साधनपादः · २.४

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥

व्यासभाष्यम्

 अत्र अविद्या क्षेत्रं प्रसवभूमिः उत्तरेषां अस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम् ।

 तत्र का प्रसुप्तिः ? । चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोध आलम्बने संमुखीभावः ।

विवरणम्

 किञ्च—कर्मविपाकांश्चाभिनिर्वर्तयन्ति । कर्म त्रिविधं, तद्विपाकांश्च जात्यायुर्भोगानिति ॥ ३ ॥

 अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् । कथमस्मितादयो विपर्यया इति, तत्प्रदर्श्यते सूत्रेणैव । अविद्या क्षेत्रं प्रसवभूमिः आत्मलाभक्षेत्रं यथा पृथिवी तृणलतागुल्मवीरुघां स्वात्मनोऽनतिरिक्तानां, एवमविद्यातो विपर्ययादव्यतिरिक्तानां अस्मितादीनां चतुर्णामेकैकशः प्रसुप्ततनुविच्छिन्नोदारतया चतुर्विकल्पानां प्रसवभूमिरविद्या ॥

 विपर्ययप्रत्यया हि तामाश्रित्यात्मानं प्रतिलभन्ते । तस्मादविद्यैवास्मितादिचतुष्टयरूपेण विपरिणमते ॥

 तत्र का प्रसुप्तिरिति । अस्मितादीनां प्रसुप्तिर्नाम धर्म उच्यते, नाविद्यायाः । कारणत्वात् । सर्वास्मितादिविकल्पेष्वनुगमात्सर्वदा प्रबुद्धैव सा, न प्रसुप्ता । प्रस्वपने व्यवहाराभावात् । अस्मितादीनामन्यतमस्य प्रसुप्तावन्यतमस्यावस्थानमवश्यमेव । अन्यथा क्लेशान्तरस्योद्भव एव न स्यात् । तस्मादस्मितादीनामेव चतुर्णां प्रसुप्तादिचतुर्विकल्पत्वम् ॥

 चेतसि शक्तिमात्रप्रतिष्ठानमित्यस्य व्याख्यानं करोति—बीजभावोपगम इति । यथा बीजं सदेवानङ्कुरीभवदपि भूमिगतं तिष्ठति, तथा चेतस्यस्मितादयः शक्तिरूपेणानभिव्यक्तस्वरूपाङ्कुरा व्यवतिष्ठन्ते ॥

 तस्य प्रबोध इति—तस्य क्लेशस्यास्मितादेः प्रबोध उद्भवः आलम्बने विषये सम्मुखीभावः स्वव्यञ्जकाञ्जनस्य ॥
व्यासभाष्यम्

 प्रसंख्यानवतोऽदग्धक्लेशबीजस्य संमुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोहः इति । अतः क्षीणक्लेशः कुशलः चरमदेह इत्युच्यते । तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्यं दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता प्रसुप्तिः दग्धबीजानामप्ररोहश्च ।

 तनुत्वमुच्यते—प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति

विवरणम्

 तत्रैतत् स्यात्, सर्वदैव क्लेशस्य बीजभावोपगमः प्रबोधश्च नियमेन स्यादिति । तत आह—प्रसंख्यानवतः सम्यग्दर्शनाभ्यासवतः अदग्धक्लेशबीजस्य योगिनः संमुखीभूतेऽप्यालम्बने नासौ बीजभावोपगमः । दग्धस्य दग्धत्वादेव कुतः पुनः प्रबोधः उद्भवः । विद्यमानस्य हि बीजस्य क्षितिजलादिसंयोगनिमित्तप्राप्तावङ्कुरीभावो न दग्धबीजशक्तेः, तथा क्लेशस्यापि ॥

 यद्येवम्, एषा पञ्चमी कस्मादवस्था नोक्ता दग्धप्रसुप्ततनुविच्छिन्नोदाराणामिति—न—असाधारणत्वात् । न हि सर्वदेहिनां साधारणी पञ्चमी क्लेशावस्था । योगिन एव हि सा, ततो नाम्नायते ॥

