तस्य हेतुरविद्या ॥ २४ ॥
विपर्ययज्ञानवासनेत्यर्थः ।
सर्वविकल्पपक्षख्यापनार्थ उपन्यासः । दर्शनं ज्ञानं, तदेव ज्ञानमदर्शनमिति केचिन्मन्यन्ते । समासस्योत्तरपदार्थप्राधान्यमूरीकृत्यायं विकल्पः । एतस्य दोषोऽविद्यासूत्र एव व्याख्यातः ।
एते शास्त्रगता विकल्पाः दर्शनान्तरगता विकल्पाः । तत्र विकल्पबहुत्वमात्रमेतत् न बहुत्वमात्रेणार्थसिद्धिरित्यभिप्रायः । यस्य तु बुद्धिपुरुषसंयोगहेतुत्वं तस्यादर्शनं[नत्वं] युक्तं दर्शनविरोधात् । तथा च व्याख्यातमिति नात्र पुनः प्रयत्यते ॥ २३ ॥
सर्वपुरुषाणां गुणसंयोगाविशेषः । गुणैः संयोगः सर्वेषामविशिष्टः साधारणः, तथाप्यसाधारणविषयस्तु प्रत्यात्म विशिष्टस्तु प्रत्यक्चेतनस्य बौद्धप्रत्ययानुदर्शनः स्वबुद्धिसंयोगः । स चासाधारणः स्वबुद्धिसंयोगो येन भवति तदेवादर्शनम् । तस्य हेतुरविद्या । तस्य स्वस्वामिशक्तिस्वरूपोपलब्धिहेतोः संयोगस्य हेतुः कारणं अविद्या विपर्ययज्ञानवासनेत्यर्थः ॥
ननु च ‘विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम्’ इत्युक्तम् । तथा ‘अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या’ इत्युक्तम् । अत्र कथं विपर्ययज्ञानवासनेत्युच्यते । नैष दोषः—अविद्याकार्यत्वाद्वासनायाः
विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति । साधिकारा पुनरावर्तते । सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति । चरिताधिकारा निवृत्तादर्शना बन्धकारणाभावान्न पुनरावर्तते ॥
अत्र कश्चित् पण्डकोपाख्यानेनोद्धाटयति—मुग्धया भार्यया अभिधीयते—‘पण्डक ! आर्यपुत्र ! अपत्यवती मे भगिनी, किमर्थं नाम नाहम्’ इति । स तामाह—‘मृतस्तेऽहमपत्यमुत्पादयिष्यामि’ इति । तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, विनष्टं करिष्यतीति का प्रत्याशा ॥
सैवाविद्येत्युच्यते । प्रलीनेष्वपि कारणेषु साम्यावस्थायामपि सत्यामविद्यावासना पुनः पुनः प्रवृत्तौ प्रधानस्य हेतुर्भवति । न पुनर्विपर्ययः प्राक् बुद्ध्युत्पत्तेरभावात्प्रवृत्तिकारणमिति, तद्वासनैव प्रधानपुरुषसंयोगस्य कारणमित्याख्यायते ॥
तदेवाह—विपर्ययज्ञानवासनावासिता न कार्यनिष्ठां कार्यसमाप्तिम् । कार्यनिष्ठामाह—पुरुषख्यातिमिति । तां बुद्धिर्न प्राप्नोति । पुरुषख्यातिपर्यवसाना हि बुद्धेः करणीयवत्ता । साधिकारा करणीयवती पुनः पुनरावर्तते विपर्ययज्ञानवासनावशात् ॥
सा तु बुद्धिः पुरुषख्यातिपर्यवसाना कार्यनिष्ठां प्राप्नोति । पुनरपि तदेव स्पष्टयति—चरिताधिकारा निवृत्तादर्शनबन्धना कर्मविपाकयोरदर्शनमूलत्वाददर्शनमेव बन्धनम् । अदर्शननिवृत्तौ च बन्धनिवृत्तेर्बन्धकारणाभावाद्बन्धकारणस्यादर्शनस्याभावान्न पुनरावर्तते ॥
