विभूतिपादः · ३.५२

क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥

व्यासभाष्यम्

  यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं अपकर्षपर्यन्तः कालः क्षणः । यावता वा समयेन विचलितः परमाणुः पूर्वदेशं जह्यादुत्तरदेशमभिसंपद्येत स कालः क्षणः । तस्य प्रवाहाविच्छेदभाविनः आनन्तर्यं क्रमः । क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति । बुद्धिसमाहारात् मुहूर्ताहोरात्रादयः ।

विवरणम्

 क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् । क्षणं क्रमं च स्वयमेव विस्तरेणाचष्टे--तत्र अपकर्षपर्यन्तं यतः परमपकर्षो न शक्यते कर्तुं तद्द्रव्यं परमाणुः । एवं लोकबुद्धिविकल्पितादहोरात्रलक्षणादपकृष्यमाणात् कालादल्पीयःपरिजिघृक्षया यतः परम् अपक्रष्टुं न शक्यते सः अपकर्षपर्यन्तः कालः क्षणः वस्तुभूतः ॥

 यद्वा, यावता समयेन विचलितः परमाणुः पूर्वं देशं जह्यादुत्तरमभिसंपद्येत स कालः क्षणः । सर्वथाऽप्यस्ति (सूक्ष्म)क्षण इत्यर्थः ॥

 तस्य प्रवाहाविच्छेदभाविनः तस्य क्षणस्य प्रवाहः प्रबन्धः अविच्छेदो नैरन्तर्यं तथा भवितुं शीलं यस्य क्षणस्य प्रवाहाविच्छेदभाविनः क्षणस्य यत् आनन्तर्यं सः क्षणस्य क्रमः । तयोश्च क्षणतत्क्रमयोर्नास्ति वस्तुसमाहारः क्षणक्रमस्यावस्तुत्वात् क्षणस्य चैकत्वात् नास्ति तयोः समाहारः समूहः ॥

 ननु चासति क्षणतत्क्रमसमाहारे कथं माससंवत्सरादयः प्रवर्तेरन्निति, तदर्थमाह—बुद्धिसमाहारात् बुद्धिपरिकल्पितात् क्षणतत्क्रमयोः समाहारादादित्यादिदेशान्तरसंबन्धावबन्धबुद्धिसमुद्भावितात् मुहूर्ताहोरात्रादयः । ततश्च बुद्धिस्थित एष भेदः ॥

 यो हि प्रसन्नसमानप्रत्ययप्रवाहिमानसः एकाग्रभूमिप्रतिष्ठितचित्तसत्त्वः, तस्य सत्यपि कालानुभवे क्षणयुगसहस्रयोस्तुल्यता । नैवं व्युत्थितचित्तस्य । तथा स्वप्नेऽपि घटिकामात्रेण बुद्धिपरिकल्पितं योजनसहस्रमनेकं संवत्सरेणैव [गन्तव्यं] गच्छति । तस्माद्बुद्धिवैचित्र्यानिर्मित एव कालसमाहारः ।

[ भाष्यम् ]

 स खल्वयं कालो वस्तुशून्यो बुद्धिनिर्माणः शब्दधर्मानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवाभासते ॥

 क्षणस्तु वस्तुरूपः क्रमावलम्बी । क्रमश्च क्षणानन्तर्यात्मा ।

विवरणम्

 यस्य तु क्रियाव्यतिरिक्तः कालः नित्यो विभुः, तस्य चिरक्षिप्रत्वाद्यपि क्रियामात्रे पर्यवसितत्वात् पृथक्कालास्तित्वे न लिङ्गं घटते । नियतपरिमाणा हि क्रिया अनवगतपरिमाणायाः क्रियाया लक्षणम् । यथा आ गोदोहनं स्वपति । आ ओदनपाकमधीते इति । स एव च कालः । न हि नित्यस्य विभोः तस्य कूटस्थस्य असम्बन्धत्वात् वस्त्वन्तरपरिच्छेदकत्वं प्रस्थादिवदुपपद्यते ॥

 क्रियावान् कालः परिच्छेदकः प्रस्थादिवदिति चेत्, तस्यापि क्रियावत्त्वात् क्रियावतश्च परिच्छेदनीयत्वादन्येन क्रियावता परिच्छेदकेन कालेन भवितव्यम् । तस्याप्यन्येनेत्यनवस्थाप्रसङ्गः क्रियावत्त्वाच्चानित्यत्वमपि प्रसज्येत ॥

 अथ स्वव्यापारेणैव कालः परिच्छेदनीयकं यायादिति चेत्, अन्येऽपि स्वव्यापारेणैव परिच्छेद्या इति कालपृथक्त्वकल्पना निरर्थिका । तथा च क्रियैवास्तु कालः ॥

