क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥
तत्र पुण्यापुण्यकर्माशयः कामलोभमोहक्रोधभवः ।
तत् किमिवेति ? यथा वस्त्राणां स्थूलो मलः पूर्वं निर्धूयते, पश्चात्सूक्ष्मो मलः स्नेहनादिनिमित्तो यत्नेन चोपायेन क्षारादिविशिष्टोपायेन अपनीयते, तथा स्वल्पप्रतिपक्षाः तपस्स्वाध्यायेश्वरप्रणिधानयमनियमादियोगाङ्गानुष्ठानादिप्रतिपक्षाः स्थूला वृत्तयः क्लेशानाम् । सूक्ष्मास्तु महाप्रतिपक्षा इति । तपस्स्वाध्यायाद्यनुष्ठानप्रतिलब्धदीप्तिप्रकर्षविप्लवसम्यग्दर्शनमहाप्रतिपक्षाः सूक्ष्मा बीजशक्त्यपेक्षा इति ॥ ११ ॥
किमर्थं पुनः क्लेशहानाय प्रयतत इत्याह—यतः क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । क्लेशा अविद्यादयो मूलं जन्मकारणं यस्य कर्माशयस्य स क्लेशमूलः कर्माशय इति । आकर्मफलप्रदानादन्तःकरणे शेत इति कर्माशयः शुक्लकृष्णात्मकः । दृष्टं चादृष्टं च दृष्टादृष्टे जन्मनी तयोर्वेदनीयमनुभवनीयं फलं यस्य स दृष्टादृष्टजन्मवेदनीयः कर्माशयः । यो दृष्टादृष्टकर्मानुभवितव्यफलः कर्माशयः स क्लेशमूल इति सूत्रार्थः ॥
यस्य पुण्यापुण्यरूपस्य कर्माशयस्य यस्मिन् जन्मनि निष्पत्तिस्तस्य तस्मिन्नेव जन्मनि वेदनीयं फलं स दृष्टजन्मवेदनीयः । यस्य तु जन्मान्तरे वेदनीयं फलं सोऽदृष्टजन्मवेदनीयः कर्माशय इति ॥
भाष्यमिदानीं व्याख्यायते—तत्र पुण्यापुण्यकर्माशयो लोभक्रोधमोहप्रभव इति, क्लेशमूलत्वं तस्याचष्टे । पुण्यकर्माशयो लोभप्रभवो यथा—स्वर्गे वा अत्र वा शुभं फलमनुभविष्यामीति स्वर्गकामपुत्रकामयागादिः । क्रोधप्रभवो यथा—विश्वामित्रस्याम्बायाश्च । मोहप्रभवो यथा—द्रौपद्याः कुम्भकर्णस्य च ॥स दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । तत्र तीव्रसंवेगेन मन्त्रतपस्समाधिभिर्निर्वर्तितः, ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा यः परिनिष्पन्नः स सद्यः परिपच्यते पुण्यकर्माशय इति ।
अपुण्यकर्माशयोऽपि लोभप्रभवो यथा—चर्मणि द्वीपिनं हन्ति कुञ्जरं हन्ति दन्तयोः । कर्णस्य चास्त्रज्ञानलोभादनृतवचने । क्रोधप्रभवो यथा—ब्रह्महत्या । भारते(भाव)ऽप्यश्वत्थाम्नश्च । मोहप्रभवो यथा—संसारमोचकादीनां नहुषस्य च ॥
अस्मिताविद्ययोर्लोभक्रोधमोहैः प्रत्येकं सम्बन्धः । कथम् ? अहमधिक्षिप्तोऽस्मीति क्रुध्यति । अहं सुखमनुभविष्यामीति लुभ्यति । अहं मुह्यामीति मुह्यति ॥
अविद्याऽपि सर्वत्रैव विपरीतदर्शनलक्षणा सम्बध्यते । नह्यसत्यामविद्यायामस्मितादीनां सम्भवोऽस्ति । रागस्तु लोभ एव । द्वेषस्तु क्रोधः । अभिनिवेशो विमोह एवान्तर्भवति ॥
