तत्र शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ ४२ ॥
तद्यथा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानं इत्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चान्ये शब्दधर्मा अन्ये अर्थधर्माः अन्ये विज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्का इत्युच्यते ॥ ४२ ॥
सैषा समापत्तिश्चतुष्टयी । तत्र प्रथमां समापत्तिं व्याचष्टे—शब्दार्थ- ज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः । शब्दश्चार्थश्च ज्ञानं च शब्दार्थज्ञानानि तेषां विकल्पाः शब्दार्थज्ञानविकल्पाः । ध्यातव्यालम्बन- विषयैर्विकल्पैः संकीर्णा विमिश्रा इतरेतरप्रत्ययानुविद्धा सा संकीर्णसमापत्तिः ॥
ननु च शब्दार्थप्रत्यया इतरेतरव्यावृत्तस्वरूपाः, योगी चैकं वस्तु ध्येयत्वेनालम्बते शब्दमर्थं प्रत्ययं वा, तत्र कः शब्दार्थज्ञानविकल्पसङ्करः ? ॥
एवमेवैतत् । तथाऽपि अयमेव संव्यवहारो लोके, यदुताविभागेन ग्रहणम् । तद्यथा गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन लोके ग्रहणं दृष्टम् । एवं हि लोकः त्रयमपि गौरित्येव व्यपदिशति । तथाऽन्यत- रग्रहणेऽवशिष्टयोरपि स्मृतिः ।
ननु च तथाभूतमेतद्वस्तु—नैवं—शब्दार्थसङ्केतग्रहणोत्तरकालभावित्वात् । ननु सङ्केतादपि प्राक् सामान्यशब्दं यं कश्चिदध्यवस्यत्येव—न—विविक्तानामपि ग्रहणदर्शनात् । विविच्यमानाश्चान्ये शब्दधर्मा गकारादिवर्णोदात्त- स्वरितद्रुतमध्यविलम्बितश्रोत्रग्रहणादयः । ते नार्थज्ञानयोः । तथान्येऽर्थधर्माः सास्नालाङ्गूलककुदखुरविषाणदर्शनस्पर्शनादयः । तथा (च)अन्ये प्रत्ययधर्माः पुरुषग्राह्यात्मकत्वावभासात्मकत्वसंस्काराधायित्वादयः, न ते शब्दार्थयोः । न [तेन]परमार्थतोऽन्योन्यधर्मसङ्करगन्धोऽप्यस्ति । तेन विविक्तः पन्थास्तेषाम् ॥
तत्र यत्र क्वचन समापन्नस्य यो ह्येवार्थः समाधिप्रज्ञामुपारूढः स चेच्छब्दार्थज्ञानविकल्पानुविद्धः शब्दार्थसङ्केतकृतो य इतरेतरस्मृत्यनु- व्याधस्तद्विशिष्टश्चेदर्थ उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते ॥
यदा पुनः शब्दसंकेतस्मृतिपरिशुद्धौ श्रुतानुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थः तत्स्वरूपाकारमात्रतयैवावच्छिद्यते । सा च निर्वितर्का समापत्तिः । तत्परं प्रत्यक्षम् । तच्च श्रुतानुमानयो- र्बीजम् । ततः श्रुतानुमाने प्रभवतः । न च श्रुतानुमानज्ञानसहभूतं तद्दर्शनम् । तस्मादसंकीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति । निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते—
अनेकजन्मान्तरशब्दार्थसङ्केतज्ञानसंस्कारविशिष्टत्वाद्योगिनोऽपि प्रथमतरा समापत्तिर्लोकप्रत्ययाविशिष्टा । एष तु विशेषो यत् लब्धस्थितिपदत्वाद्योगिचित्तस्य समानप्रत्ययप्रवाहतेति ॥ ४२ ॥
इदानीं निर्वितर्का समापत्तिरुच्यते । यदा पुनः शब्दसङ्केतस्मृति- परिशुद्धौ । शब्दसङ्केतोऽस्यायं वाचकः अयमस्य वाच्य इति समयप्रतिपत्तिः । तज्जनितस्मृतिः शब्दसङ्केतस्मृतिः । तस्याः परिशुद्धिर्मिथ्यात्वाद्विनिवृत्तिः । सा रजस्तमसोर्न्यग्भावात् ॥
श्रुतज्ञानं आगमिकम्, अनुमानज्ञानं लैङ्गिकं, ते च सामान्यविषय एवानुमानागमज्ञाने, तयोर्विकल्पो हि विशेषाध्यारोपः । तेनाध्यासेन शून्यायां योगिनः समाधिप्रज्ञायां व्यावृत्तलैङ्गिकसाङ्केतिकज्ञानाध्यासायां स्वरूपमात्रेण मात्रग्रहणं दिग्देशकालानुभावादिभ्योऽपि व्यावृत्त इत्येवमर्थं, स्वैरेव धर्मैर्महीयमानः तत्स्वरूपमात्रतयैव तस्यार्थस्य स्वरूपमात्रतयैव योगिनः प्रज्ञा अवच्छिद्यते । न तस्मादर्थाद्बहिर्देशकालादि किंचिदालोचयतीत्यर्थः ॥
स्वमपि ग्रहणात्मकं रूपं तत्प्रज्ञा नालोचयति, निर्मलतरत्वात् । ग्राह्यमात्रैव सा विभाव्यते । सा च तादृशी निर्वितर्का समापत्तिः । निर्गतो वितर्कोऽस्याः निर्वितर्कः वितर्कोऽध्यारोपः । सोऽस्यां नास्ति ॥
तत् एतत् परं उत्कृष्टं शुद्धं प्रत्यक्षं अपरं प्रत्यक्षं सर्वसाधारणं पुरस्ताद्वृत्तिमध्ये पठितमिदं योगिन एवेति । तच्छ्रुतानुमानयोर्बीजम् । यद्यपि पूर्वोक्तमपि श्रुतानुमानयोर्बीजमेव, तथाऽपि तत्कार्ये श्रुतानुमाने व्यभिचरतोऽपि, न पुनर्निर्वितर्कसमाधिजप्रत्यक्षप्रभवे व्यभिचरत इत्यत आह—ततः श्रुतानुमाने प्रभवत इति ॥