साधनपादः · २.३२

शौचसंतोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२ ॥

व्यासभाष्यम्

 तत्र शौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्यम् । आभ्यन्तरं चित्तमलानां आक्षालनम् । संतोषः संनिहितसाधनाश्वासादधिकस्यानुपादित्सा ।

विवरणम्

सैवाहिंसा देशावच्छिन्ना कथम् ? न तीर्थे प्रयागादौ हनिष्यामीति । तीर्थेष्वहिंसा च तीर्थादन्यं देशं न व्यश्नुत इति असार्वभौमी ॥

सैव च कालावच्छिन्ना यथा—न चतुर्दश्यां न पुण्येऽहनीति । चतुर्दश्यादिकालादन्यं कालं न व्यश्नुत इति साप्यसार्वभौमी ॥

 त्रिभिः अपि जातिदेशकालैः उपरतस्य तस्यैव मत्स्यबन्धकस्य समयावच्छिन्ना समयः कर्तव्यतानियमः, कथम् ? देवब्राह्मणार्थं हनिष्यामि नान्यथेति, श्राद्धादिसमयभूमिमनश्नुवाना वर्तत इति साऽपि न सार्वभौमी । यथा च क्षत्रियस्य युद्ध एव हिंसा नान्यत्रेति समयावच्छिन्नस्यैवोदाहरणम् ॥

 ये पुनरेते यमाः जातिदेशकालसमयैरनवच्छिन्ना अहिंसादयः, ते सर्वथैव परिपालनीयाः सर्वभूमिषु जात्यादिषु सर्वविषयेषु सर्वप्राणिषु सर्वथैवाविदितव्यभिचाराः विना व्यभिचारेण, ते चेत्थं विशिष्टाः सार्वभौमा महाव्रतमित्युच्यन्ते ॥ ३१ ॥

 शौचसन्तोषतपस्स्वाध्यायेश्वरप्रणिधानानि नियमाः । तत्र शौचं मृदादिजनितम् आदिशब्दादुदकं च । मेध्याभ्यवहरणानि च घृतपय-आदीनि भक्षणानि । चशब्दात् मेध्यदर्शनश्रवणादीनि च । बाह्यमेतच्छौचम् ॥

 आभ्यन्तरमधुनोच्यते-चित्तमलानां कामक्रोधादीनां तत्प्रतिपक्षभावनासलिलैः आक्षालनम् ॥

व्यासभाष्यम्

तपो द्वन्द्वसहनम् । द्वन्द्वाश्च जिघत्सापिपासे, शीतोष्णे, स्थानासने, काष्ठमौनाकारमौने च, व्रतानि चैषां यथायोगं कृच्छ्रचान्द्रायणसान्तपनादीनि । स्वाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा । ईश्वरप्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणम् ॥

 शाय्यासनस्थोऽथ पथि व्रजन् वा स्वस्थः परिक्षीणवितर्कजालः ।

 संसारबीजक्षयमीक्षमाणः स्यान्नित्ययुक्तोऽमृतभोगभागी ॥

यत्रेदमुक्तम्—‘ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च' इति ॥ ३२ ॥

विवरणम्

 सन्तोषः सन्निहितसाधनाश्वासात् सन्निहितादाश्वासनिमित्तात् अधिकसाधनानुपादित्सा सन्निहितमात्रादतृप्तौ सत्यामप्यलंप्रत्ययः ।

तपो द्वन्द्वसहनम्। द्वन्द्वाश्च जिघत्सापिपासे । जिघत्सा अत्तुमिच्छा । पातुमिच्छा पिपासा । जिघत्सापिपासासहनं तपः । स्वरूपेणैव [वा] ते जिघत्सापिपासे अल्पीयःपानाशननिमित्ते तपः । शीतोष्णे अप्रतिक्रियमाणे अल्पप्रतिक्रिये वा तपः । स्थानासने ‘तिष्ठेदहनि रात्रावासीत’ इति स्मृतिप्रस्थानम् । काष्ठमौनाकाष्ठमौने । काष्ठमौनं हस्तप्रयोगादिरहितम् । अकाष्ठमौनं हस्तादिप्रयोगयुक्तं सम्भाषणादिरहितम् ।

व्रतानि चैषां योगिनां यथायोगं यथासम्भवम्। होमादिविरुद्धधर्मविरुद्धप्रतिषेधार्थं यथायोगमित्याह। कानि तानि? कृच्छ्रादीनि। कृच्छ्रं प्राजापत्यादि। त्र्यहं प्रातः त्र्यहं सायं त्र्यहमद्यादयाचितम्। उपोषणं त्र्यहम्' इति । चान्द्रायणं यवमध्यपिपीलिकामध्यादि । ‘एकैकं वर्धयेत् ग्रासम्’इत्यादिस्मृतिः । सान्तपनम्—

 ‘गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।

  एकरात्रोपवासश्च कृच्छ्रः सान्तपनः स्मृतः ॥’

 एतान्येव द्रव्याणि त्रिरभ्यस्तानि महासान्तपनम् । आदिग्रहणं पराकादिप्रत्युपादानार्थम् । स्वाध्यायो मोक्षशास्त्राध्ययनम् उपनिषदाद्यध्ययनं प्रणवजपो वा । प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्चेति ॥ ३२ ॥

व्यासभाष्यम्

 एतेषां यमनियमानाम्—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →