तत्र पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२ ॥
समाहितचित्तस्य पूर्वः प्रत्ययः शान्तः । उत्तरः तत्सदृश उदितः ।
सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः । सर्वार्थता भोगापवर्गार्थयोग्यताविचित्रता चित्तधर्मः । वक्ष्यति—‘द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्’ इति । एकाग्रताऽपि चित्तस्य धर्मः शान्तोदितप्रत्यययोः साम्यं समाधीयमानस्य चित्तस्य सर्वार्थतायाः क्षयः भवति । तिरोभावः इत्यर्थः । न हि किंचिद्विद्यमानं विनङ्क्ष्यति । एकाग्रताया उदयः भवति । आविर्भाव इत्यर्थः । नाविद्यमानमुत्पद्यते ॥
तयोः क्षयोदययोः धर्मित्वेनानुगतं चित्तम् । पूर्वसूत्रादन्वयग्रहणमिहापि सन्निधीयते । सर्वार्थतायाः क्षयमेकाग्रतायाश्चोदयं नियमेनान्वीयमानं चित्तं समाधिप्राधान्येन परिणमते । योऽसौ चित्तेन सर्वार्थतैकाग्रताक्षयोदययोरनुगमः स समाधिपरिणामः । समाधेश्च प्राधान्यमेकाग्रताभूमौ व्याख्यातम् 'यस्त्वेकाग्रे चेतसि स भूतमर्थं प्रद्योतयति’ इति ॥
तदेवाह—तदिदं चित्तम्, अपायोपजनौ स्वात्मभूतौ अव्यतिरिक्तौ तयोर्धर्मयोः सर्वार्थतैकाग्रतयोः अनु(भवा) गमात् समाधीयते । स चित्तस्य समाधिप्राधान्यात् समाधिपरिणामः ॥ ११ ॥
तत्र पुनः समाधिकाले शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रता परिणामः । समाहितचित्तस्य निरुद्धबाह्यवृत्तेः पूर्वः प्रत्ययः शान्तः तिरोभूतः । उत्तरस्तत्सदृश उदितः प्रादुर्भूतः । समाधिचित्तं समाधानविशिष्टं समाध्यवस्थम् । समाधिचित्तमुभयोः शान्तोदितयोः प्रत्यययोः अनुगतम् ॥
31समाधिचित्तं उभयोरनुगतम् । पुनस्तथैव आ समाधिभ्रेषात् इति । स खल्वयं धर्मिणः चित्तस्य एकाग्रतापरिणामः ॥ १२ ॥