एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३ ॥
एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्च उक्तो वेदितव्यः ।
पुनस्तथैव यथा प्रत्यय आद्यः शान्त उत्तरस्तत्सदृश उपजातः, स च शान्तः पुनरन्य उदितः, स शान्तः पुनश्चान्य उदितः, इत्येवं आ समाधिभ्रेषात् व्युत्थानसंस्कारेण यावत् समाधिः विभ्रंशते ॥
स खल्वयं धर्मिणः चित्तस्य प्रतिक्षणं सदृशशान्तोदितप्रत्यययोरनुगमः एकाग्रतापरिणामः ॥
तत्र यावत् बाह्यवृत्तिनिरोधादारभ्य चित्तस्य संस्कारपरिशेषता, तावत् निरोधपरिणामः ॥
तथा बाह्यप्रत्ययनिरोधात् प्रभृति आ प्राक् अशेषप्रत्ययनिरोधात्, अशेषप्रत्ययनिरोधोत्तरकालं च एकाग्रतोदयाभावात्, तावत् समाधिपरिणामः ॥
तथा समाधिपरिणामकाल एव शान्तोदितयोस्तुल्ययोः संभवादेकाग्रतापरिणामः । पूर्वपरिणा(मान)मनान्तरीयकत्वमुत्तरोत्तरपरिणामस्येति क्रमेण त्रयोऽपि परिणामा व्याख्याताः ॥
किमनेन परिणामान्वाख्यानेन प्रयोजनम् ? उच्यते—चलं गुणवृत्तं, गौणं च समस्तं परिणामधर्मकमनवस्थितमिति वैराग्यभावनार्थम् । तथा परिणामत्रयसंयमादतीतानागतज्ञानार्थं च एतदन्वाख्यानम् ॥ १२ ॥
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः । एतेन पूर्वोक्तेन चित्तपरिणामेन । किंविशिष्टेन ? धर्मलक्षणावस्थारूपेण धर्मरूपेण लक्षणरूपेण अवस्थारूपेण च । भूतेन्द्रियेषु भूतेषु पृथिवीप्रभृतिषु स्थूलेषु, इन्द्रियेषु च श्रोत्रादिषु, येषां तत्त्वान्तरपरिणामो नास्ति । धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः ॥
तत्र व्युत्थाननिरोधयोः अभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपरिणामो निरोधस्त्रिलक्षणः त्रिभिरध्वभिर्युक्तः । स खलु अनागतलक्षणमध्वानं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः यत्रास्य स्वरूपेण अभिव्यक्तिः । एषोऽस्य द्वितीयोऽध्वा ।
चित्तस्यानवस्थितत्वेन गम्यमानेन परिणामेन भूतेन्द्रियाणां परिणामस्य प्रकारत्रययोगिनः चित्तपरिणतिवत् अनुविज्ञानत्वात् अतिदेशः क्रियते ॥
ननु च निरोधसमाध्येकाग्रतापरिणामाश्चित्तस्याभिहिताः । न तु धर्मलक्षणावस्थापरिणामाः । कुतस्तत्रातिदेश इति, अभिहितत्वमेषां दर्शयति—तत्र व्युत्थाननिरोधयोः धर्मयोः अभिभवप्रादुर्भावौ धर्मिणि चित्ते धर्मपरिणामः ॥
एतस्माद्धि धर्मभेदवचनात् धर्मभेदमवादिष्म । तयोश्च धर्मपरिणामयोः व्युत्थाननिरोधयोरभिभवप्रादुर्भाववचनात् लक्षणावस्थापरिणामावपि च अवादिष्मैव ॥
कथम् ? वर्तमानलक्षणादतीतलक्षणमभिसम्पद्यमानो धर्मोऽभिभूयते । यश्च अनागतलक्षणात् वर्तमानलक्षणमभिसम्पद्यमानः स प्रादुरस्ति । तदभिभवप्रादुर्भाववचनाच्च प्रतिक्षणं दुर्बलरूपोऽवस्थापरिणाम उक्तो भवतीत्याह—लक्षणपरिणामो निरोधस्त्रिलक्षण इति ॥ चित्ते लक्षणपरिणामः त्रिलक्षणत्वेन त्रिभिरध्वभिः अतीतानागतवर्तमानैः युक्तः प्रतिपाद्यते परिणामिनो ह्येकैकस्य त्रयेऽप्यध्वान एतेऽवश्यंभाविनः । यस्य त्वेते न सन्ति सोऽपरिणामी कूटस्थ इत्युच्यते ॥
