बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ ५० ॥
भवतीत्यर्थः । आनन्त्ये वा समापन्नम् । अनन्तं विश्वम्, अनन्तभाव आनन्त्यम्, तस्मिन् समापन्नं, व्याप्य विश्वभावं स्थितं चित्तमासनं निर्वर्तयति द्रढयति ॥ ४७ ॥
ततो द्वन्द्वानभिघातः । ततः आसनस्थिरीभावात् । इदं दृष्टमानुषङ्गिकम् । यत् शीतोष्णादिभिर्द्वन्द्वैर्नाभिभूयते ॥ ४८ ॥
किञ्च—प्राणायामादियोग्यता च भवति । कथम् ? तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः । सत्यासने दृढे बाह्यस्य वायोराचमनं श्वासः । यथा सन्ततत्वादुदकं नालेनाकृष्यते, तथा सन्ततत्वात् नासिकापुटनालाभ्यामपानवायुसंबन्धो बहिर्वायुराकृष्यते, तदाकर्षणं श्वासः । तथा कौष्ठ्यवायोर्निःशारणम् । प्राणवृत्तिसम्बन्धो हि कौष्ठ्यो वायुः । तस्य बहिर्निस्सारणं प्रश्वासः । तयोर्गतिविच्छेदः । किमुक्तं भवत्यत आह—उभयाभावः प्राणायाम इति ॥ ४९ ॥
स तु त्रिविधः बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः । स बाह्यवृत्तिरभ्यन्तरवृत्तिः स्तम्भवृत्तिश्च । यत्र श्वासपूर्वको गत्यभावः स बाह्यवृत्तिः । बाह्यस्य वायोरन्तः प्रवेशनं प्रति वृत्तिः यस्य स बाह्यवृत्तिः । तस्मात् स बाह्यः । बाह्यमन्ये पूरक इत्याचक्षते ॥
यत्र प्रश्वासपूर्वको गत्यभावः स बाह्यः । यत्र श्वासपूर्वको गत्यभावः स आभ्यन्तरः । तृतीयः स्तम्भवृत्तिः, यत्रोभयाभावः सकृत्प्रयत्नाद्भवति । यथा तप्ते न्यस्तमुपले जलं सर्वतः सङ्कोचमापद्यते, तथा द्वयोर्युगपद्गत्यभाव इति । त्रयोऽप्येते देशेन परिदृष्टाः, इयानस्य विषयो देश इति । कालेन परिदृष्टाः, क्षणानामियतावधारणेनावच्छिन्ना इत्यर्थः । सङ्ख्याभिः परिदृष्टाः, एतावद्भिः श्वासप्रश्वासैः प्रथम उद्धातः, तद्वन्निगृहीतस्यैतावद्भिर्द्वितीयः उद्घातः, एवं तृतीयः । एवं मृदुः, एवं मध्यः, एवं तीव्र इति सङ्ख्यापरिदृष्टः । स खल्वयमेवमभ्यस्तो दीर्घसूक्ष्मः ॥ ५० ॥
यत्र प्रश्वासपूर्वको गत्यभावः स आभ्यन्तरवृत्तिः । आभ्यन्तरस्य वायोर्बहिर्निस्सारणं प्रति वृत्तिर्यस्य स आभ्यन्तरवृत्तिः । तस्मात् स आभ्यन्तरः । तं रेचक इत्याचक्षते ॥
तृतीयस्तु स्तम्भवृत्तिः । तत्रोभयाभावः आचमननिःशारणयोरभावः स तु सकृत्प्रयत्नात् प्रभवति । यथा तप्ते न्यस्तं उपले जलं सर्वतः संकोचमापद्यते, तथा सकृत्प्रयत्नात् प्राणादिवृत्तयः संकोचमुपयान्तीत्याह— द्वयोर्युगपत् गत्यभाव इति ॥
त्रयोऽप्येते देशेन परिदृष्टाः इयानस्य देश इति । यथा बहिर्वृत्तेरन्तराचम्यमानस्य नासिकाग्रप्रभृत्यापादाङ्गुष्ठं देशव्याप्तिः । एवमन्तर्वृत्तेर्बहिर्निश्चार्यमाणस्य वायोः पादाङ्गुष्ठप्रभृत्यानासिकाग्रं देशव्याप्तिः । स्तम्भवृत्तेरामस्तकापादतलव्याप्तिः । अथवा बहिरपि वितस्त्यादिक्रमेण देशव्याप्तिरस्त्येव ॥
कालेन परिदृष्टाः, क्षणानामियत्तावधारणेन इयन्तः क्षणाः प्राणायामेनातिवाहिता इति ॥
तथा सङ्ख्याभिः परिदृष्टाः, एतावद्भिः श्वासप्रश्वासैः अतीतैः परिदृष्टः प्रथम उद्धातः । यथा, निरोधक्षुभितानां वायूनां सकृत् मूर्धानमुद्धत्य निवृत्तिः प्रथम उद्धातः । स एव मृदुः ॥
पुनश्च सकृदुद्धतनिगृहीतस्य वायोः तावद्भिः प्रश्वासैरतीतैः
परिदृष्टो द्वितीय उद्धातः प्राणायामो मध्यम इत्युच्यते ॥