समाधिपादः · १.२

योगश्चित्तवृत्तिनिरोधः ॥ २ ॥

व्यासभाष्यम्

सर्वशब्दाग्रहणात् संप्रज्ञातोऽपि योग इत्याख्यायते ।

विवरणम्

 सर्ववृत्तिनिरोधे त्वसंप्रज्ञात इति । तुशब्दोऽवधारणार्थः । तस्य एवंविधस्य समाधेरसंप्रज्ञातस्यैव केवलस्य लक्षणाभिधित्सयेदं सूत्रं प्रववृते प्रवृत्तं ‘योगश्चित्तवृत्तिनिरोधः’ इ[ती]ति वक्तव्यम् ॥

 ननु च तस्य लक्षणमभिधातुमेतत् सूत्रं प्रवृत्तं, तथा च सति ‘योगस्य चित्तवृत्तिनिरोधः’ इति वक्तव्यं, सामानाधिकरण्यं न युक्तम् । न हि लक्ष्यमेव लक्षणं स्यात् । चित्तवृत्तिनिरोधलक्षण इति वा वक्तव्यम् । नैष दोषः । लक्ष्ये लक्षणाध्यासात् । यथाऽयं पिण्डो देवदत्त इति लक्ष्ये लक्षणमध्यस्यते (प्रत्यस्यते) ॥

 ननु च सर्ववृत्तिनिरोधे त्वसम्प्रज्ञातः, तस्य चेदं लक्षणं, ततश्च ‘योगः सर्वचित्तवृत्तिनिरोधः’ इति वक्तव्यम् । न चोक्तम् । अतोऽतिव्यापि लक्षणम् । सर्वशब्दाग्रहणे तावत्कारणमुच्यते-यदि सर्वग्रहणं क्रियते, तदैकदेशनिरोधनिमित्तस्य संप्रज्ञातस्य योगत्वं निवर्तितं स्यात् । तन्माभूदिति सर्वशब्दाग्रहणम् ॥

 अस्तु तर्हि संप्रज्ञातासंप्रज्ञातयोः सामान्यलक्षणं, विशेषानुपादानात् । नैष दोषः । योगे प्रकृते पुनर्योगग्रहणात् । विशेषाविवक्षायां हि योगग्रहणं नार्थवत् स्यात् ॥

 ननु चानुशासने न्यग्भूतत्वाद्योगस्य इह योगग्रहणे असति चित्तवृत्तिनिरोध इत्युक्तेऽनुशासनार्थता भवेत् सूत्रस्य-नैवं-योगानुशासनस्य प्रस्तुतत्वात् । योगानुशासनं हि प्रारब्धं, नायोगानुशासनं, तल्लक्षणाभिधाने ह्यतिप्रसङ्गः, पदार्थासङ्गतिश्च । न हि चित्तवृतिनिरोधो योगानुशासनमिति पदार्थः सङ्गच्छते ॥

 एवमपि योगग्रहणात् कुतोऽसंप्रज्ञातस्यैव लक्षणं, न पुनः संप्रज्ञातस्य लक्षणं स्यातू, योगग्रहणस्याविशिष्टत्वादिति ?

व्यासभाष्यम्

 चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम् । प्रख्यास्वरूपं हि चित्तसत्त्वम्

विवरणम्

 उच्यते--अव्यभिचारात् । व्यभिचरति न तत्तस्य लक्षणं, निरोधस्त्वसंप्रज्ञातेऽपि वर्तत” इति संप्रज्ञातं व्यभिचरति । न हि विषाणित्वं गोर्लिङ्गं, महिष्यादिभिर्व्यभिचारात् ॥

 ननु चासंप्रज्ञातमपि व्यभिचरति, संप्रज्ञातस्यापि हेयवृत्तिनिरोधत्वात् । सत्यमेवं, किं तु न निरोधादन्येन लक्षयितुमसंप्रज्ञातः शक्यते । निरोध एव तु तस्य लक्षणम्, अन्यस्याभावात् । संप्रज्ञातस्य त्वसाधारणवितर्कादिलक्षणलक्ष्यत्वात् । यथा स्पर्शलक्षणमित्युक्ते वायुरेवासाधारण्याल्लक्ष्यते स्पर्शवत्त्वेन, अथ च विद्यत एव स्पर्शवत्त्वं तेजःप्रभृतिष्वपि ॥