स खलु निरोधः अनागतलक्षणमध्वानं हित्वा धर्मत्वं निरोधधर्मत्वं अनतिक्रान्तः असत्कार्यारम्भाभावात् । असत्कार्यारम्भे हि त्रिकालत्वमेकस्य वस्तुनो नोपपद्यते (नापि) कालत्रयपरिच्छेद्यस्य विलक्षणस्याभावात् । अत उच्यते—धर्मत्वमनतिक्रामन्नेव वर्तमानं लक्षणं प्रतिपन्नः यत्र यस्मिन् वर्तमाने लक्षणे अस्य स्वरूपेणाभिव्यक्तिः एषोऽस्य निरोधस्य अनागताध्वसमीक्षया द्वितीयोऽध्वा ॥
न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तं अतीतलक्षणं प्रतिपन्नम् । एषोऽस्य द्वितीयोऽध्वा । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् । पुनः व्युत्थानमुपसम्पद्यमानं अनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तं इति ! एवं पुनर्निरोधः, एवं पुनर्व्युत्थानं इति ।
यदा तु व्युत्थानं वर्तमानं लक्षणमारोक्ष्यति, तदा निरोधोऽतीतलक्षणमध्वानं तृतीयं प्राप्स्यतीति स तृतीयोऽध्वा भविष्यत्येव ।
स्यादेतत्—वर्तमानलक्षणप्रतिपत्तौ निरोधस्य त्र्यध्वत्वं नास्तीति, अत आह—न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः । कुतः ? येन स एवानागतो वर्तमानोऽतीतश्चेति ॥
तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिः अतीतानागतवर्तमानैः युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तं यथा व्याख्यातं निरोधे निरोधिनि धर्मे वर्तमानमध्वानमभिसम्पद्यमाने अतीतलक्षणं अध्वानं प्रतिपन्नम् ॥ एषोऽस्य व्युत्थानस्य वर्तमानं प्रथममध्वानमभिसमीक्ष्य द्वितीयोऽध्वा । द्वितीये तु पर्याये तृतीय एवाध्वा द्वितीयो भविष्यति । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् ॥
पुनर्व्युत्थानं निरोधसंस्कारेण उपसम्पद्यमानम् अनागतलक्षणं अध्वानं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपेणाभिव्यक्तौ सत्यां व्यापारः स्वकार्यापादनसामर्थ्यम् । एषोऽस्य अनागताभिसमीक्षया द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तम् ॥ यथा चित्तं व्युत्थाननिरोधधर्माभ्यां न युज्यते । एवं पुनर्निरोधः एवं पुनः व्युत्थानमिति एष लक्षणपरिणामश्चित्तधर्मयोर्व्युत्थाननिरोधयोः ॥
तथा अवस्थापरिणामः । निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति, दुर्बला व्युत्थानसंस्काराः, इत्येवं (ष) धर्माणामवस्थापरिणामः ॥
धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामपि अवस्थाभिः परिणाम इत्येवं धर्मलक्षणावस्थापरिणामैः अशून्यलक्षणं गुणवृत्तमवतिष्ठते । चलं गुणवृत्तम् । गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणानाम् इति ॥
एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः परिणामो वेदितव्यः ।
तथा अवस्थापरिणामः परिदृश्यते । कथम् ? निरोधक्षणेषु निरोधे वर्तमाने निरोधसंस्कारा बलवन्तो भवन्ति । संस्कारबलवत्त्वेन निरोधबलवत्त्वमपि । दुर्बला व्युत्थानसंस्काराः, तत एव व्युत्थानदुर्बलत्वमपि । तथा व्युत्थानलक्षणे व्युत्थानसंस्कारबलीयस्त्वं निरोधसंस्कारदुर्बलत्वम्, इत्येवं प्रतिक्षणं दृढदुर्बलावस्थाभ्यां युज्यमानानां धर्माणां अवस्थापरिणामः ॥
