प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ १८ ॥
प्रकाशशीलं सत्त्वम्, क्रियाशीलं रजः, स्थितिशीलं तम इति ।
दृश्यस्वरूपमुच्यते । ननु च द्रष्टृदृश्ययोरित्युक्तं पूर्वसूत्रे । तत्र क्रमप्राप्तसन्निधानं द्रष्टृस्वरूपमेव पूर्वं वक्तव्यम् । नैष दोषः । दृश्यस्वरूपावगमपूर्वकत्वाद्द्रष्टृस्वरूपावबोधस्य । दृश्यस्य हि स्वात्मव्यतिरिक्तद्रष्ट्रर्थत्वाद्व्यतिरिक्तद्रष्टृसद्भावसिद्धिः । अत एव प्राधान्यात् पूर्वसूत्रे द्रष्टुः पूर्वनिपातः कृतः । तल्लक्षणे त्वर्थक्रमो विवक्ष्यते ॥
प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् । प्रकाशश्च क्रिया च स्थितिश्च प्रकाशक्रियास्थितयः । प्रकाशस्याभ्यर्हितत्वात् पूर्वनिपातः । बहुषु चानियमात् स्थितिक्रियाशब्दयोरनियम इति क्रियाशब्दस्य पूर्वनिपातः । ता एव शीलं यस्य तत्प्रकाशक्रियास्थितिशीलम् । प्रकाशनं प्रकाशः, स शीलं यस्य तत् प्रकाशशीलं सत्त्वम् । ननु च यदा प्रकाशनं क्रिया, कथं तच्छीलं सत्त्वं स्यात् ? रजो हि तच्छीलं, स्थितिशीलं वा तमः कथमिति ॥
ननु च स्वरूपमेव तत्प्रकाशनं स्थितिश्च । न । स्वरूपमात्रे शीलशब्दायोगात् । न हि मृदङ्गशीलो मार्दङ्गिकः । मृदङ्गवादनशीलो हि स उच्यते । न हि व्यापारशून्ये क्वचिदपि शीलशब्दः प्रयुज्यते ॥
ननु च स्थितिप्रकाशावपि सत्त्वतमसोः स्वरूपम् । तदेतेनैव गम्यते स्वरूपे शीलशब्दः प्रसंख्यत इति । उच्यते—नस्वरूपे सर्वत्र शीलशब्दप्रयोगः । इहापि रजसि दुःखस्वरूपे क्रियाशीलमिति क्रियया सम्प्रयुज्य शीलशब्दव्यपदेशः । स्थितिप्रकाशावपि व्यापाररूपावभिप्रेतौ ॥
अथ मतं—क्रियापि रजसः स्वरूपमेवेति—न—प्रधानावस्थायां साम्याभ्युपगमात् गुणानाम् । यदि क्रिया रजसः स्वरूपमभविष्यत् प्रधानस्यापि क्रियावत्त्वं गुणसाम्यावस्थायामभविष्यत् । कार्यावस्थायां हि क्रियावत्त्वमभ्युपगम्यते, न प्रधानवेलायाम् । तस्मान्न स्वरूपाभिप्रायेण शीलशब्दप्रयोगः ॥एते गुणाः परस्परोपरक्तप्रविभागाः परिणामिनः संयोगवियोगधर्माणः इतरेतरोपाश्रयेणोपार्जितमूर्तयः परस्पराङ्गाङ्गित्वेऽप्यसम्भिन्नशक्तिप्रविभागाः
तत्राक्रियाशीलयोरपि सत्त्वतमसोर्नित्यं क्रियाशीलेन रजसा संयोगाद्रजःक्रिययैव क्रियावत्त्वं स्थितिप्रकाशयोरपीति तत्क्रियोपचारेण प्रकाशशीलं सत्त्वं स्थितिशीलं तम इति व्यपदिश्यते । स्थितिप्रकाशयोरात्मलाभस्य रजःक्रियापूर्वत्वाच्चलतोरेवाभिव्यक्तेस्ताच्छील्यं सत्त्वतमसोरुच्यते ॥
तत्र प्रकाशशीलं यत्तत्सत्त्वम् । क्रियाशीलं प्रवृत्तिशीलं रजः । स्थितिशीलं वरणशीलं नियमशीलं तम इत्येते गुणाः परस्परोपरक्तप्रविभागाः परस्परेणोपरक्तः प्रविभागो भेदो येषां गुणानां ते परस्परोपरक्तप्रविभागाः ॥
यथा प्रकाशशीलमिति सत्त्वमुच्यतेऽत्रैव । रजःक्रियोपरञ्जनात् सर्वावभाससमर्थस्यापि सत्त्वस्य नियतप्रकाशत्वं तमउपरक्तत्वेन । तथा रजसोऽपि प्रवृत्त्यभिव्यक्तिः सत्त्वोपरागेण । नियतप्रवृत्तित्वं तु तमउपरागेण । तथा तमसोऽपि स्थित्यभिव्यक्तिः सत्त्वोपरागेण । स्थितिशीलत्वं रजउपरागेण । स्थितिस्तु स्वत एव । रजसोऽपि प्रवृत्तिः स्वतः । सत्त्वस्यापि प्रकाशः स्वत एव । इत्थमेवान्येष्वपि कार्येषु सत्त्वादीनामितरेतरोपरागो द्रष्टव्यः ॥
संयोगवियोगधर्माणः । संयोगश्च वियोगश्च संयोगवियोगौ, तौ धर्मौ येषां ते संयोगवियोगधर्माणः । कस्मिंश्चित् कार्ये आरभ्यमाणे गुणप्रधानभावेनान्योन्यं संयुज्यन्ते । तथैवारब्धकार्यविरोधिधर्मान्तरोदये परस्परं वियुज्यन्ते ॥
इतरेतरोपाश्रयेणोपार्जितमूर्तयः—महदादिस्तम्बपर्यन्ता मूर्तय इतरेतरोपाश्रयेणोपार्जिता धर्मधर्मिलक्षणा यैस्ते इतरेतरोपाश्रयेणोपार्जितमूर्तयः ॥
परस्परतो भिन्ना अपि—परमार्थतोऽन्योन्यतोऽन्येऽपि । असम्भिन्नशक्तिप्रविभागाः—अत्यन्तं व्यावृत्तकार्यारम्भाभिमुख्यसामर्थ्यभेदाः ॥
तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः प्रधानवेलायामुपदर्शितसन्निधाना गुणत्वेऽपि च व्यापारमात्रेण प्रधानान्तर्णीतानुमितास्तिताः पुरुषार्थकर्तव्यतया प्रयुक्तसामर्थ्याः सन्निधिमात्रोपकारिणोऽयस्कान्तमणिकल्पाः प्रत्ययमन्तरेणैकतमस्य वृत्तिमनु वर्तमानाः प्रधानशब्दवाच्या भवन्ति ।
एतदुक्तं भवति—एकस्मिन् कार्ये आरब्धव्येऽत्यन्तव्यतिषक्तपरस्परशक्तयः कार्यारम्भकाले पृथक्त्वेनानुपलक्ष्यमाणशक्तिप्रविभागा इति ॥
तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः । सात्त्विकानां सत्त्वं तुल्यजातिः, राजसानां रजस्तुल्यजातिः, तामसानां तम इति च । परस्परापेक्षया तु भिन्नजातीयत्वम् । तुल्यजातीयातुल्यजातीयानां शक्तिप्रभेदमनुपतितुं शीलं येषां ते तुल्यजातीयातुल्यजातीयशक्तिप्रभेदानुपातिनः । न हि सात्त्विके वा राजसे तामसे वा प्रारब्धव्यस्य त्रयाणां शक्तिप्रभेदानुपातमन्तरेण कार्यारम्भः सम्भवति ॥
यद्येवं सर्वशक्तिप्रभेदानुपातित्वादेकैकस्य कार्यारम्भे तुल्यं प्राधान्यमित्यत आह—प्रधानवेलायामुपदर्शितसन्निधानाः सर्वे । एकैकस्मिन् प्राधान्येन स्वकार्यारम्भिणि तत्काल इतरयोरपि सन्निधानमुपसर्जनभावेनोपदर्शितमिति प्रधानवेलायामुपदर्शितसन्निधानाः । न हि सर्वेषां युगपत् प्राधान्यम् । समप्रधानत्वे हि प्रधानमेव भवेयुः, न कार्यारम्भित्वम् ॥
अथोच्यते—कथं पुनरेकस्मिन् प्राधान्येन कार्यारम्भिणीतरास्तित्वमवगम्यत इति । तदुच्यते—गुणत्वे चोपसर्जनभावे च व्यापारमात्रेण प्रधान उपलक्ष्यमाणेन व्यापारमात्रेण । प्रधानान्तर्नीतेन न हि प्रधानस्यान्तर्नीतो व्यापारः इतरयोरुपसर्जनभावेनासन्निधाने संभविष्यतीति प्रधानव्यापारेणानुमितास्तित्वाः ॥