 कथं वा असाधारणीति ? तत आह—तत्रैव सा सम्यग्दर्शनाभ्यासवत्येव दग्धा नान्यत्र । क्षीणक्लेशः कुशलश्चरमदेह इति सम्यग्दर्शन उच्यते योगी । तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था । सतां क्लेशानां तदानीं दग्धं बीजसामर्थ्यम् । यथा विद्यमानानां यवादिबीजानां भर्जितानां बीजसामर्थ्यं दग्धम् । विषयस्य सम्मुखीभावेऽपि न भवत्येषां प्रबोधः, सम्यग्दर्शिनः संस्कारशेषावस्थत्वादिषोरिव लक्ष्यविमुक्तस्य ॥

 उक्ता प्रसुप्तिः । किञ्च दग्धबीजानां च क्लेशानामप्रबोधो योगिन उक्त इति । तनुत्वं इदानीं उच्यते—प्रतिपक्षभावनोपहताः प्रतिपक्षस्य शरीराद्यवद्यदर्शनादेः भावनयोपहताः अबलीकृता मन्दप्रभावाः क्लेशास्तनव उच्यन्ते ॥

 तथा विच्छिद्य विच्छिद्यार्थान्तरोपजनकालान्तरालेषु स्वात्मानमप्रदर्शयन्तः तेन तेनात्मना येन रूपेण पूर्वमुपलब्धास्तेनैवात्मना समुदाचरन्ति पुनरुद्भवन्तीति विच्छिन्नाः ॥
व्यासभाष्यम्

विच्छिन्नाः । कथम् ? रागकाले क्रोधस्यादर्शनात् । न हि रागकाले क्रोधः समुदाचरति । रागश्च क्वचित् दृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः । किं तु तत्र रागो लब्धवृत्तिः, अन्यत्र तु भविष्यद्वृत्तिरिति । स हि तदा प्रसुप्ततनुविच्छिन्नो भवति ।

विवरणम्

 यदि वा विच्छिद्य विच्छिद्य विच्छेदकाले ते व्यक्तेनात्मना स्वरूपेण पूर्वोत्तरकालवत् न समुदाचरन्ति ॥

 तत्रोदाहरणम्—कथं ? रागकाले क्रोधस्यादर्शनात् । न हि रागकाले क्रोधः समुदाचरति । कुतः रूपातिशयानां वृत्त्यतिशयानां च विरोधात् । स हि रागोदयात्तिरोभूतोऽन्येनाव्यक्तेनात्मना वर्तत इति विच्छिन्नः ॥

 तथा रागश्च क्वचिद्दृश्यमानो न विषयान्तरे नास्ति । कुतः ? विषयविरोधादत्र । पूर्वत्र रागेण विरोधादसमुदाचरणं क्रोधस्य । अत्र तु विषयाणामन्योन्यविरोधात् । न हि विषय एकस्मिन्नुपजनयति रागं विषयान्तरमपि तस्यैव रागस्योत्पादकम् ॥

 तद्यथा—नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु विरक्तः । किन्तु तत्र रागो लब्धवृत्तिः । यस्यां रक्तः । अन्यत्र भविष्यद्वृत्तिः अन्यासु स्त्रीषु स हि भविष्यद्रागव्यक्तिविशेषः तदा प्रसुप्तस्तनुर्वेति ॥

 ननु च ‘रागश्च क्वचित् दृश्यमान’ इत्यादि भाष्यं किमर्थं ? ननु रागस्वभावाख्यानं, इत्थं विषयभेदाल्लब्धभविष्यद्वृत्तिस्वभावो राग इति—सत्यम्—तथाऽपि प्रक्रान्तानुपयोगः । प्रक्रान्तं हि विच्छेदव्याख्यानं । न चैतद्विच्छेदव्याख्यानम् । नापि वक्ष्यमाणोदारव्याख्यानेन सम्बन्धः । तस्य निराकाङ्क्षत्वात् ॥