तत्र केन रूपेण कस्य परिणाम इति दर्शयति—धर्मिणो धर्मैः परिणामः । यथा चित्तस्य धर्मिणो निरोधव्युत्थानादिधर्मैः । धर्माणां त्र्यध्वनां लक्षणैः परिणामः । यथा निरोधादिचित्तधर्माणां अनागतादिलक्षणैः । लक्षणानामप्यवस्थाभिः परिणामः । यथा वर्तमानादिलक्षणानां दृढदुर्बलत्वाद्यवस्थाभिः । इत्येवं धर्मलक्षणावस्थापरिणामैः अशून्यलक्षणम् अशून्यरूपं गुणवृत्तमवतिष्ठते ॥
चलं गुणवृत्तम् । एतदेव तु गुणस्वाभाव्यं प्रवृत्तिकारणं सकलव्यापारकारणं उक्तं गुणानां सत्त्वादीनाम् इति । एतेन चेतसि प्रसिद्धेन धर्मलक्षणावस्थापरिणामत्रितयेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः परिणामो वेदितव्यः ॥
परमार्थतस्तु एक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्मः । धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैव अध्वसु अतीतानागतवर्तमानेषु भावान्यथात्वं भवति, न द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वा अन्यथा क्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वम् इति ।
अपर आह—धर्माभ्यधिको धर्मी । पूर्वतत्त्वात् अनतिक्रामन् पूर्वापरावस्थाभेदं अनुपतितः कौटस्थ्येनापि परिवर्तेत यद्यन्वयी स्यात् इति ॥
परमार्थतस्त्वेक एव परिणामः । कथम् ? धर्मिस्वरूपमात्रो हि धर्मः । न हि धर्मिपरिहारेण धर्मो नाम पृथगस्ति । नापि धर्मपरित्यागेन लक्षणं नाम पृथक् भाव्यते । नापि लक्षणव्यतिरेकेण अवस्थानां पृथक्त्वं भवति । तेन धर्मिविक्रियैवैषा धर्मद्वारा धर्मभेदद्वारेण त्रिधा प्रपञ्च्यते ॥
कथं पुनर्धर्मिविक्रियैवैषा । न पुनरत्यन्तापूर्वोत्पत्तिविनाशाविति ? तत आह—तत्र धर्मस्य घटादेः धर्मिणि मृदाख्ये वर्तमानस्य अध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वमेव प्रत्ययान्यथात्वम्, अतीतो घटः, वर्तते, अनागतः, इति च धर्मिणि वर्तमानस्यैव । स एव धर्मस्याविर्भावतिरोभावान्यथात्वम् । न द्रव्यान्यथात्वं तदेव मृदूद्रव्ये धर्मि रूपान्तरं च ॥
उदाहरणं परिदर्शयति—यथा सुवर्णभाजनस्य भित्त्वा अन्यथा कुण्डलादिभावेन क्रियमाणस्य भावान्यथात्वं स्वस्तिककुण्डलादिसंस्थानान्यत्वम् । न सुवर्णद्रव्यान्यथात्वमिति ॥
अपर आह असत्कार्यसमारम्भाभिमानी—धर्माभ्यधिको धर्मव्यतिरिक्तो धर्मी, धर्मश्चाविद्यमानोऽन्यश्चान्यश्च समुदायिष्यते । न पुनरेको धर्मी धर्मेषु भूतभविष्यद्वर्तमानेषु धर्माव्यतिरिक्तोऽन्वयीति ॥
यद्यन्वयी धर्मानभ्यधिको धर्माव्यतिरिक्तः पूर्वतत्त्वात् पूर्वपूर्वद्रव्यस्वरूपात् अनतिक्रामन् पूर्वापरावस्थाभेदम् अतीताद्यवस्थाभेदम् अनुपतितः अनुगतः स्यात्, ततश्च एष दोषः प्रसजति—स धर्मी तवाभिमतः कौटस्थ्येनापि परिवर्तेत अपरिणामित्वे वर्तेत ॥
अयमदोषः । कस्मात् ? एकान्तानभ्युपगमात् । तदेतत् त्रैलोक्यं व्यक्तेरपैति । नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति । विनाशप्रतिषेधात् ।