यत्तु मोहः पुनरविद्येति, तदविवेकसामान्यादुक्तम् । लोभक्रोधमोहास्तु परस्परनिरपेक्षा धर्माधर्मोत्पत्तिद्वारम् । तथा च वक्ष्यति—लोभक्रोधमोहपूर्विका इति ॥
स दृष्टजन्मवेदनीयश्च स लोभक्रोधमोहप्रभवः कर्माशयो दृष्टजन्मवेदनीयश्च अदृष्टजन्मवेदनीयश्च ।
कथं पुनः कर्मणां स्वरूपनिमित्ततुल्यत्वे कस्यचिद्दृष्टजन्मवेदनीयत्वं कस्यचिददृष्टजन्मवेदनीयत्वञ्चेत्याह—यथा तीव्रसंवेगेन तीव्रोद्यमेन मन्त्रतपस्समाधिभिर्यथाप्रसिद्धरूपैस्तीव्रसंवेगानुष्ठितैर्निर्वर्तितः, ईश्वरदेवतामहर्षिमहानुभावानामाराधनाद्वा । ईश्वर उक्तः, देवता अदित्यादयः, महर्षयो भृग्वादयः, महानुभावा धर्मज्ञाननिरतमतयः, एत एव वा (तदेषां वा) । तीव्रतराराधनपरिनिष्पन्नः सद्यः परिपच्यते स तस्मिन्नेव जन्मनि । यथा नन्दीश्वरकुमारस्य ॥तथा तीव्रक्लेशेन भीतव्याधितकृपणेषु, विश्वासोपगतेषु वा, महानुभावेषु वा तपस्विषु [यः] कृतः पुनः पुनरपकारः, स चापि पापकर्माशयः सद्य एव परिपच्यते ।
यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं हित्वा देवत्वेन परिणतः । तथा नहुषोऽपि देवानामिन्द्रः स्वकं परिणामं हित्वा तिर्यक्त्वेन परिणतः इति ।
तत्र नारकाणां नास्ति दृष्टजन्मवेदनीयः कर्माशयः ।
तथा तीव्रक्लेशेन लोभादिप्रकर्षेण भीतव्याधितकृपणेषु विस्रम्भोपगतेषु महानुभावेषु वा तपस्विषु ज्ञानधर्मनिरतमतिषु तपस्विषु पुनः पुनः आभीक्ष्ण्येन कृतोऽपकारः, स चापि पापकर्माशयः सद्य एव परिपच्यते फलति । यथा नहुषस्य ॥
लोकेऽपि क्षेत्रबीजसंस्कारविशेषेण वृक्षादिफलसन्निकर्षः प्रसिद्धः वृक्षायुर्वेदप्रसिद्ध्या । तथा क्रियासु फलसन्निकर्षविप्रकर्षदर्शनं गमिपच्यादिषु तीव्रमन्दानुष्ठानविशेषतः ॥
तत्र पुण्यकर्माशयस्योदाहरणमाह—यथा नन्दीश्वरः कुमारो मनुष्यपरिणामं स्वकं हित्वा महेश्वराराधनपरिनिष्पन्नेन तीव्रतरक्लेशानुष्ठानेन जन्मना देवतात्वेन परिणतः ॥
तथा नहुषोऽपुण्यकर्माशयस्योदाहरणम् । स देवानामिन्द्रः । स स्वकं परिणामं हित्वा तीव्रतरमोहानुष्ठानजेन कर्माशयेन तिर्यक्त्वेन परिणत इति ॥
क्रोधादीनां तु यथासंख्यं दृष्टादृष्टजन्मवेदनीयत्वेनोदाहरणानि व्याख्यातानि पूर्वमेव । एतेन च मन्दमन्दतरलोभादिक्लेशानुष्ठानजन्मानौ पुण्यपापकर्माशयावदृष्टजन्मवेदनीयौ व्याख्यातौ लोकवदेव । तत्रापि तावदुच्यते ॥
तत्र नारकाणां नास्ति—यैर्नरकप्राप्त्यर्थमेव कर्मानुष्ठितं ब्रह्महत्यागुरुदारगमनादिलक्षणं, तेषां नारकाणां नारकत्वस्याशुभावित्वमाश्रित्य तेषां नारकाणां नास्ति दृष्टजन्मवेदनीयफलः कर्माशयः [येन फलं] आरभ्यते ॥क्षीणक्लेशानामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति ॥ १२ ॥