 एवं तर्हि पूर्वशेष एवायम् । कथम् ? एवं मन्यते, प्रसुप्ततनूदारत्वव्यतिरेकेण विच्छित्तिर्नाम धर्म एव नास्ति । कथम् ? यावन्न लब्धवृत्तिस्तावत्प्रसुप्त इत्युक्तम् । प्रतिपक्षभावनोपहतो मन्दप्रवृत्तिस्तनुरित्युच्यते ॥  यश्चापि लब्धवृत्तिः स उदार इत्याख्यायते । विच्छिन्नो नाम स भवति, यः क्वचिदुपलब्धः पुनरुपलभ्यते । यथा सरस्वतीस्रोतः । न हि रागोदये क्रोधः क्वचिदपि दृश्यते । तस्मान्न विच्छित्तिर्नाम धर्मोऽस्ति । अदर्शनात् ॥

 अत्रोच्यते—यद्यदर्शनाद्विच्छेदो नास्ति, तदा रागस्य क्वचिद्दृश्यमानस्यान्यत्रादर्शनादभावोऽस्तु । नन्वस्त्वेवाभावः, अन्यत्रादर्शनात् । न हि । कस्मात् ? क्वचित् दृश्यमानत्वादेव । न हि विषयान्तराभिमुखो न भवतीति धर्मिण्यपि चेतसि नास्ति । न हि चक्षुः कदाचिद्गजाभिमुखं न भवतीति घटाभिमुखप्रवृत्तं सन्नास्ति । घटाभिमुखदर्शनादेव । तदेतदाह—क्वचित् दृश्यमानो न विषयान्तरे नास्तीत्यादि ॥

 तथा क्रोधोऽपि रागेणोद्भूतेनाभिभूतत्वाद्विच्छिन्नदर्शनो भविष्यति, सरस्वतीस्रोतोवदेव । स हि रागो विषयान्तरे प्रसुप्तः तनुर्वा । तदाभिमुख्येनादृश्यमानविशेषत्वात् ॥

 कः पुनः प्रसुप्तिविच्छेदयोर्विशेषः ? यावतोभयत्रादर्शनमविशिष्टम् । उच्यते—प्रवृत्तदर्शनप्रबन्धस्यान्तरा विरोधिनाऽनुबद्धत्वाददर्शनं विच्छित्तिरदग्धस्य ॥

 प्रसुप्तिः पुनर्निमित्तेषु सत्स्वप्यदग्धबीजस्यैवासत्यपि विरोधिनाऽभिभवे न्यग्भूततया बीजरूपेणावस्थानम् ॥

 ननु चैवं सति "स(न)हि तदा प्रसुप्तस्तनुर्वे"ति विरुद्धं, प्रवृत्तेरदर्शनप्रबन्धो हि विषयान्तरेण दृश्यते—न—विषयान्तराभिमुख्यस्य विवक्षितत्वात् । विषयान्तराभिमुख्यं नाम यो रागस्य धर्मः स हि तदा प्रसुप्तः तनुर्वा । न रागः सर्वदा आत्मनैव प्रसुप्तस्तनुर्वा । क्वचित् दृश्यमानत्वादेव । क्रोधः प्रसुप्तस्तनुर्वा आत्मनैव रागकाले सर्वविषयेषु न दृश्यते ॥

 अथवा विच्छिन्नोदाहरणान्तरप्रतिपादनार्थमेव 'रागश्च क्वचि'दित्यादि भाष्यम् । कथं ? द्विप्रकारो विच्छेदः प्रदर्शयिष्य(ति) ते । एकस्तावत्प्रवृत्तदर्शनप्रबन्धस्य विरोधिनाऽभिभवात्सर्वत्रादर्शनम् । यथा दर्शितं 'रागकाले क्रोधस्यादर्शना'दिति ॥

 तथाऽयमन्यो विषयविशेषे दृश्यमानस्यैव विषयान्तरे प्राप्तिनिमित्तस्यादर्शनम् । यथा चैत्रस्य एकस्यां स्त्रियां रक्तस्य अन्यासु सतीष्वपि रागस्यादर्शनं
व्यासभाष्यम्