 अथापि सद्भावमात्रेण कालः परिच्छेदक इति, सर्वेषामपि सद्भावाविशेषादेवं प्रसक्तम् ॥

 क्रियाकालपक्षेऽप्येष विकल्पः प्राप्त इति चेत्—न, क्रियायाः सर्वप्रसिद्धत्वात् । परिच्छेदकत्वस्य च आ गोदोहमास्ते इत्यादिषु सिद्धत्वात् क्रियैव परिच्छेदिका लभ्यते, नापरः कालः परिच्छेदक इति । चिरं क्षिप्रमिति च प्रयत्नमन्दिमपाटवकृतः प्रत्ययो न व्यतिरिक्तकालनिबन्धन इत्याह—स खल्वयं कालः संवत्सरादिरूपो वस्तुशून्यो बुद्धिनिर्माणः बुद्ध्या निर्मापिष्यते ॥

 शब्दधर्मानुपाती त्रुटिनिमेषाहोरात्रादिशब्दविकल्पानुप्रवर्ती । लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवाभासते । क्षणस्तु वस्तुरूपः वास्तविकः तद्द्रव्यान्यथात्वेनानुमीयमानः क्रमावलम्बी । क्रमश्च क्षणानन्तर्यात्मा क्षणप्रवाहाविच्छेदबुद्धिनिमित्तः ॥

व्यासभाष्यम्

तं कालविदः काल इत्याचक्षते योगिनः । न च द्वौ क्षणौ सह भवतः । क्रमश्च न द्वयोः, सहभुवोरसंभवात् । पूर्वस्मादुत्तरस्य भाविनो यदानन्तर्यं क्षणस्य स क्रमः । तस्माद्वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति । तस्मान्नास्ति तत्समाहारः । ये तु भूतभाविनः क्षणास्ते परिणामास्तितया व्याख्येयाः । तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति । तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः । तयोः क्षणतत्क्रमयोः संयमात्तयोः साक्षात्करणम् । ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ ५२ ॥

विवरणम्

 तं क्षणं कालविदः काल इत्याचक्षते योगिनः । न च द्वौ क्षणौ सह भवतः, ययोः समाहारः कल्प्येत । एकस्मिन् धर्मिणि सहजन्मनोः क्षणयोरसंभवात् । जायमानो हि चैत्र एकस्मिन् क्षणे जायते । न तत्र द्वौ क्षणौ सह भवतः । क्रमश्च न द्वयोः । कस्मात् ? द्वयोः क्षणयोः सहभुवोरसम्भवात् ॥

 पूर्वस्मादुत्तरस्य भाविनो यदानन्तर्यं क्षणस्य स क्रमः । यथा पिण्डादुत्तरभाविनो घटस्य यदानन्तर्यं स क्रमः । न हि चक्रान्तरस्थस्य मृत्पिण्डस्य चक्रान्तरस्थमृत्पिण्डजनितो घटः क्रमे वर्तते । तस्माद्वर्तमान एवैकः क्षणः । न पूर्वोत्तरावतीतानागतौ स्तः पूर्वोत्तरयोर्धर्मिस्वरूपमात्रत्वात् । धर्मी च वर्तमानक्षणारूढ एव । तस्मान्नास्ति तत्समाहारः क्षणतत्क्रमसमाहारः ॥

 ये तु भूतभाविनः अतीतभविष्यन्तः क्षणाः ते धर्मिणः परिणामास्तितया धर्मिपरिणामापेक्षया व्याख्येयाः । तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति । तत्क्षणोपारूढाः वर्तमानक्षणोपारूढाः खल्वमी सर्वे धर्माः सर्वपदार्थाः ॥

 यदुक्तमतीतक्षणस्य नास्ति क्रम इति, तस्यैतत् प्रयोजनं, तत्क्रमक्रमप्रतिषेधः । क्षणक्रमक्रमे हि सति क्षणक्रमस्य वस्तुत्वं प्रसज्येत । वस्तुनो हि क्रम इति । ततश्च क्रमतत्क्षणयोः संयमादिति नोपकल्पेत । तस्मात् एतयोः क्षण[तत्]क्रमयोः संयमात् तयोः साक्षात्करणम् । ततश्च विवेकजं ज्ञानम् । क्षणतत्क्रमाङ्किता एव हि सर्वे पदार्था इति तानशेषान् विवेच्य विजानाति ॥ ५२ ॥

व्यासभाष्यम्

तस्य विषयविशेष उपक्षिप्यते—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 3 · Sutras

Read the whole pada →