 एवं च सति योगग्रहणमनुवादमात्रम् । अत एव च सर्वग्रहणं न कृतं सूत्रे । निरोधग्रहणेनैवासंप्रज्ञातलक्षणत्वे सिद्धे यदि सर्वग्रहणं क्रियेत, तत्संप्रज्ञातस्य योगतां निवारयेत् । तस्मादसंप्रज्ञातस्यैवेदं लक्षणम् । तथा चोपसंहरति भाष्यकारः-*न तत्र किंचित् संप्रज्ञायते इत्यसंप्रज्ञातः, स योगश्चित्तवृत्तिनिरोध' इति ।

 चित्ततद्वृत्तितन्निरोधव्याचिख्यासया चित्तं हीत्यादि भाष्यम् । किमात्मकं पुनस्तच्चित्तं, यस्य वृत्तिनिरोधो योग इत्यत आह-चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणमिति । तत्र चित्तं त्रिगुणमिति व्याख्यायते, प्रख्याप्रवृत्तिस्थितिशीलत्वादिति हेतुः । प्रख्या प्रख्यानं प्रकाशनं, स हि सत्त्वगुणस्य धर्मः । प्रवृत्तिः प्रवर्तनं व्यापारः, स हि रजोधर्मः । स्थितिः स्थानं वरणं प्रतिबन्ध इति, स च तमोधर्मः । एवंशीलाः हि सत्त्वादयो गुणाः, चित्तं च प्रख्यादिशीलं, तस्मात् त्रयाणां गुणानां परिणामश्चित्तं भवितुमर्हति ।

 तस्य च प्रख्यादिहेतोरसिद्विमाशंक्याह-प्रख्यास्वरूपं हि चित्तसत्त्वमिति । हिशब्दः प्रसिद्धावद्योतनार्थः । प्रसिद्धं हि लोके शास्त्रे च सर्वावभासकत्वं चित्तस्य । चित्तमेव सत्त्वं चित्तसत्त्वं सत्त्वप्रधानगुणपरिणामत्वात् ॥

 अथवा अन्यसंसर्गवियोगाभ्यामनेकवृत्ति ख्यातिमात्रं च चित्तं स्पष्टं दर्शयितुं शक्यत इति ब्रवीति-प्रख्यास्वरूपं हि चित्तसत्त्वमिति ॥

व्यासभाष्यम्

रजस्तमोभ्यां संसृष्टम् ऐश्वर्यविषयप्रियं भवति । तत्तमसानुविद्धम् अधर्माज्ञानावैराग्यानैश्वर्योपगं भवति ।

 तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्चर्योपगं भवति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत् परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः ।

 चितिशक्तिरपरिणामिनी अप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च ।

विवरणम्

 इदानीं वृत्तयो व्याख्यायन्ते । तासां चानेकत्वं रजस्तमसोरुद्भवाभिभवनिमित्तं विरुद्धत्वं चेत्याह-रजस्तमोभ्यां संसृष्टं समप्रधानाभ्यां यदा संसृष्टं तदानीं ऐश्वर्यविषयप्रियं भवति ॥ प्रीतिः रागः, ऐश्वर्यविषयरागयुक्ता वृत्तयो भवन्तीत्यर्थः ।

 तत्तमसानुविद्धं ॥ तदेव प्रख्यास्वरूपं चित्तं यदा गुणभूतरजस्केनोद्भूतेन तमसानुविद्धं, तदानीमधर्मादिचतुष्टयविषया वृत्तयः क्लिष्टा जायन्ते ॥

 तदेव प्रक्षीणमोहावरणमिति ॥ न्यग्भूततमस्कं तमःक्षयादेव जलधरापगमादिव (परि) रविबिम्बं सर्वतः प्रद्योतमानं रजोमात्रया रजोलेशेन अनुविद्धं यदा तदा धर्माद्युपगतं । धर्मादिचतुष्टयविषया वृत्तयोऽक्लिष्टा भवन्ति ॥

 यदा तदेव रजो[लेश]मलोपेतं स्वरूपप्रतिष्ठं केवलेन स्वेन प्रख्यारूपेणावस्थितं, तदा सत्त्वपुरुषान्यताख्यातिमात्रं भवति । सत्त्वं चित्तं पुरुषो भोक्ता तयोरन्यता विविक्तता तत्ख्यातिः तदवगमः, तन्मात्रग्रहणं क्लेशाद्यभावप्रदर्शनार्थम् । धर्ममेघध्यानोपगं भवति धर्ममेघो नाम समाधिः ॥