अत्राह—अयमदोषः । कस्मात् ? एकान्तानभ्युपगमात् अत्यन्तकौटस्थ्यविनाशयोः धर्मिणोऽनभ्युपगमात् । यद्यत्यन्तं कूटस्थो धर्मी स्यात् आत्मवत्, ततश्च अस्माद्धर्मिणो धर्माणामभेदात् कौटस्थ्यं प्रसज्येतेति दोषः स्यात् । न तु धर्मिणां गुणानामत्यन्तकौटस्थ्यमभ्युपगम्यते । परिणामिनित्यत्वं हि गुणानां वदिष्यति ॥
अथ वा, धर्मधर्मिणोः एकान्तभेदाभेदानभ्युपगमात् । एकान्तेन हि धर्मिभ्योऽन्वयिभ्यो धर्माणां[अ]भेदे कौटस्थ्यं प्राप्नुयात् । अत्यन्तभेदे वा धर्माणां अत्यन्तविनाशः स्यात् । न त्वत्यन्तभेदाभेदावभ्युपायिष्येते । तस्मात् न कौटस्थ्यदोष इति ॥
कथं कौटस्थ्याभाव इत्याह—तदेतत् त्रैलोक्यं व्यक्तेरपैति, न कूटस्थम् । कस्मात् ? नित्यत्वप्रतिषेधात् । कार्यत्वादेव हि नित्यत्वं प्रतिषिद्धम् । अथात्यन्तविनष्टमिति चेदाह—अपेतमप्यस्ति, विनाशप्रतिषेधात् । कारणस्य नित्यत्वात् तदभेदाच्च कार्यस्य अत्यन्तविनाशः प्रतिषिद्ध एव ॥
ततश्च यदुच्यते कैश्चित्—विरुद्धहेत्वाभासोदाहरणमेतदिति, कथं ? यथा—‘असौ विकारो व्यक्तेरपैति, नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति, विनाशप्रतिषेधात्’ इत्यत्र नित्यत्वप्रतिषेधात् इत्ययं हेतुः ‘अपेतोऽपि विकारोऽस्ति’ इत्यनेन सिद्धान्तेन विरुध्यते ॥
कथम् ? व्यक्तिरात्मलाभः, अपायः प्रच्युतिः, यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति, नित्यत्वप्रतिषेधो नोपपद्येत । यत्तु व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति ॥
नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतिः । यदात्मलाभात्, प्रच्यवते तदनित्यम् । यदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वं च आत्मलाभात् प्रच्युतिश्चेति विरुद्धावेतौ धर्मौ सह न सम्भवतः । सोऽयं हेतुः यं सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति विरुद्धो हेतुरिति ॥
नायं दोषः । वस्तूनां व्यक्ताव्यक्तधर्मकत्वाभ्युपगमात् । यथा हि घटादिर्विद्यमानोऽपि सन् अगारे नोपलभ्यते । न च तावता असौ नास्तीति शक्यं प्रतिज्ञातुम् । आलोकोपायेन हि व्यज्यते । तथा इदं त्रैलोक्यं कारणे संसृष्टं विद्यमानमेव अनभिव्यक्तात्मकगुणस्वभावतया, पुरुषार्थनिमित्तेनाविष्क्रियते ॥तथैव च गतिसंस्कारक्षये स्थितिसंस्काराभिव्यक्तौ कारणं प्रति संसृज्यमानं व्यक्तेरपैति । यथा दीपालोकतिरोधाने विद्यमानोऽपि घटादिः सन्तमसावष्टम्भात् व्यक्तेरपसरति, तथा अत्रापि महदादयो धर्माः त्र्यध्वानः संसर्गविसर्गधर्माणः, न तु सत्त्वादयो धर्मिणः ॥
ततस्त्रैलोक्यं महदादिस्तम्बपर्यवसानं सत्त्वादीनां धर्मभूतम[न]भिव्यक्तिधर्मकं सत् अत्यन्तनिरुद्धसूक्ष्मधर्मसमुदयात् व्यक्तिस्थूलधर्मरूपेण न गृह्यत इत्युच्यते—तदेतत् त्रैलोक्यं व्यक्तेरपैति इति । न पुनः धर्मिस्वरूपेणापायः । तथा च धर्मिरूपेण नित्यत्वादुच्यते—तदपेतमप्यस्ति इति ॥
तदेवं व्यक्तिरूपश्च शक्तिरूपश्चैको धर्मी, व्यक्तिरूपेण च तस्यानित्यत्वं, शक्तिरूपेण च नित्यत्वमिति कथमेष विरोधः स्यात् । न हि देवदत्तश्चलनादिव्यापारेण सर्वदा गृह्यमाणश्चलनादिविरामे विरंस्यति । चलनमेव हि तिरोधीयते । तस्मादव्यक्तावस्थायामप्यस्ति धर्मी, व्यक्तावस्थायामुपलभ्यमानत्वात्, अन्धतमसावस्थितघटादिवत् ॥