अत्र कश्चित्पण्डकोपाख्यानेनोद्धट्टयति । पण्डकः षण्डः । स किल मुग्धया भार्यया अभिधीयते । कथम् ? आर्यपुत्र, मे भगिन्यपत्यवती, किमर्थं नाहं अपत्यवत्यस्मीति । तामाह मृतस्तेऽहमपत्यमुत्पादयिष्यामीति । तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति, नष्टं करिष्यतीति का प्रत्याशा ॥
अयमुद्धट्टयितुरभिप्रायः—अविद्या चेद्बुद्धिपुरुषसंयोगस्य कारणं, तस्याश्च विद्या निवृत्तिहेतुः, ततश्च विद्यमानायां विद्यायां तद्विरोधिन्यविद्या निवर्तते ।
26तत्राचार्यदेशीयो वक्ति—ननु बुद्धिनिवृत्तिरेव मोक्षः । अदर्शनकारणाभावात् बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते ।
तत्र चित्तनिवृत्तिरेव मोक्षः । किमर्थमस्थान एवास्य मतिविभ्रमः ॥ २४ ॥
न तु विद्योत्पत्त्यनन्तरमपि चित्तनिवृत्तिः । तत्र यथैव सत्यां विद्यायां न चित्तनिवृत्तिः, तथा नष्टायामपि विद्यायां न निवर्त्स्यतितरामिदानीं षण्डादिव मृतादपत्योपपत्तिः । अत एव कारणादविद्याऽपि न संयोगकारणम् ॥
अत्राचार्यदेशीयः परिहारं वक्ति । आचार्यदेशीयग्रहणं पूर्वपक्षस्यासारत्वप्रख्यापनार्थम् । उद्धट्टनेनैव प्रत्युत्तरं वदामि इति ॥
ननु बुद्धिनिवृत्तिरेव मोक्षः । कथम् ? अदर्शनकारणाभावाद्बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते, तन्निवृत्तिरेव मोक्षः । किमर्थमस्थाने विभ्रमः । प्रधानपुरुषसंयोगस्य दुःखहेतोरविद्या कारणमिति विस्तरेण प्रतिपादितम् । ततश्च दर्शनाददर्शननिवृत्त्युपपत्तेः पूर्वपक्षमसारं मन्यते ॥
ननु चोक्तं विद्यानन्तरमेव बुद्धिर्न निवर्तत इति । उच्यते । विद्यया तावदविद्या निवर्तत एव । नात्र विभ्रमः कार्यः । तस्यां तु निवृत्तायां बुद्धिनिवृत्तिश्च भवत्येव । पुनर्बुद्धिसंयोगस्याविद्याव्यतिरेकेण कारणान्तराभावात् । ततश्च बुद्धिनिवृत्तिरेव मोक्षः ॥
यत्तु विद्यानन्तरमेव बुद्धिर्न निवर्तत इति, तदकारणम् । कस्मात् ? निमित्तनैमित्तिकयोरनेकप्रकारदर्शनात् । यथा तक्षादिनिमित्ताः प्रासादादयस्तक्षादिषूपरतेष्वपि न निमित्तविरत्या विरमन्ति । भग्नस्य च द्रुमस्य भङ्गानन्तरमेव विशेषादर्शनात् । तथा चित्तस्यापि विमुक्तसायकवदारब्धसंस्कारापरिक्षयात्, तत्संस्कारापेक्षया कंचित्कालं दर्शनेनैवावस्थानं इति । तथा च श्रुतिः—“तस्य तावदेव चिरम्” इति ॥ २४ ॥
हेयं दुःखं हेयकारणञ्च संयोगाख्यं सनिमित्तमुक्तम् । अतः परं हानं वक्तव्यम्—