 तदेव प्रसंख्यानबलाद्रजस्तमसी तिरस्कृत्य केवलेन ख्यात्यात्मना पुरुषस्वरूपमात्रदर्शनेन अवस्थानं ध्यानं प्रसंख्यानमित्याचक्षते, ध्यायिनो योगिनः ॥ एवं वृत्तिस्वरूपे व्याख्याते तन्निरोधप्रदर्शनार्थमाह--चित्तशक्तिरित्यादि ॥ चितिरेव शक्तिः चितिशक्तिः । यथा पच्यादयः शक्तयः शक्तिमदपेक्षाप्रापणीय - जन्मानो न स्वयंशक्तयः । चितिः पुनः स्वयमेव शक्तिः, नार्थान्तरमपेक्षते ।

व्यासभाष्यम्

 सत्त्वगुणात्मिका चेयमतो विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किंचित् संप्रज्ञायत इत्यसंप्रज्ञातः । (द्विविधः) स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥

विवरणम्

 तेन नित्यावस्थितत्वम् । चितिशब्दस्य चिन्मात्राभिधायिनः शक्तिशब्देन सामानाधिकरण्यमविकृतरूपाया एव चितेर्विषयित्वप्रदर्शनार्थम् ॥

 यस्मादेवमतोऽपरिणामिनी । व्यवस्थिते धर्मिणि धर्मान्तरतिरोभावेन धर्मान्तरप्रादुर्भावः परिणामः । न परिणमितुं शीलमस्या इत्यपरिणामिनी । अत एव अप्रतिसङ्क्रमा, परिणामिन एव चित्तादेर्विषयादौ प्रतिसङ्क्रमदर्शनात् ॥

 अत एव दर्शितविषया दर्शितोऽन्तःकरणेन विषयोऽस्या इति । तेनैव शुद्धा । अत एव अनन्ता देशतः कालतश्च । पूर्वपूर्वमुत्तरस्योत्तरस्य हेतुत्वेन द्रष्टव्यम् । वैधर्म्यदृष्टान्तश्चित्तमिन्द्रियाणि च । सत्त्वगुणात्मिका सत्त्वमेव गुणः सत्त्वगुणः तस्येवात्मा स्वरूपमवभासो यस्याः सेयं सत्त्वगुणात्मिका अवभासस्वरूपेत्यर्थः । वृत्त्यविशिष्टवृत्तित्वाद्वा सत्त्वगुणात्मिकेप्युच्यते ॥

 यदि वा ख्यात्या संबध्यते ख्यातिः सत्त्वगुणात्मिकेति । अतः चितिशक्तेरुक्तलक्षणाया विपरीता विलक्षणा विवेकख्यातिः परिणामादिमती ॥ यस्मात् पुरुषादुत्कृष्टात् परिणामादिगुणविरहितान्निकृष्टा परिणामादिगुणयुक्ता, अतः स्वरूपदोषदर्शनात् तस्यां विरक्तं अपरक्तं तामपि ख्यातिं आत्मनो निरुणद्धि ॥ तदवस्थं निरोधावस्थं, संस्कारोपगं, संस्कारमात्रावशेषम् । निरुद्धासु वृत्तिषु वृत्तिजनिताः संस्कारा एवावशिष्यन्ते । एतस्यां निरोधभूमौ यः समाधिः स निर्बीजः । निर्गतं बीजमत्र क्लेशादिबीजं सर्वमुत्सन्नमस्मिन्निति । तस्मादसंप्रज्ञातसमाधिलक्षणार्थमेव सूत्रमित्युपसंहरति—स योगश्चित्तवृत्तिनिरोध इति ॥ २ ॥

 योगश्चित्तवृत्तिनिरोध इत्युक्तं, तत्र बोद्धृत्वेनैव पुरुषसद्भावाधिगमः, विषयभूतवृत्तिनिरोधे च विषयिणोऽपि बोद्धुः पुरुषस्य निरोधं कश्चिदाशङ्केतापि, तथा च सति तत्कैवल्यप्राप्त्युपायस्यापि विवेकख्यातेरनर्थकत्वं मन्वीत

व्यासभाष्यम्

 तदवस्थे चेतसि स्वविषयाभावात् बुद्धिबोधात्मा पुरुषः किंस्वभाव इति—

पठन विकल्प

पठन अपनी सुविधा से चुनें

भाषा
पठन

दिखावट

18 px
पृष्ठ का रंग
Hide menus for a clear reading page.

विषयानुक्रमणिका

१समाधिपादः
Read the whole pada →
२साधनपादः
Read the whole pada →
३विभूतिपादः
Read the whole pada →
४कैवल्यपादः
Read the whole pada →

Pada 1 · Sutras

Read the whole pada →