व्यक्तिरपि स्वकीयधर्मान्तरसमीक्षया धर्मिणी । सा च धर्मिरूपेण नित्या, धर्मरूपेणानित्या अभ्युपेयते । एवं विकारेषु धर्मधर्मिभेदोऽनवस्थित इत्यनवस्थाऽपि इष्यत एव ॥
तत्र व्यक्तेरपैति इत्यनेन न विरुध्यते, नित्यत्वप्रतिषेधात् इत्ययं हेतुः । नापि अपेतमप्यस्ति इत्यनेन विरोधः । उभयोर्भिन्नविषयत्वात् । नापि विनाशप्रतिषेधात् इत्ययं अपेतमप्यस्ति इत्यनेन विरुध्यते । यथा बाह्यादपेतोऽप्यस्ति देवदत्त इति ॥
अथ मन्वीथाः—अस्ति इति नित्यत्वमुच्यते, तेन नित्यत्वप्रतिषेधात् इत्ययं नित्यत्वेन विरोधमालिङ्गतीति । न—अनभ्युपगमात् । न हि व्यक्तेर्नित्यत्वमभ्युपगच्छेम, तस्या एव नित्यत्वं प्रतिषेधेम । शक्तिव्यक्तिधर्मकत्वाभ्युपगमादिति हि प्रतिपादितम् ॥ तदेतदनिर्ज्ञाय पराभिप्रायं विरोधोदाहरणत्वापादानम् अन्धदर्पणीयवृत्तान्तमुद्भावयति । यथा किल कश्चिदन्धः स्वां अदर्शनशक्तिं अनवधार्य स्वार्थमादर्शमुपार्जयति तद्वदेतदाभाति ॥
अपि च यद्यप्येकत्रैव व्यक्तौ शक्तौ वा नित्यत्वमनित्यत्वं च अध्यारोप्य त्वं पक्षसिषाधयिषया ब्रवीथाः, एवमपि विरुद्धोदाहरणत्वं न संभवति, विपरीता(त)साधनात् । कथम् ? अपेतोऽप्यस्ति इति नित्यत्वप्रतिषेधात् इत्युच्यते । नित्यत्वप्रतिषेधात् इति अनित्यत्वादित्युक्तं भवति । अपेतस्याप्यस्तित्वं नित्यत्वमुच्यते । नित्यत्वस्य विपरीतमनित्यत्वम् । न च पक्षस्यानित्यत्वस्य अनित्यत्वं हेतुर्भवति, यो विपरीतं साधयन् नित्यत्वं विरुन्धीत । न ह्यनिष्टमसाधयन् विरुद्धतामियात् ॥
अथापि नित्यत्वप्रतिषेधो नाम आत्मलाभात् प्रच्युतिरिति विक(ल्पस्य)ल्प्यं वावद्येथाः—एवमपि शब्दभेदमात्रं(त्रात्) नार्थभेदः । आत्मलाभात् प्रच्युतिः, अनित्यत्वं, इत्येकोऽर्थः ॥
अथापि नित्यत्वोपपत्त्यभावादित्यवलम्बेथाः-एवमपि नित्यत्वप्रतिषेधात् इत्ययं शब्दः (एकस्यां शुक्तिकायां) नित्यत्वोपपत्त्यभावादित्यस्यार्थस्य [अ]वाचकः ॥
अथापि वाचक इत्यारोप्य प्रतिभाषेत—एवमपि शक्तिव्यक्तिधर्मधर्मिभे(दरूपेण)दे न नित्यत्वमनित्यत्वं(त्यरूपं) चेत्युक्तमेव समाधानम् ॥
एतेन व्यक्तेः अपेतोऽप्यस्ति, विनाशप्रतिषेधात् इति विरोधोद्भावनं प्रत्याख्यातम् ॥
एवमवस्थिते व्यक्तेरपेतस्य प्रत्यक्षेणानुपलभ्यमानस्य कथमस्तित्वम् ? यावता, नास्ति, अनुपलभ्यमानत्वात्, नभःकुसुमवत् इति ॥
अत्रोच्यते—अनुपलब्धिरसिद्धो हेतुः । अनुमानागमाभ्यामुपलब्धे: । यदेतत् व्यक्तं एतत् प्रागुत्पत्तेरप्यस्ति, यत उत्पद्यते । असच्चेन्नोत्पद्येत, शशविषाणवदेव ॥
किं च—असतः सत्त्वे सतश्चासत्त्वे सर्वत्र न आश्वस्युः । किं च—अनुपलब्धेश्चेदसत्त्वं मुक्तात्मकारणादीनां च प्रागुपलम्भादूर्ध्वं च अस्तित्वं केन लभ्यते ? तथा—[ भाष्यम् ]
संसर्गादस्य सौक्ष्म्यम् । अतोऽनुपलब्धिः इति ।
लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतः, अतीतलक्षणयुक्तः, अनागतवर्तमानाभ्यां लक्षणाभ्यां अवियुक्तः । तथा वर्तमानः, वर्तमानलक्षणयुक्तः, अतीतानागताभ्यां लक्षणाभ्यां अवियुक्तः । तथा अनागतः, अनागतलक्षणयुक्तः, वर्तमानातीताभ्यां लक्षणाभ्यां अवियुक्तः इति ॥ यथा पुरुषः एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवति इति ॥
‘नासतो विद्यते भावो नाभावो विद्यते सतः ।’
इति आगमः । प्रत्यक्षानुपलब्धिश्च नासत्त्वस्य कारणम् । अथ व्यक्तेरेव विकारो विद्यमानश्चेत्, कुतो नोपलभ्यत इति ? आह—साक्षात् कारणे संसर्गादस्य सौक्ष्म्यम्, अतोऽनुपलब्धिः । न असत्त्वात् ॥
इदानीं भूतेन्द्रियाणां लक्षणपरिणाम इदमुच्यते—लक्षणपरिणामो धर्मो यथा मृदो घटादिः अध्वसु अतीतादिषु वर्तमानोऽतीतो धर्मः । किमुक्तं भवति ? अतीतलक्षणयुक्तः, न पुनरसत्त्वमापन्नः । इतराभ्यां च अनागतवर्तमानाभ्यामवियुक्तः । कारणस्य मृदो वर्तमानत्वात् तत्र संसृष्टस्य घटस्य [अ]विद्यमानत्वेऽपि(नस्यापि) युक्तो वर्तमानेन लक्षणेन घटः । तथा भविष्यन्नपि घटो मृद एवानागतः सन् भविष्यतीत्यनागतलक्षणेनाप्यवियुक्तः तथा वर्तमानः, वर्तमानलक्षणयुक्तः, अतीतानागताभ्यां लक्षणाभ्यामवियुक्तः ॥
तथा अनागतः अनागतलक्षणयुक्तः, वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः अतीतानागतलक्षणयोः मृदात्मकत्वात् घटस्य व्यवहितेनाप्यतीतलक्षणेनावियोगः ॥
कथमेकलक्षणयुक्तो धर्मो लक्षणाभ्यामपराभ्यामवियुक्त इत्यवियोगस्य दृष्टान्तमाह—यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवति । शेषासु तु भूतभविष्यल्लक्षणयुक्तो रागः । सतश्चाविनाशादसतश्चानुत्पत्तेरिति हि प्रतिपादितम् ॥
अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगात् अध्वसङ्करः परैः दोषश्चोद्यत इति ॥
तस्य परिहारः—धर्माणां धर्मत्वं अप्रसाध्यम् । सति च धर्मत्वे लक्षणभेदोऽपि वाच्यः, न वर्तमानसमय एवास्य । एवं हि न चित्तं रागधर्मकम् । क्रोधकाले रागस्य असमुदाचारात् इति ॥
अत्र लक्षणपरिणामे सर्वस्य धर्मस्य सर्वलक्षणयोगादध्वसङ्करः परैर्दोषश्चोद्यते । कथम् ? यो हि भविष्यति स वर्तते, अतीतश्च । तेन अतीते वर्तमानभविष्यत्त्वम्, वर्तमाने अतीतभविष्यत्त्वम्, भविष्यति च अतीतवर्तमानत्वम् इत्येवमन्योन्याध्वसङ्करः ॥
तस्य परिहारः अयमुच्यते—धर्मिणो मृदाख्यस्य धर्माणां पिण्डघटकपालानां धर्मत्वं धर्मान्तराच्च भिन्नत्वम् अप्रसाध्यम् । सति च धर्मत्वे तद्भेदे च, लक्षणभेदोऽपि सिद्धो वाच्यः ॥
कथम् ? यथा पिण्डावस्थायां अनागतलक्षणयुक्तो घटो न वर्तमानो नापि अतीतः । यद्यपि मृत्त्वभविष्यत्त्वसमीक्षया अतीतवर्तमानाभ्यामपि [अवि]युक्तः ॥
तथा वर्तमानलक्षणयुक्तो नातीतो नाप्यनागतः । यद्यपि धर्मिरूपेणापे[वे]क्ष्यमाणः अतीतानागतलक्षणाभ्यां हीयमानजायमानाभ्यां लक्षणाभ्यामपि [वि]युक्तः ॥
तथा अतीतोऽतीतलक्षणयुक्तः न वर्तमानो नाप्यनागतः । यद्यपि मृत्त्वानुभूतव्यक्तिसमीक्षया अनागतवर्तमानाभ्यामवियुक्तः ॥
तथा पिण्डकपालादिषु योजनीयम् । तस्मादाह—न वर्तमानसमय एवास्य एकं लक्षणं धर्मस्य । किं तर्हि ? प्रकारेणोक्तेन त्रिलक्षणत्वम् । अतो नाध्वानः सङ्कीर्यन्ते ॥