 विषये यो लब्धवृत्तिः स उदारः । सर्व एवैते क्लेशविषयत्वं नातिक्रामन्ति ।

 कस्तर्हि विच्छिन्नः प्रसुप्तः तनुरुदारो वा क्लेशः ? इति—उच्यते—सत्यमेवैतत्, किन्तु विशिष्टानामेवैतेषां विच्छिन्नादित्वम् । यथैव प्रतिपक्षभावनातो निवृत्तः, तथैव स्वव्यञ्जकाञ्जनेनाभिव्यक्त इति ।

विवरणम्

तत्र लब्धवृत्तिरिति क्वचिद्विषये दृश्यमानस्यैव यत्र भविष्यद्वृत्तिविषये यददर्शनं, स चापि विच्छेद इति ॥

 कस्मात्पुनरन्यत्र न दृश्यत इत्याह—स हि तदा प्रसुप्तस्तनुर्वा । न हि प्रसुप्तिस्तानवं वा विवक्ष्यते । यथा तथा वा भवतु । तत्रादर्शनं विच्छेदत्वेन विवक्षितम् ॥

 विषये यो लब्धवृत्तिः स उदारः । ननु च प्रसुप्ततनुविच्छिन्नानां कार्यासमर्थानां न क्लेशता । न हि प्रसुप्तस्तनुर्विच्छिन्नो वा प्रसुप्तिविच्छित्तितन्नियमावस्थायां कार्यं कर्तुं क्षमते । न ह्यजातश्शत्रुरुपघातायालम् । विच्छिन्ने वा प्रदेशे स्रोतसि स्नातुं शक्यम् । तस्मादविद्या क्षेत्रमुत्तरेषामित्येतावदेवास्तु । किन्तैरकार्यक्षमैः प्रसुप्ततनुविच्छिन्नैरुपदिष्टैः । एतदाशङ्क्याह—सर्वे चैते क्लेशविषयत्वं नातिक्रामन्तीति । न हि शत्रुः प्रसुप्तो जनिष्यमाणो वा नापकरिष्यति ॥

 कस्तर्हि विच्छिन्नः प्रसुप्तस्तनुरुदारो वा क्लेशः । न युक्तमेवं भेदेन वचनम् । एकमेवोदाहरणमस्तु । न चोदारावस्थाया अन्यत्र कार्यं करिष्यति ॥

 सत्यमेवमेतत् । तथाऽपि परिहार उच्यते, किं तु विशिष्टानामेवैतेषां अपरित्यक्तक्लेशत्वधर्मकाणामेव विच्छिन्नादित्वम् । विच्छिन्नाद्यवस्थायामपि नापागमदपकर्तृत्वशक्तिरित्यदोषः ॥

 तत्काले कार्याक्षमत्वमिति चेत्—न—प्रतिपक्षविधानार्थत्वाद्वचनस्य । न हि शत्रोरदृश्यमानस्य प्रसुप्तस्य जनिष्यमाणस्य वा न प्रतिविधातव्यम् ॥

 श्रूयते चेन्द्रः प्रतिपक्षभयेन सप्तधा दितेर्गर्भमभिनदिति । तत्र कारणं स्वयमेव प्रकटयति—यथैव प्रतिपक्षभावनातो निवृत्तस्तथैव स्वव्यञ्जकाञ्जनेन विषयादिना अभिव्यक्त इति ॥

व्यासभाष्यम्

 सर्व एवामी क्लेशाः अविद्याभेदाः । कस्मात् ? सर्वेष्वविद्यैवाभिप्लवते । यदविद्यया वस्त्वाकार्यते तदेवानुशेरते क्लेशाः विपर्यासप्रत्ययकाले उपलभ्यन्ते क्षीयमाणाञ्चाविद्यामनु क्षीयन्त इति ॥ ४ ॥

 तत्राविद्यास्वरूपमुच्यते—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 2 · Sutras

Read the whole pada →