ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६ ॥
[ भाष्यम् ]
प्रातिभात्सूक्ष्मव्यवहितविप्रकृष्टातीतानागतज्ञानम् । श्रावणाद्दिव्यशब्दश्रवणम् । वेदनाद्दिव्यस्पर्शाधिगमः । आदर्शाद्दिव्यरूपसंवित् । आस्वादाद्दिव्यरससंवित् । वार्तातः संव्यवहारतत्त्वरूपं यथावत् अधिगच्छति (दिव्यगन्धविज्ञानमित्येतानि नित्यं जायन्ते) ॥ ३६ ॥