एवं हि न चित्तं रागधर्मकम् इति न चित्ते वि[राग]धर्मिणि रागादीनां धर्मत्वे तद्भेदे च सिद्धे अध्वसङ्करः । कस्मात् ? क्रोधकाले रागस्य असमुदाचारात् ।
किं च, त्रयाणां लक्षणानां युगपदेकस्यां वृत्तौ नास्ति सम्भवः । क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेत् इति । उक्तं च “रूपातिशयाः वृत्त्यतिशयाश्च विरुध्यन्ते । सामान्यानि तु अतिशयैः सह प्रवर्तन्ते” । तस्मात् असंकरः । यथा रागस्यैव क्वचित् समुदाचार इति न तदानीं अन्यत्राभावः । किं तु, केवलं सामान्येन समन्वागत इति अस्ति तदा तस्य भावः । तथा लक्षणस्य इति ॥
न हि क्रोधकाले रागः स्वकाल इव समुदाचरति । क्रोधकाले हि रागः अतीतोऽनागतो वा । तथा क्रोधोऽपि रागकाले । यदि हि वर्तमानसमय एवैकं लक्षणं अभविष्यत्, क्रोधकालेऽपि रागः समुदाचरिष्यत् । नापि वा समुदाचरिष्यत् । नापि क्रोधकाले नास्ति ॥
किं च—त्रयाणां लक्षणानां युगपदेकस्यां लक्षणस्य वृत्तौ विरोधात् नास्ति सम्भवः । क्रमेण लक्षणानां क्रमेण स्वव्यञ्जकाञ्जनस्य घटादिस्वव्यञ्जकाञ्जनस्य अन्यतमस्य लक्षणस्य भवेत् सम्भवः ॥ उक्तं च—रूपातिशयाः वृत्त्यतिशयाश्च विरुध्यन्ते । वर्तमानरूपवृत्त्यतिशयैर्युक्ते घटे च पिण्डादिव्यक्तिरूपातिशया विरोधात् न संभवन्ति । अत एव अतीतानागतरूपा धर्मिसामान्यानुगतत्वेनाविरोधात् अतिशयैः सह वर्तन्ते ॥
तस्मात् अध्वनाम् असंकरः । यथा रागस्यैव क्वचित् समुदाचार इति न तदानीमन्यत्र स्त्रीषु अभावो रागस्य । किन्तु केवलं सामान्येन चित्तरूपेण समन्वागतः अतीतोऽनागतोऽपि सन् इत्यस्ति तदा तस्य रागस्य भावः । तथा लक्षणस्येति । ननु च पिण्डकपालयोरतीतानागतत्वात् घटावस्थायामभावाच्च ताभ्यां मृदाख्यस्य धर्मिणोऽपि अतीतानागतत्वमिति धर्मिणि पिण्डकपालयोरभाव इति कृत्वा धर्माणां पिण्डकपालादीनामध्वत्रयानुपपत्तिरिति परिशङ्कमानः
न धर्मी त्र्यध्वा धर्मास्तु त्र्यध्वानः । ते लक्षिताः तां तां अवस्थां प्राप्नुवन्तः अन्यत्वेन प्रतिनिर्दिश्यन्ते अवस्थान्तरतः, न द्रव्यान्तरतः । यथा एका रेखा शतस्थाने शतं, दशस्थाने दश, एका च एकस्थाने । यथा वा एकत्वेऽपि स्त्री, माता चोच्यते दुहिता च स्वसा च इति ।
अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चित् उक्तः । कथम् ? अध्वानः स्वव्यापारेण व्यवहिताः । यदा धर्मः स्वव्यापारं न करोति तदा अनागतः, यदा करोति तदा वर्तमानः, यदा कृत्वा निवृत्तः
कथयति—न धर्मी त्र्यध्वा । मृदाख्यो हि धर्मी पिण्डकपालातीतानागतत्वेन नातीतोऽनागतो वा । सर्वधर्मेषु मृदभिज्ञानानु(प्र)वृत्तेः । किं तर्हि ? धर्माः पिण्डादयः त्र्यध्वानः घटकाले पिण्डकपालयोरदर्शनात् । तस्मादध्वत्रयायोगो न धर्माणां परिशङ्कनीयः ।
ते धर्मा लक्षिताः पिण्डादयः त्र्यध्वत्वेनाभिलक्षिताः तां तामवस्थां दृढदुर्बलत्वादिकां प्राप्नुवन्तोऽन्यत्वेन नवो घटः पुराणश्चेत्यनेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतः । न द्रव्यान्तरतः मृदतिरिक्तात् ॥