एतद्दृश्यमित्युच्यते ।
तदेतद्भूतेन्द्रियात्मकं भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन परिणमते । तथेन्द्रियभावेन श्रोत्रादिना सूक्ष्मस्थूलेन परिणमत इति ।
तत्तु नाप्रयोजनम्, अपि तु प्रयोजनमुररीकृत्य प्रवर्तत इति, भोगापवर्गार्थं हि तद्दृश्यं पुरुषस्येति । तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नं भोगः ।
पुरुषार्थेतिकर्तव्यताप्रयुक्तसामर्थ्याः पुरुषार्थो भोगापवर्गौ तस्येतिकर्तव्यता यथा यथा अर्थनिष्पत्तिस्तथा तथा प्रयुक्तं कार्यारम्भं प्रति सामर्थ्यं येषां ते पुरुषार्थेतिकर्तव्यताप्रयुक्तसामर्थ्याः ॥
सन्निधिमात्रोपकारिणः विकारप्रत्ययरूपसन्निधिमात्रेण पुरुषस्योपकुर्वन्तीति सन्निधिमात्रोपकारिणः । अयस्कान्तमणिकल्पाः ॥
प्रत्ययं वृत्तिं ज्ञानमन्तरेण एकतमस्य वृत्तिं स्थितिलक्षणां समतामनुवर्तमानाः । प्रधानशब्दवाच्या भवन्ति । नैव त्रिगुणीव्यतिरेकेणान्यत्प्रधानं नामास्ति । त एव गुणाः साम्यावस्थाः प्रधानैकशब्दाभिधानीयकं प्रतिपद्यन्ते । वैषम्यं भजन्तो विकारशब्दाभिधेया वृत्तिमन्तो भवन्ति ॥
एतद्दृश्यमित्युच्यते । तदेतद्दृश्यं भूतेन्द्रियात्मकं भूतात्मकमिन्द्रियात्मकं च । कथं तदात्मकत्वमित्याह—भूतभावेन पृथिव्यादिना सूक्ष्मस्थूलेन सूक्ष्मेण तन्मात्ररूपेण स्थूलेन विशेषरूपेण । द्विविधो हि भूतभावस्तन्मात्ररूपो विशेषरूपश्च । विपरिणमते स्थूलसूक्ष्मभावमापद्यते । इन्द्रियभावेनेन्द्रियरूपेण श्रोत्रादिना सूक्ष्मस्थूलेन विपरिणमते । सूक्ष्मेणाहङ्काररूपेण स्थूलेन श्रोत्रादिरूपेण ॥
तत्तु दृश्यं नाप्रयोजनम् । सर्वत्रैव प्रवृत्तेः प्रयोजनदर्शनात् । अपि तु प्रयोजनमूरीकृत्य अङ्गीकृत्य प्रवर्तते । किं पुनर्दृश्यप्रवृत्तिप्रयोजनमित्याह—भोगापवर्गार्थं हि दृश्यं पुरुषस्य अग्न्यादिप्रतिपत्तिवद् ॥भोक्तुः स्वरूपावधारणमपवर्ग इति । द्वयोरतिरिक्तं अन्यद्दर्शनं नास्ति । तथा चोक्तम्—“अयं तु खलु त्रिषु गुणेषु कर्तृष्वकर्तरि च पुरुषे तुल्यातुल्यजातीये चतुर्थे तत्क्रियासाक्षिण्युपनीयमानान् सर्वभावानुपपन्नाननुपश्यन् न दर्शनमन्यच्छङ्कते” इति ।
तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्येते इति ।
कौ पुनस्तौ भोगापवर्गावित्याह—तत्रेष्टानिष्टगुणस्वरूपावधारणमविभागापन्नम् इष्टानां अगरुचन्दनस्पर्शनादिलक्षणानाम् अनिष्टानां प्रतिकूलात्मकानां कृपाणकण्टकादिस्पर्शनरूपाणां गुणानां स्वरूपावधारणं स्वरूपावगमः स्वरूपाध्यवसानम् । तस्य विशेषणं अविभागापन्नं पुरुषप्रत्यये 'नायं पुरुष इदं सत्त्वम्’ इत्यविभागतां गतम् । प्राप्तचैतन्योपग्रहरूपत्वाद्बौद्धस्य प्रत्ययस्य । स इत्थंभूतः पुरुषस्य भोग इत्याख्यायते ॥
