरोधसमाधिप्रभवैश्च सह कैवल्यभागीयैः संस्कारैश्चित्तं अवसिताधिकारत्वात् स्वस्यां प्रकृतौ स्वकारणेऽस्मितायामहङ्कारे प्रविलीयते प्रत्यस्तमेति । तस्मात्ते ख्यातिनिरोधजन्मानः संस्कारा यस्मात् चित्तस्याधिकारविरोधिनः न स्थितिहेतवो भवन्तीति ॥

 यस्मादवसिताधिकारं सह केवल्यभागीयैः संस्कारैश्चित्तं यं पुरुषं प्रति चरितप्रयोजनं तस्मात् निवर्तते । तस्मिन्विनिवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठः केवलो मुक्त इत्युच्यते, चित्तवृत्तिनिवृत्तिरेव मुक्तिः इति ॥ ५१ ॥

इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचार्यस्य

श्रीशङ्करभगवतः कृतौ

श्रीपातञ्जलयोग(शास्त्र)सूत्रभाष्यविवरणे

॥ प्रथमः समाधिपादः ॥

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 1 · Sutras

Read the whole pada →