यथा एका रेखा शतस्थाने शून्यद्वयेन तृतीयस्थाने शतं भवति । सैव च दशस्थाने एकेन शून्येन द्वितीयस्थाने दश । सैव प्रथमस्थाने एका ॥
यथा वा एकत्वेऽपि स्त्री माता चोच्यते दुहिता च, सैव अन्यापेक्षया स्वसा च । तदेवम् अवस्थान्तरादेव शब्दप्रत्ययादिभेदाः । न धर्मधर्मिभेदेन । तस्मात् यदुच्यते परैः शब्दप्रत्ययलक्षणधर्मकालादिभेदो हेतुः कार्यकारणभेदे इति, सोऽनेनानैकान्तिकीकृतः ॥
अवस्थापरिणामे तृतीयेऽस्मिन् कौटस्थ्यप्रसङ्गदोषः [कैश्चित्] उक्तः । कथं कौटस्थ्यप्रसङ्गः ? अध्वानः वर्तमानादयः स्वव्यापारेण व्यवहि(स्थि)ताः । कथम् ? यदा धर्मो घटः पिण्डावस्थायां स्वव्यापारं न करोति तदा अनागतः । यदा करोति तदा वर्तमानः अयम् । यदा कृत्वा निवृत्तः
तदा अतीतः, इत्येवं धर्मिणां नित्यत्वात् धर्मलक्षणाऽवस्थानां कौटस्थ्यं प्राप्नोति इति परैः दोष उच्यते ॥
नासौ दोषः ? कस्मात् । गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् ॥
यथा संस्थानं आदिमत् धर्ममात्रं शब्दादीनां विनाशि अविनाशिनाम्, एवं लिङ्गं आदिमत् धर्ममात्रं सत्त्वादीनां गुणानां विनाशि अविनाशिनाम् । तस्मिन् विकारसंज्ञा इति ॥
तत्रोदाहरणम् । मृत् धर्मी पिण्डाकारात् आकारान्तरं उपसम्पद्यमानः धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं हित्वा
तदा अतीतः । तत्र स एव धर्मः कृतः क्रियमाणः करिष्यमाणः निजव्यापारोपारूढः धर्मिस्वात्मभूत एवावस्थापितः । न व्यतिरिक्तरूपः । तेन धर्मिणां गुणानां नित्यत्वात् नित्यत्वाव्यतिरेकात् धर्मलक्षणावस्थानां कौटस्थ्यं प्राप्नोतीति दोष उच्यते ॥
नासौ दोषः । कस्मात् ? गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात् उद्भवाभिभवत्वविचित्रतया पुरुषवदेकान्तकूटस्थता नेष्यते गुणानाम् । परिणामाभ्युपगमात् । न चानवरतपरिणतीनामपि परस्परविमर्दातिरेकेण द्रव्यान्तरभावापत्तिरिति न कौटस्थ्यम् ॥
कथं विमर्दवैचित्र्यमित्याह—यथा संस्थानं शरीरादिकं [आदि]मत् कारणवत् धर्ममात्रं कारणस्यात्मभूतमव्यतिरिक्तं विनाशि तिरोभावधर्मकं धर्मान्तरसमुदये । केषां संस्थानमित्या(मा)ह—शब्दादीनामविनाशिनाम् । एवं लिङ्गं महदाख्यं आदिमत् कारणवत् धर्ममात्रं विनाशि गुणानामविनाशिनाम् आत्मभूतम् । तस्मिन् महदादिधर्ममात्रे विकारसंज्ञा न गुणानां विमर्दविचित्रतया विनाशित्वं गुणस्वरूपेण नित्यत्वं इति ॥
तत्रोदाहरणम्—मृत् धर्मी पिण्डाकारा पिण्डाकारात् आकारान्तरं घटं उपसम्पद्यमानो धर्मतः परिणमते ॥
वर्तमानं लक्षणं प्रतिपद्यत इति लक्षणतः परिणमते । घटो नवपुराणतां प्रतिक्षणमनुभवन् अवस्थापरिणामं प्रतिपद्यत इति । धर्मिणोऽपि धर्मान्तरं अवस्था, धर्मस्यापि लक्षणान्तरं अवस्था, इत्येक एव द्रव्यपरिणामो भेदेनोपदर्शित इति । एवं पदार्थान्तरेष्वपि योज्यमिति । त एते धर्मलक्षणावस्थापरिणामाः धर्मिस्वरूपमनतिक्रान्ताः इत्येक एव परिणामः सर्वानमून् विशेषान् अभिप्लवते । अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति ॥ १३ ॥
तत्र—