तस्माद्भोगस्वरूपाद्बौद्धात् प्रत्ययाद्विविच्य तत्साक्षिणो दृशिरूपस्य स्वरूपावधारणं भोक्तृस्वरूपादवधार्यमाणादुत्तरकालमप्यपवृत्तस्य विशेषाभावादपवर्ग इत्युच्यते । सर्वदा स्वरूपप्रतिष्ठो हि (तदा) स इति । वृत्तिसारूप्यमितरत्र विशेष इति ॥
द्वयोर्भोगापवर्गयोरतिरिक्तमन्यत्तृतीयं दर्शनं नास्ति । यावदविद्या तावदिष्टानिष्टे स्त इति भोग एव । पुरुषस्य त्वहेयानुपादेयस्वरूपत्वात् तदवधारणे कुतो भोग इति भोगरूपस्याविद्यालक्षणस्य प्रत्ययस्य प्रतिपक्षः प्रत्ययः पुरुषावधारणम् । यस्मादेतदत एतद्दर्शनद्वयव्यतिरेकेण तृतीयं दर्शनान्तरं न कल्पयितुं शक्यते ॥
तथा चोक्तम्—अयं तु खल्वेवं सम्यग्दर्शी त्रिषु गुणेषूक्तलक्षणेषु कर्तुषु सर्वव्यापारनिर्वृत्तिकरेष्वकर्तरि च गुणधर्मविलक्षणे पुरुषे चतुर्थे तत्क्रियासाक्षिणि गुणक्रियासूपद्रष्टरि सन्धिक्रियासाक्षिभूतोपद्रष्टृवदुपानीयमानान् अन्तःकरणलक्षणैर्गुणैः प्राप्यमाणान् दर्शितविषयत्वात् सर्वभावान्
यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते, स हि तत्फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुषे व्यपदिश्येते, स हि तत्फलस्य भोक्तेति । बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थावसायो मोक्ष इति । एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः, स हि तत्फलस्य भोक्तेति ॥ १८ ॥
उपपन्नान् गौणानेव बौद्धप्रत्ययाकारेण परिनिष्पन्नान् पश्यन् उपलभमानो नाहं न ममेत्येवं न दर्शनमितोऽन्यत् सम्भवति सम्यग्दर्शनमिति न शङ्कते । नास्त्येवान्यत् सम्यग्दर्शनमिति मन्यते ॥
तावेतौ भोगापवर्गौ बुद्धिकृतौ बुद्धिनिर्वर्तितौ बुद्धावेव वर्तमानौ । अन्यकृतस्याप्यन्यत्र वृत्तिदृष्टा यथा रजककृतो वस्त्रराग इति कथं पुरुषेऽपदिश्येते ? इति तौ बुद्धावेव वर्तमानौ पुरुषेऽपदिश्येते इति कुत एतत्? स हि तत्तत्फलस्य भोक्तेति सम्यङ्मिथ्याप्रत्यययोरुपलब्धेति ॥
दृष्टान्तेन व्याख्यातमर्थं निगमयति—यथा विजयः पराजयो वेति । बुद्धेरेवार्थापरिसमाप्तिर्बन्ध इति । यावत् समाप्तौ कर्तव्यौ भोगापवर्गाविति बुद्धिर्मन्यते तावद्बन्धः । तदर्थावसायो मोक्षः । तस्या एव बुद्धेरर्थावसायः कर्तव्यसमाप्तिः । यदा आत्मविलक्षणं बन्धमोक्षासम्बन्धिनं पुरुषमीक्षते नास्य कर्तव्यमस्तीति, स कर्तव्यावसायो बुद्धेर्मोक्ष इति ॥
एतेन ग्रहणधारणविज्ञानोहापोहक्रियावचनयथान्यायावधारणाभिनिवेशाः पुरुषेऽध्यारोपितसद्भावा इति ज्ञेयाः । प्रत्ययत्वाविशेषात् बुद्धिधर्माः बुद्धावेव वर्तमानाः बुद्धिकृताः पुरुषेऽध्यारोपितसद्भावाः पुरुषो गृह्णाति पुरुषो धारयतीत्येवमेव पुरुषे अध्यारोप्यन्ते ॥
दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते—