सूक्ष्मविषयत्वञ्चालिङ्गपर्यवसानम् ॥ ४५ ॥
भूतसूक्ष्मेषु सर्वधर्मानुपातिषु सर्वान्धर्माननुपतन्ति तानि सूक्ष्माणि सर्वविशेषारम्भकत्वात् । सर्वात्मकेषु सर्वेभ्यो विषयेभ्योऽनन्यत्वात्तन्मात्राणाम् । तत्र या समापत्तिः सा निर्विचारेति । निर्वितर्काया यल्लक्षणं तत्सर्वमिह निर्विचारायां द्रष्टव्यम् ॥
तद्दर्शयति—एवंस्वरूपं हि तद्भूतसूक्ष्ममनेनैव स्वरूपेण देशकालनिमित्तानुभवादिविशेषविरहितेन सर्वात्मकेन सर्वधर्मानुपातिना आलम्बनीभूतमेव समाधिप्रज्ञामुपरञ्जयति ॥
प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारा । तस्मान्निर्वितर्काविशेषा निर्विचारा । तत्स्वयमेव दर्शयति—महद्वस्तुविषया । महतः वस्तु महद्वस्त्विति समासः राहुशिर इति यथा । तद्विषयो यस्याः सा महद्वस्तु विषया सवितर्का निर्वितर्का च सूक्ष्मवस्तुविषया सविचारा निर्विचारा चेति ॥
एतयैव सवितर्कनिर्वितर्काख्यया द्वय्या समापत्त्या सविचारा निर्विचारा च समापत्तिर्द्वयी व्याख्याता । उभयोरिति सवितर्कनिर्वितर्कयोर्मध्ये एतयैव निर्वितर्कया वितर्कहानिर्व्याख्याता निर्विचारा व्याख्यातेति । सविचारा चार्थात्सवितर्कया व्याख्याता लक्षणस्योभयत्र समानत्वात् । उक्तश्च विशेषः ॥ ४४ ॥
सविचारा निर्विचारा च समापत्तिः सूक्ष्मविषयेत्युक्तम् । तत्प्रसङ्गेनेदं चिन्त्यते—कि(मसमानं)मवसानं सूक्ष्मविषयत्वमिति ।
सूक्ष्मविषयत्वञ्चालिङ्गपर्यवसानम् । पार्थिवस्याणोर्गन्धमात्रस्वरूपमात्रतेति पृथिवीसमीक्षया सूक्ष्मो विषयः ॥
पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मो विषयः । आप्यस्य रसतन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायवीयस्य स्पर्शतन्मात्रम् । आकाशस्य शब्दतन्मात्रमिति । तेषामहङ्कारः । अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यालिङ्गं सूक्ष्मो विषयः । न चालिङ्गात्परं सूक्ष्ममस्ति ।
नन्वस्ति पुरुषः सूक्ष्म इति—सत्यम्—यथा लिङ्गात्परमलिङ्गस्य सौक्ष्म्यं, न चैवं पुरुषस्य । किन्तु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥
गन्धमात्रस्वरूपमात्रस्यापि लिङ्गमात्रं महत्तत्त्वं सूक्ष्मो विषयः । ततो लिङ्गमात्रान्महतो निर्वृतानि सहाहङ्कारेण तन्मात्राणि लयं गच्छन्तीति लिङ्गं, लयाद्वा प्रधानाल्लिङ्गात्प्रत्यागच्छन्तीति लिङ्गं, तद्विपरीतमलिङ्गं प्रधानं न लयं गच्छति, नाप्यन्यतः कुतश्चित् लयादागच्छति । लिङ्गमात्रस्यालिङ्गं सूक्ष्मो विषयः ॥
न चालिङ्गात्परं सूक्ष्ममस्ति । सूक्ष्मं नाम स्थूलकार्यापेक्षया कारणं, तञ्चालिङ्गावसानम् । न चालिङ्गात् प्रधाना(लिङ्गा)दन्यत्सूक्ष्मं कारणमस्ति ॥
ननु पुरुष इति । ननु तत्र पुरुषस्यानाशङ्कैव, कार्यकारणसूक्ष्मतया प्रक्रमात्—नैष दोषः—पुरुषस्यापि कैश्चित्कारणत्वस्याभ्युपगमात् । तदाशङ्क्यैव ह्येतदुच्यते ननु पुरुष इति । सत्यमलिङ्गात्मक[त्व]मलिङ्गस्य सौक्ष्म्यम् । कुतः ? यतः कारणमलिङ्गं लिङ्गस्य । यद्यस्यान्वयिकारणं तत्तदपेक्षया सूक्ष्ममिति प्रकृतम् । ननु पुरुषोऽप्यलिङ्गात्मक एव । बाढं, न तु लिङ्गापेक्षया पुरुषः सूक्ष्मः । कुतः ? यतस्तु लिङ्गस्यान्वयिकारणं पुरुषो न भवति सत्यप्यलिङ्गात्मकत्वे । कार्यस्य चैतन्येनानन्वितत्वात् ॥
किञ्च—पुरुषस्यापि भोग्यत्वप्रसङ्गः । तथा च पारार्थ्यं सुखदुःखमोहात्मकत्वं च, निर्हेतुकत्वं च प्रधानस्य (पुरुषस्य) । तच्च सर्वप्रमाण(प्राण) विप्रकुपितमित्यत आह—हेतुस्तु भवतीति । प्रधानप्रवृत्तौ भोक्तृत्वेन निमित्तं भवतीत्यर्थः । अतः प्रधानस्य सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